Ṛk 8.66.9
Saṃhitā
कदू॒ न्व१॒॑स्याकृ॑त॒मिंद्र॑स्यास्ति॒ पौंस्यं॑ ।
केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥
कद् ऊ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् |
केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ||
kádū nvásyā́kṛtamíndrasyāsti páuṃsyam ǀ
kéno nú kam śrómatena ná śuśruve janúṣaḥ pári vṛtrahā́ ǁ
kad ū nv asyākṛtam indrasyāsti pauṃsyam |
keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā ||
Padapāṭha
कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् ।
केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुषः॑ । परि॑ । वृ॒त्र॒ऽहा ॥
कत् । ऊं इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पौंस्यम् ।
केनो इति । नु । कम् । श्रोमतेन । न । शुश्रुवे । जनुषः । परि । वृत्रऽहा ॥
kát ǀ ūṃ íti ǀ nú ǀ asya ǀ ákṛtam ǀ índrasya ǀ asti ǀ páuṃsyam ǀ
kéno íti ǀ nú ǀ kam ǀ śrómatena ǀ ná ǀ śuśruve ǀ janúṣaḥ ǀ pári ǀ vṛtra-hā́ ǁ
kat ǀ ūṃ iti ǀ nu ǀ asya ǀ akṛtam ǀ indrasya ǀ asti ǀ pauṃsyam ǀ
keno iti ǀ nu ǀ kam ǀ śromatena ǀ na ǀ śuśruve ǀ januṣaḥ ǀ pari ǀ vṛtra-hā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.066.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.49.04
- Maṇḍala · Anuvāka · Ṛk
- 08.07.095
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kali Prāgātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.