Ṛgveda · Maṇḍala 8 · Sūkta 66

Ṛk 8.66.11

Indra · Kali Prāgātha

The whole sūkta Link

Saṃhitā

व॒यं घा॑ ते॒ अपू॒र्व्येंद्र॒ ब्रह्मा॑णि वृत्रहन् ।
पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥

वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् |
पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ||

vayám ghā te ápūrvyéndra bráhmāṇi vṛtrahan ǀ
purūtámāsaḥ puruhūta vajrivo bhṛtím ná prá bharāmasi ǁ

vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan |
purūtamāsaḥ puruhūta vajrivo bhṛtiṃ na pra bharāmasi ||

Padapāṭha

व॒यम् । घ॒ । ते॒ । अपू॑र्व्या । इन्द्र॑ । ब्रह्मा॑णि । वृ॒त्र॒ऽह॒न् ।
पु॒रु॒ऽतमा॑सः । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । भृ॒तिम् । न । प्र । भ॒रा॒म॒सि॒ ॥

वयम् । घ । ते । अपूर्व्या । इन्द्र । ब्रह्माणि । वृत्रऽहन् ।
पुरुऽतमासः । पुरुऽहूत । वज्रिऽवः । भृतिम् । न । प्र । भरामसि ॥

vayám ǀ gha ǀ te ǀ ápūrvyā ǀ índra ǀ bráhmāṇi ǀ vṛtra-han ǀ
puru-támāsaḥ ǀ puru-hūta ǀ vajri-vaḥ ǀ bhṛtím ǀ ná ǀ prá ǀ bharāmasi ǁ

vayam ǀ gha ǀ te ǀ apūrvyā ǀ indra ǀ brahmāṇi ǀ vṛtra-han ǀ
puru-tamāsaḥ ǀ puru-hūta ǀ vajri-vaḥ ǀ bhṛtim ǀ na ǀ pra ǀ bharāmasi ǁ

References

Maṇḍala · Sūkta · Ṛk
08.066.11
Aṣṭaka · Adhyāya · Varga · Ṛk
6.4.50.01
Maṇḍala · Anuvāka · Ṛk
08.07.097
Devatā देवता
Indra
Ṛṣi ऋषि
Kali Prāgātha
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Anuṣṭubh
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.66.11

Interpretations

Sāyaṇa

हे इन्द्र वयंघ खलु ते तव अपूर्व्या नूतनानि ब्रह्माणि परिवृढानि स्तोत्राणि प्रभरामसि संभरामः पुरुतमासो बहुतमा वयं ऋत्विग्यजमानरूपेण वृत्रहन् वृत्रस्यहन्तः पुरुहूत बहुभिराहूत हे वज्रिवः वज्रयुक्तेन्द्र किमिव भृतिंन भृतिमिव तां यथा नियमेन प्रयच्छन्ति तद्वत् नियमेन प्रदानता- त्पर्याद्भृतिदृष्टान्तत्वमविरुद्धम् ॥ ११ ॥