अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 1

1 of 120 · 95 verses

Select a line for its word-by-word analysis.

1.1१.१

रागादिरोगान् सततानुषक्तान् अशेषकायप्रसृतान् अशेषान् । (१।१)

rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān |

1.2१.२

औत्सुक्यमोहारतिदाञ् जघान यो ऽपूर्ववैद्याय नमो ऽस्तु तस्मै ॥ (१।२)

autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai ||

2.1२.१

आयुः कामयमानेन धर्मार्थसुखसाधनम् । (२।१)

āyuḥ kāmayamānena dharmārthasukhasādhanam |

2.2२.२

आयुर्वेदोपदेशेषु विधेयः परम् आदरः ॥ (२।२)

āyurvedopadeśeṣu vidheyaḥ param ādaraḥ ||

3.1३.१

ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् । (३।१)

brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat |

3.2३.२

सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रिपुत्रादिकान् मुनीन् ॥ (३।२)

so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn ||

4.1४.१

ते ऽग्निवेशादिकांस् ते तु पृथक् तन्त्राणि तेनिरे । (४।१)

te 'gniveśādikāṃs te tu pṛthak tantrāṇi tenire |

4.2४.२

तेभ्यो ऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः ॥ (४।२)

tebhyo 'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ ||

5.1५.१

क्रियते ऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम् । (५।१)

kriyate 'ṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram |

5.2५.२

कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान् ॥ (५।२)

kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāvṛṣān ||

6.1६.१

अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता । (६।१)

aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā |

6.2६.२

वायुः पित्तं कफश् चेति त्रयो दोषाः समासतः ॥ (६।२)

vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ ||

7.1७.१

विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च । (७।१)

vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca |

7.2७.२

ते व्यापिनो ऽपि हृन्नाभ्योर् अधोमध्योर्ध्वसंश्रयाः ॥ (७।२)

te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṃśrayāḥ ||

8.1८.१

वयोऽहोरात्रिभुक्तानां ते ऽन्तमध्यादिगाः क्रमात् । (८।१)

vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt |

8.2८.२

तैर् भवेद् विषमस् तीक्ष्णो मन्दश् चाग्निः समैः समः ॥ (८।२)

tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ ||

9.1९.१

कोष्ठः क्रूरो मृदुर् मध्यो मध्यः स्यात् तैः समैर् अपि । (९।१)

koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api |

9.2९.२

शुक्रार्तवस्थैर् जन्मादौ विषेणेव विषक्रिमेः ॥ (९।२)

śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ ||

10.1१०.१

तैश् च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक् । (१०।१)

taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak |

10.2१०.२

समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः ॥ (१०।२)

samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ ||

11.1११.१

तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश् चलो ऽनिलः । (११।१)

tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ |

11.2११.२

पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥ (११।२)

pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam ||

12.1१२.१

स्निग्धः शीतो गुरुर् मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः । (१२।१)

snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ |

12.2१२.२

संसर्गः संनिपातश् च तद्द्वित्रिक्षयकोपतः ॥ (१२।२)

saṃsargaḥ saṃnipātaś ca taddvitrikṣayakopataḥ ||

13.1१३.१

रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । (१३।१)

rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ |

13.2१३.२

सप्त दूष्या मला मूत्रशकृत्स्वेदादयो ऽपि च ॥ (१३।२)

sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca ||

14.1१४.१

वृद्धिः समानैः सर्वेषां विपरीतैर् विपर्ययः । (१४।१)

vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ |

14.2१४.२

रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः ॥ (१४।२)

rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ ||

15.1१५.१

षड् द्रव्यम् आश्रितास् ते च यथापूर्वं बलावहाः । (१५।१)

ṣaḍ dravyam āśritās te ca yathāpūrvaṃ balāvahāḥ |

15.2१५.२

तत्राद्या मारुतं घ्नन्ति त्रयस् तिक्तादयः कफम् ॥ (१५।२)

tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham ||

16.1१६.१

कषायतिक्तमधुराः पित्तम् अन्ये तु कुर्वते । (१६।१)

kaṣāyatiktamadhurāḥ pittam anye tu kurvate |

16.2१६.२

शमनं कोपनं स्वस्थहितं द्रव्यम् इति त्रिधा ॥ (१६।२)

śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā ||

17.1१७.१

उष्णशीतगुणोत्कर्षात् तत्र वीर्यं द्विधा स्मृतम् । (१७।१)

uṣṇaśītaguṇotkarṣāt tatra vīryaṃ dvidhā smṛtam |

17.2१७.२

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ॥ (१७।२)

tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ ||

18.1१८.१

गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः । (१८।१)

gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ |

18.2१८.२

गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः ॥ (१८।२)

guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ ||

19.1१९.१

कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः । (१९।१)

kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ |

19.2१९.२

सम्यग्योगश् च विज्ञेयो रोगारोग्यैककारणम् ॥ (१९।२)

samyagyogaś ca vijñeyo rogārogyaikakāraṇam ||

20.1२०.१

रोगस् तु दोषवैषम्यं दोषसाम्यम् अरोगता । (२०।१)

rogas tu doṣavaiṣamyaṃ doṣasāmyam arogatā |

20.2२०.२

निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः ॥ (२०।२)

nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ ||

21.1२१.१

क्￶र्पेर्लिछे।गेइस्तिगे क्रन्खेइतेन्तेषां कायमनोभेदाद् अधिष्ठानम् अपि द्विधा । (२१।१)

k￶rperliche|geistige Krankheitenteṣāṃ kāyamanobhedād adhiṣṭhānam api dvidhā |

21.2२१.२

रजस् तमश् च मनसो द्वौ च दोषाव् उदाहृतौ ॥ (२१।२)

rajas tamaś ca manaso dvau ca doṣāv udāhṛtau ||

22.1२२.१

उन्तेर्सुछुन्ग्दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम् । (२२।१)

Untersuchungdarśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam |

22.2२२.२

रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः ॥ (२२।२)

rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ ||

23.1२३.१

देश-थेओरिएभूमिदेहप्रभेदेन देशम् आहुर् इह द्विधा । (२३।१)

deśa-Theoriebhūmidehaprabhedena deśam āhur iha dvidhā |

23.2२३.२

जाङ्गलं वातभूयिष्ठम् अनूपं तु कफोल्बणम् ॥ (२३।२)

jāṅgalaṃ vātabhūyiṣṭham anūpaṃ tu kapholbaṇam ||

24.1२४.१

साधारणं सममलं त्रिधा भूदेशम् आदिशेत् । (२४।१)

sādhāraṇaṃ samamalaṃ tridhā bhūdeśam ādiśet |

24.2२४.२

ज़ेइत् - क्रन्खेइत्क्षणादिर् व्याध्यवस्था च कालो भेषजयोगकृत् ॥ (२४।२)

Zeit - Krankheitkṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt ||

25.1२५.१

अर्ज़्नेइमित्तेल्क्लस्सेन्शोधनं शमनं चेति समासाद् औषधं द्विधा । (२५।१)

Arzneimittelklassenśodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvidhā |

25.2२५.२

बेस्ते मेदिकमेन्तेशरीरजानां दोषाणां क्रमेण परमौषधम् ॥ (२५।२)

beste medikamenteśarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham ||

26.1२६.१

वस्तिर् विरेको वमनं तथा तैलं घृतं मधु । (२६।१)

vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu |

26.2२६.२

धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम् ॥ (२६।२)

dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param ||

27.1२७.१

४ स्¦उलेन् देर् एर्ड़ोल्ग्रेइछेन् बेहन्द्लुन्ग्भिषग् द्रव्याण्य् उपस्थाता रोगी पादचतुष्टयम् । (२७।१)

4 s¦ulen der erfolgreichen Behandlungbhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam |

27.2२७.२

चिकित्सितस्य निर्दिष्टं प्रत्येकं तच् चतुर्गुणम् ॥ (२७।२)

cikitsitasya nirdiṣṭaṃ pratyekaṃ tac caturguṇam ||

28.1२८.१

दक्षस् तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर् भिषक् । (२८।१)

dakṣas tīrthāttaśāstrārtho dṛṣṭakarmā śucir bhiṣak |

28.2२८.२

बहुकल्पं बहुगुणं सम्पन्नं योग्यम् औषधम् ॥ (२८।२)

bahukalpaṃ bahuguṇaṃ sampannaṃ yogyam auṣadham ||

29.1२९.१

अनुरक्तः शुचिर् दक्षो बुद्धिमान् परिचारकः । (२९।१)

anuraktaḥ śucir dakṣo buddhimān paricārakaḥ |

29.2२९.२

आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववान् अपि ॥ (२९।२)

āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api ||

30.1३०.१

गुत् ज़ु बेहन्देल्न्दे क्रन्खेइत्सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः । (३०।१)

gut zu behandelnde Krankheitsarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ |

30.2३०.२

अमर्मगो ऽल्पहेत्वग्ररूपरूपो ऽनुपद्रवः ॥ (३०।२)

amarmago 'lpahetvagrarūparūpo 'nupadravaḥ ||

31.1३१.१

अतुल्यदूष्यदेशर्तुप्रकृतिः पादसंपदि । (३१।१)

atulyadūṣyadeśartuprakṛtiḥ pādasaṃpadi |

31.2३१.२

ग्रहेष्व् अनुगुणेष्व् एकदोषमार्गो नवः सुखः ॥ (३१।२)

graheṣv anuguṇeṣv ekadoṣamārgo navaḥ sukhaḥ ||

32.1३२.१

कृच्छ्रशस्त्रादिसाधनः कृच्छ्रः संकरे च ततो गदः । (३२।१)

kṛcchraśastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ |

32.2३२.२

याप्यशेषत्वाद् आयुषो याप्यः पथ्याभ्यासाद् विपर्यये ॥ (३२।२)

yāpyaśeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye ||

33.1३३.१

निछ्त् बेहन्देल्ननुपक्रम एव स्यात् स्थितो ऽत्यन्तविपर्यये । (३३।१)

nicht behandelnanupakrama eva syāt sthito 'tyantaviparyaye |

33.2३३.२

स्छ्लेछ्तेर् पतिएन्तौत्सुक्यमोहारतिकृद् दृष्टरिष्टो ऽक्षनाशनः ॥ (३३।२)

schlechter Patientautsukyamohāratikṛd dṛṣṭariṣṭo 'kṣanāśanaḥ ||

34.1३४.१

त्यजेद् आर्तं भिषग्भूपैर् द्विष्टं तेषां द्विषं द्विषम् । (३४।१)

tyajed ārtaṃ bhiṣagbhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam |

34.2३४.२

हीनोपकरणं व्यग्रम् अविधेयं गतायुषम् ॥ (३४।२)

hīnopakaraṇaṃ vyagram avidheyaṃ gatāyuṣam ||

35.1३५.१

चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम् । (३५।१)

caṇḍaṃ śokāturaṃ bhīruṃ kṛtaghnaṃ vaidyamāninam |

35.2३५.२

तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्यायसंग्रहः ॥ (३५।२)

tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṃgrahaḥ ||

36.1३६.१

आयुष्कामदिनर्त्वीहारोगानुत्पादनद्रवाः । (३६।१)

āyuṣkāmadinartvīhārogānutpādanadravāḥ |

37.1३७.१

दोषादिज्ञानतद्भेदतच्चिकित्साद् व्युपक्रमाः । (३७।१)

doṣādijñānatadbhedataccikitsād vyupakramāḥ |

37.2३७.२

शुद्ध्यादिस्नेहनस्वेदरेकास्थापननावनम् ॥ (३७।२)

śuddhyādisnehanasvedarekāsthāpananāvanam ||

38.1३८.१

धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम् । (३८।१)

dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam |

38.2३८.२

सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ ॥ (३८।२)

sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau ||

39.1३९.१

सूत्रस्थानम् इमे ऽध्यायास् त्रिंशच्छारीरम् उच्यते । (३९।१)

sūtrasthānam ime 'dhyāyās triṃśacchārīram ucyate |

39.2३९.२

गर्भावक्रान्तितद्व्यापदङ्गमर्मविभागिकम् ॥ (३९।२)

garbhāvakrāntitadvyāpadaṅgamarmavibhāgikam ||

40.1४०.१

विकृतिर् दूतजं षष्ठं निदानं सार्वरोगिकम् । (४०।१)

vikṛtir dūtajaṃ ṣaṣṭhaṃ nidānaṃ sārvarogikam |

40.2४०.२

ज्वरासृक्श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम् ॥ (४०।२)

jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām ||

41.1४१.१

मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च । (४१।१)

mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca |

41.2४१.२

पाण्डुकुष्ठानिलार्तानां वातास्रस्य च षोडश ॥ (४१।२)

pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa ||

42.1४२.१

चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि । (४२।१)

cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi |

42.2४२.२

वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥ (४२।२)

vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite ||

43.1४३.१

विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु । (४३।१)

vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu |

43.2४३.२

कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् ॥ (४३।२)

kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam ||

44.1४४.१

द्वाविंशतिर् इमे ऽध्यायाः कल्पसिद्धिर् अतः परम् । (४४।१)

dvāviṃśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param |

44.2४४.२

कल्पो वमेर् विरेकस्य तत्सिद्धिर् वस्तिकल्पना ॥ (४४।२)

kalpo vamer virekasya tatsiddhir vastikalpanā ||

45.1४५.१

सिद्धिर् वस्त्यापदां षष्ठो द्रव्यकल्पो ऽत उत्तरम् । (४५।१)

siddhir vastyāpadāṃ ṣaṣṭho dravyakalpo 'ta uttaram |

45.2४५.२

बालोपचारे तद्व्याधौ तद्ग्रहे द्वौ च भूतगे ॥ (४५।२)

bālopacāre tadvyādhau tadgrahe dvau ca bhūtage ||

46.1४६.१

उन्मादे ऽथ स्मृतिभ्रंशे द्वौ द्वौ वर्त्मसु संधिषु । (४६।१)

unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu |

46.2४६.२

दृक्तमोलिङ्गनाशेषु त्रयो द्वौ द्वौ च सर्वगे ॥ (४६।२)

dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage ||

47.1४७.१

कर्णनासामुखशिरोव्रणे भङ्गे भगन्दरे । (४७।१)

karṇanāsāmukhaśirovraṇe bhaṅge bhagandare |

47.2४७.२

ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग् द्वयम् ॥ (४७।२)

granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam ||

48.1४८.१

विषे भुजङ्गे कीटेषु मूषकेषु रसायने । (४८।१)

viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane |

48.2४८.२

चत्वारिंशो ऽनपत्यानाम् अध्यायो बीजपोषणः ॥ (४८।२)

catvāriṃśo 'napatyānām adhyāyo bījapoṣaṇaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit