Ṛk 8.66.13
Saṃhitā
व॒यं घा॑ ते॒ त्वे इद्विंद्र॒ विप्रा॒ अपि॑ ष्मसि ।
न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥
वयं घा ते त्वे इद् व् इन्द्र विप्रा अपि ष्मसि |
नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्डिता ||
vayám ghā te tvé ídvíndra víprā ápi ṣmasi ǀ
nahí tvádanyáḥ puruhūta káścaná mághavannásti marḍitā́ ǁ
vayaṃ ghā te tve id v indra viprā api ṣmasi |
nahi tvad anyaḥ puruhūta kaś cana maghavann asti marḍitā ||
Padapāṭha
व॒यम् । घ॒ । ते॒ । त्वे इति॑ । इत् । ऊं॒ इति॑ । इन्द्र॑ । विप्राः॑ । अपि॑ । स्म॒सि॒ ।
न॒हि । त्वत् । अ॒न्यः । पु॒रु॒ऽहू॒त॒ । कः । च॒न । मघ॑ऽवन् । अस्ति॑ । म॒र्डि॒ता ॥
वयम् । घ । ते । त्वे इति । इत् । ऊं इति । इन्द्र । विप्राः । अपि । स्मसि ।
नहि । त्वत् । अन्यः । पुरुऽहूत । कः । चन । मघऽवन् । अस्ति । मर्डिता ॥
vayám ǀ gha ǀ te ǀ tvé íti ǀ ít ǀ ūṃ íti ǀ índra ǀ víprāḥ ǀ ápi ǀ smasi ǀ
nahí ǀ tvát ǀ anyáḥ ǀ puru-hūta ǀ káḥ ǀ caná ǀ mágha-van ǀ ásti ǀ marḍitā́ ǁ
vayam ǀ gha ǀ te ǀ tve iti ǀ it ǀ ūṃ iti ǀ indra ǀ viprāḥ ǀ api ǀ smasi ǀ
nahi ǀ tvat ǀ anyaḥ ǀ puru-hūta ǀ kaḥ ǀ cana ǀ magha-van ǀ asti ǀ marḍitā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.50.03
- Maṇḍala · Anuvāka · Ṛk
- 08.07.099
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.