Ṛk 8.66.2
Saṃhitā
न यं दु॒ध्रा वरं॑ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमंध॑सः ।
य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्यं॑ ॥
न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम् अन्धसः |
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ||
ná yám dudhrā́ várante ná sthirā́ múro máde suśiprámándhasaḥ ǀ
yá ādṛ́tyā śaśamānā́ya sunvaté dā́tā jaritrá ukthyám ǁ
na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ |
ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam ||
Padapāṭha
न । यम् । दु॒ध्राः । वर॑न्ते । न । स्थि॒राः । मुरः॑ । मदे॑ । सु॒ऽशि॒प्रम् । अन्ध॑सः ।
यः । आ॒ऽदृत्य॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । दाता॑ । ज॒रि॒त्रे । उ॒क्थ्य॑म् ॥
न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदे । सुऽशिप्रम् । अन्धसः ।
यः । आऽदृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥
ná ǀ yám ǀ dudhrā́ḥ ǀ várante ǀ ná ǀ sthirā́ḥ ǀ múraḥ ǀ máde ǀ su-śiprám ǀ ándhasaḥ ǀ
yáḥ ǀ ā-dṛ́tya ǀ śaśamānā́ya ǀ sunvaté ǀ dā́tā ǀ jaritré ǀ ukthyám ǁ
na ǀ yam ǀ dudhrāḥ ǀ varante ǀ na ǀ sthirāḥ ǀ muraḥ ǀ made ǀ su-śipram ǀ andhasaḥ ǀ
yaḥ ǀ ā-dṛtya ǀ śaśamānāya ǀ sunvate ǀ dātā ǀ jaritre ǀ ukthyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.48.02
- Maṇḍala · Anuvāka · Ṛk
- 08.07.088
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.