Ṛgveda · Maṇḍala 9 · Sūkta 111
Ṛk 9.111.3
Saṃhitā
पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथः॑ ।
अग्म॑न्नु॒क्थानि॒ पौंस्येंद्रं॒ जैत्रा॑य हर्षयन् ।
वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥
पूर्वाम् अनु प्रदिशं याति चेकितत् सं रश्मिभिर् यतते दर्शतो रथो दैव्यो दर्शतो रथः |
अग्मन्न् उक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् |
वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता ||
pū́rvāmánu pradíśam yāti cékitatsám raśmíbhiryatate darśató rátho dáivyo darśató ráthaḥ ǀ
ágmannukthā́ni páuṃsyéndram jáitrāya harṣayan ǀ
vájraśca yádbhávatho ánapacyutā samátsvánapacyutā ǁ
pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ |
agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan |
vajraś ca yad bhavatho anapacyutā samatsv anapacyutā ||
Padapāṭha
पूर्वा॑म् । अनु॑ । प्र॒ऽदिश॑म् । या॒ति॒ । चेकि॑तत् । सम् । र॒श्मिऽभिः॑ । य॒त॒ते॒ । द॒र्श॒तः । रथः॑ । दैव्यः॑ । द॒र्श॒तः । रथः॑ ।
अग्म॑न् । उ॒क्थानि॑ । पौंस्या॑ । इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒न् ।
वज्रः॑ । च॒ । यत् । भव॑थः । अन॑पऽच्युता । स॒मत्ऽसु॑ । अन॑पऽच्युता ॥
पूर्वाम् । अनु । प्रऽदिशम् । याति । चेकितत् । सम् । रश्मिऽभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः ।
अग्मन् । उक्थानि । पौंस्या । इन्द्रम् । जैत्राय । हर्षयन् ।
वज्रः । च । यत् । भवथः । अनपऽच्युता । समत्ऽसु । अनपऽच्युता ॥
pū́rvām ǀ ánu ǀ pra-díśam ǀ yāti ǀ cékitat ǀ sám ǀ raśmí-bhiḥ ǀ yatate ǀ darśatáḥ ǀ ráthaḥ ǀ dáivyaḥ ǀ darśatáḥ ǀ ráthaḥ ǀ
ágman ǀ ukthā́ni ǀ páuṃsyā ǀ índram ǀ jáitrāya ǀ harṣayan ǀ
vájraḥ ǀ ca ǀ yát ǀ bhávathaḥ ǀ ánapa-cyutā ǀ samát-su ǀ ánapa-cyutā ǁ
pūrvām ǀ anu ǀ pra-diśam ǀ yāti ǀ cekitat ǀ sam ǀ raśmi-bhiḥ ǀ yatate ǀ darśataḥ ǀ rathaḥ ǀ daivyaḥ ǀ darśataḥ ǀ rathaḥ ǀ
agman ǀ ukthāni ǀ pauṃsyā ǀ indram ǀ jaitrāya ǀ harṣayan ǀ
vajraḥ ǀ ca ǀ yat ǀ bhavathaḥ ǀ anapa-cyutā ǀ samat-su ǀ anapa-cyutā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.111.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.24.03
- Maṇḍala · Anuvāka · Ṛk
- 09.07.105
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Anānata Pārucchepi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.