Ṛk 8.35.1
Saṃhitā
अ॒ग्निनेंद्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः सचाभुवा |
सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ||
agnínéndreṇa váruṇena víṣṇunādityái rudráirvásubhiḥ sacābhúvā ǀ
sajóṣasā uṣásā sū́ryeṇa ca sómam pibatamaśvinā ǁ
agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā |
sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā ||
Padapāṭha
अ॒ग्निना॑ । इन्द्रे॑ण । वरु॑णेन । विष्णु॑ना । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
अग्निना । इन्द्रेण । वरुणेन । विष्णुना । आदित्यैः । रुद्रैः । वसुऽभिः । सचाऽभुवा ।
सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥
agnínā ǀ índreṇa ǀ váruṇena ǀ víṣṇunā ǀ ādityáiḥ ǀ rudráiḥ ǀ vásu-bhiḥ ǀ sacā-bhúvā ǀ
sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ sómam ǀ pibatam ǀ aśvinā ǁ
agninā ǀ indreṇa ǀ varuṇena ǀ viṣṇunā ǀ ādityaiḥ ǀ rudraiḥ ǀ vasu-bhiḥ ǀ sacā-bhuvā ǀ
sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ somam ǀ pibatam ǀ aśvinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.035.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.14.01
- Maṇḍala · Anuvāka · Ṛk
- 08.05.086
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Upariṣṭājjyotis, Paṅkti, Mahābṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.