Ṛk 8.35.22
Saṃhitā
अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ।
आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
अर्वाग् रथं नि यच्छतम् पिबतं सोम्यम् मधु |
आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ||
arvā́grátham ní yacchatam píbatam somyám mádhu ǀ
ā́ yātamaśvinā́ gatamavasyúrvāmahám huve dhattám rátnāni dāśúṣe ǁ
arvāg rathaṃ ni yacchatam pibataṃ somyam madhu |
ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe ||
Padapāṭha
अ॒र्वाक् । रथ॑म् । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥
अर्वाक् । रथम् । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ।
आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥
arvā́k ǀ rátham ǀ ní ǀ yacchatam ǀ píbatam ǀ somyám ǀ mádhu ǀ
ā́ ǀ yātam ǀ aśvinā ǀ ā́ ǀ gatam ǀ avasyúḥ ǀ vām ǀ ahám ǀ huve ǀ dhattám ǀ rátnāni ǀ dāśúṣe ǁ
arvāk ǀ ratham ǀ ni ǀ yacchatam ǀ pibatam ǀ somyam ǀ madhu ǀ
ā ǀ yātam ǀ aśvinā ǀ ā ǀ gatam ǀ avasyuḥ ǀ vām ǀ aham ǀ huve ǀ dhattam ǀ ratnāni ǀ dāśuṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.035.22
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.17.04
- Maṇḍala · Anuvāka · Ṛk
- 08.05.107
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Upariṣṭājjyotis, Paṅkti, Mahābṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.