Ṛk 8.66.14
Saṃhitā
त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।
त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥
त्वं नो अस्या अमतेर् उत क्षुधो ऽभिशस्तेर् अव स्पृधि |
त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ||
tvám no asyā́ ámaterutá kṣudhó’bhíśasteráva spṛdhi ǀ
tvám na ūtī́ táva citráyā dhiyā́ śíkṣā śaciṣṭha gātuvít ǁ
tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi |
tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit ||
Padapāṭha
त्वम् । नः॒ । अ॒स्याः । अम॑तेः । उ॒त । क्षु॒धः । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒धि॒ ।
त्वम् । नः॒ । ऊ॒ती । तव॑ । चि॒त्रया॑ । धि॒या । शिक्ष॑ । श॒चि॒ष्ठ॒ । गा॒तु॒ऽवित् ॥
त्वम् । नः । अस्याः । अमतेः । उत । क्षुधः । अभिऽशस्तेः । अव । स्पृधि ।
त्वम् । नः । ऊती । तव । चित्रया । धिया । शिक्ष । शचिष्ठ । गातुऽवित् ॥
tvám ǀ naḥ ǀ asyā́ḥ ǀ ámateḥ ǀ utá ǀ kṣudháḥ ǀ abhí-śasteḥ ǀ áva ǀ spṛdhi ǀ
tvám ǀ naḥ ǀ ūtī́ ǀ táva ǀ citráyā ǀ dhiyā́ ǀ śíkṣa ǀ śaciṣṭha ǀ gātu-vít ǁ
tvam ǀ naḥ ǀ asyāḥ ǀ amateḥ ǀ uta ǀ kṣudhaḥ ǀ abhi-śasteḥ ǀ ava ǀ spṛdhi ǀ
tvam ǀ naḥ ǀ ūtī ǀ tava ǀ citrayā ǀ dhiyā ǀ śikṣa ǀ śaciṣṭha ǀ gātu-vit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.50.04
- Maṇḍala · Anuvāka · Ṛk
- 08.07.100
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.