Ṛk 8.66.7
Saṃhitā
व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिणं॑ ।
तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥
वयम् एनम् इदा ह्यो ऽपीपेमेह वज्रिणम् |
तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते ||
vayámenamidā́ hyó’pīpemehá vajríṇam ǀ
tásmā u adyá samanā́ sutám bharā́ nūnám bhūṣata śruté ǁ
vayam enam idā hyo 'pīpemeha vajriṇam |
tasmā u adya samanā sutam bharā nūnam bhūṣata śrute ||
Padapāṭha
व॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपी॑पेम । इ॒ह । व॒ज्रिण॑म् ।
तस्मै॑ । ऊं॒ इति॑ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ । श्रु॒ते ॥
वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् ।
तस्मै । ऊं इति । अद्य । समना । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥
vayám ǀ enam ǀ idā́ ǀ hyáḥ ǀ ápīpema ǀ ihá ǀ vajríṇam ǀ
tásmai ǀ ūṃ íti ǀ adyá ǀ samanā́ ǀ sutám ǀ bhara ǀ ā́ ǀ nūnám ǀ bhūṣata ǀ śruté ǁ
vayam ǀ enam ǀ idā ǀ hyaḥ ǀ apīpema ǀ iha ǀ vajriṇam ǀ
tasmai ǀ ūṃ iti ǀ adya ǀ samanā ǀ sutam ǀ bhara ǀ ā ǀ nūnam ǀ bhūṣata ǀ śrute ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.49.02
- Maṇḍala · Anuvāka · Ṛk
- 08.07.093
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.