Ṛk 8.66.4
Saṃhitā
निखा॑तं चि॒द्यः पु॑रुसंभृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।
व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिंद्रः॒ क्रत्वा॒ यथा॒ वश॑त् ॥
निखातं चिद् यः पुरुसम्भृतं वसूद् इद् वपति दाशुषे |
वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा वशत् ||
níkhātam cidyáḥ purusambhṛtám vásū́dídvápati dāśúṣe ǀ
vajrī́ suśipró háryaśva ítkaradíndraḥ krátvā yáthā váśat ǁ
nikhātaṃ cid yaḥ purusambhṛtaṃ vasūd id vapati dāśuṣe |
vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat ||
Padapāṭha
निऽखा॑तम् । चि॒त् । यः । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । उत् । इत् । वप॑ति । दा॒शुषे॑ ।
व॒ज्री । सु॒ऽशि॒प्रः । हरि॑ऽअश्वः । इत् । क॒र॒त् । इन्द्रः॑ । क्रत्वा॑ । यथा॑ । वश॑त् ॥
निऽखातम् । चित् । यः । पुरुऽसम्भृतम् । वसु । उत् । इत् । वपति । दाशुषे ।
वज्री । सुऽशिप्रः । हरिऽअश्वः । इत् । करत् । इन्द्रः । क्रत्वा । यथा । वशत् ॥
ní-khātam ǀ cit ǀ yáḥ ǀ puru-sambhṛtám ǀ vásu ǀ út ǀ ít ǀ vápati ǀ dāśúṣe ǀ
vajrī́ ǀ su-śipráḥ ǀ hári-aśvaḥ ǀ ít ǀ karat ǀ índraḥ ǀ krátvā ǀ yáthā ǀ váśat ǁ
ni-khātam ǀ cit ǀ yaḥ ǀ puru-sambhṛtam ǀ vasu ǀ ut ǀ it ǀ vapati ǀ dāśuṣe ǀ
vajrī ǀ su-śipraḥ ǀ hari-aśvaḥ ǀ it ǀ karat ǀ indraḥ ǀ kratvā ǀ yathā ǀ vaśat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.48.04
- Maṇḍala · Anuvāka · Ṛk
- 08.07.090
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.