Ṛk 8.66.10
Saṃhitā
कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तं ।
इंद्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥
कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो अस्तृतम् |
इन्द्रो विश्वान् बेकनाटां अहर्दृश उत क्रत्वा पणींर् अभि ||
kádū mahī́rádhṛṣṭā asya táviṣīḥ kádu vṛtraghnó ástṛtam ǀ
índro víśvānbekanā́ṭām̐ ahardṛ́śa utá krátvā paṇī́m̐rabhí ǁ
kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam |
indro viśvān bekanāṭāṃ ahardṛśa uta kratvā paṇīṃr abhi ||
Padapāṭha
कत् । ऊं॒ इति॑ । म॒हीः । अधृ॑ष्टाः । अ॒स्य॒ । तवि॑षीः । कत् । ऊं॒ इति॑ । वृ॒त्र॒ऽघ्नः । अस्तृ॑तम् ।
इन्द्रः॑ । विश्वा॑न् । बे॒क॒ऽनाटा॑न् । अ॒हः॒ऽदृशः॑ । उ॒त । क्रत्वा॑ । प॒णीन् । अ॒भि ॥
कत् । ऊं इति । महीः । अधृष्टाः । अस्य । तविषीः । कत् । ऊं इति । वृत्रऽघ्नः । अस्तृतम् ।
इन्द्रः । विश्वान् । बेकऽनाटान् । अहःऽदृशः । उत । क्रत्वा । पणीन् । अभि ॥
kát ǀ ūṃ íti ǀ mahī́ḥ ǀ ádhṛṣṭāḥ ǀ asya ǀ táviṣīḥ ǀ kát ǀ ūṃ íti ǀ vṛtra-ghnáḥ ǀ ástṛtam ǀ
índraḥ ǀ víśvān ǀ beka-nā́ṭān ǀ ahaḥ-dṛ́śaḥ ǀ utá ǀ krátvā ǀ paṇī́n ǀ abhí ǁ
kat ǀ ūṃ iti ǀ mahīḥ ǀ adhṛṣṭāḥ ǀ asya ǀ taviṣīḥ ǀ kat ǀ ūṃ iti ǀ vṛtra-ghnaḥ ǀ astṛtam ǀ
indraḥ ǀ viśvān ǀ beka-nāṭān ǀ ahaḥ-dṛśaḥ ǀ uta ǀ kratvā ǀ paṇīn ǀ abhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.49.05
- Maṇḍala · Anuvāka · Ṛk
- 08.07.096
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.