Ṛk 8.35.4
Saṃhitā
जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
जुषेथां यज्ञम् बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् |
सजोषसा उषसा सूर्येण चेषं नो वोऌहम् अश्विना ||
juṣéthām yajñám bódhatam hávasya me víśvehá devau sávanā́va gacchatam ǀ
sajóṣasā uṣásā sū́ryeṇa céṣam no voḷhamaśvinā ǁ
juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam |
sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷham aśvinā ||
Padapāṭha
जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
जुषेथाम् । यज्ञम् । बोधतम् । हवस्य । मे । विश्वा । इह । देवौ । सवना । अव । गच्छतम् ।
सऽजोषसौ । उषसा । सूर्येण । च । आ । इषम् । नः । वोळ्हम् । अश्विना ॥
juṣéthām ǀ yajñám ǀ bódhatam ǀ hávasya ǀ me ǀ víśvā ǀ ihá ǀ devau ǀ sávanā ǀ áva ǀ gacchatam ǀ
sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ā́ ǀ íṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ
juṣethām ǀ yajñam ǀ bodhatam ǀ havasya ǀ me ǀ viśvā ǀ iha ǀ devau ǀ savanā ǀ ava ǀ gacchatam ǀ
sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ā ǀ iṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.035.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.14.04
- Maṇḍala · Anuvāka · Ṛk
- 08.05.089
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Upariṣṭājjyotis, Paṅkti, Mahābṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.