Ṛk 8.66.12
Saṃhitā
पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हवं॑त इंद्रो॒तयः॑ ।
ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हवं॑ ॥
पूर्वीश् चिद् धि त्वे तुविकूर्मिन्न् आशसो हवन्त इन्द्रोतयः |
तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ||
pūrvī́ściddhí tvé tuvikūrminnāśáso hávanta indrotáyaḥ ǀ
tiráścidaryáḥ sávanā́ vaso gahi śáviṣṭha śrudhí me hávam ǁ
pūrvīś cid dhi tve tuvikūrminn āśaso havanta indrotayaḥ |
tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam ||
Padapāṭha
पू॒र्वीः । चि॒त् । हि । त्वे इति॑ । तु॒वि॒ऽकू॒र्मि॒न् । आ॒ऽशसः॑ । हव॑न्ते । इ॒न्द्र॒ । ऊ॒तयः॑ ।
ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । शवि॑ष्ठ । श्रु॒धि । मे॒ । हव॑म् ॥
पूर्वीः । चित् । हि । त्वे इति । तुविऽकूर्मिन् । आऽशसः । हवन्ते । इन्द्र । ऊतयः ।
तिरः । चित् । अर्यः । सवना । आ । वसो इति । गहि । शविष्ठ । श्रुधि । मे । हवम् ॥
pūrvī́ḥ ǀ cit ǀ hí ǀ tvé íti ǀ tuvi-kūrmin ǀ ā-śásaḥ ǀ hávante ǀ indra ǀ ūtáyaḥ ǀ
tiráḥ ǀ cit ǀ aryáḥ ǀ sávanā ǀ ā́ ǀ vaso íti ǀ gahi ǀ śáviṣṭha ǀ śrudhí ǀ me ǀ hávam ǁ
pūrvīḥ ǀ cit ǀ hi ǀ tve iti ǀ tuvi-kūrmin ǀ ā-śasaḥ ǀ havante ǀ indra ǀ ūtayaḥ ǀ
tiraḥ ǀ cit ǀ aryaḥ ǀ savanā ǀ ā ǀ vaso iti ǀ gahi ǀ śaviṣṭha ǀ śrudhi ǀ me ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.50.02
- Maṇḍala · Anuvāka · Ṛk
- 08.07.098
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.