अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 16
Select a line for its word-by-word analysis.
सर्पिर् मज्जा वसा तैलं स्नेहेषु प्रवरं मतम् । (२।१)
sarpir majjā vasā tailaṃ sneheṣu pravaraṃ matam |
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ (२।२)
tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt ||
माधुर्याद् अविदाहित्वाज्जन्माद्येव च शीलनात् । (३।१)
mādhuryād avidāhitvājjanmādyeva ca śīlanāt |
पित्तघ्नास् ते यथापूर्वम् इतरघ्ना यथोत्तरम् ॥ (३।२)
pittaghnās te yathāpūrvam itaraghnā yathottaram ||
घृतात् तैलं गुरु वसा तैलान् मज्जा ततो ऽपि च । (४।१)
ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca |
द्वाभ्यां त्रिभिश् चतुर्भिस् तैर् यमकस् त्रिवृतो महान् ॥ (४।२)
dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān ||
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः । (५।१)
svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ |
स्नेह्याः न त्व् अतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः ॥ (६।२)
snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ ||
मूर्च्छाछर्द्यरुचिश्लेष्मतृष्णामद्यैश् च पीडिताः ॥ (७।२)
mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ ||
तत्र धीस्मृतिमेधादिकाङ्क्षिणां शस्यते घृतम् ॥ (८।२)
tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam ||
तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु ॥ (९।२)
tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu ||
शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च । (११।१)
śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca |
तैलं प्रावृषि वर्षान्ते सर्पिर् अन्यौ तु माधवे । (१२।१)
tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave |
ऋतौ साधारणे स्नेहः शस्तो ऽह्नि विमले रवौ ॥ (१२।२)
ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau ||
तैलं त्वरायां शीते ऽपि घर्मे ऽपि च घृतं निशि । (१३।१)
tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi |
निश्य् एव पित्ते पवने संसर्गे पित्तवत्य् अपि ॥ (१३।२)
niśy eva pitte pavane saṃsarge pittavaty api ||
निश्यन्यथा वातकफाद् रोगाः स्युः पित्ततो दिवा । (१४।१)
niśyanyathā vātakaphād rogāḥ syuḥ pittato divā |
युक्त्यावचारयेत् स्नेहं भक्ष्याद्यन्नेन बस्तिभिः ॥ (१४।२)
yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ ||
नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः । (१५।१)
nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ |
रसभेदैककत्वाभ्यां चतुःषष्टिर्विचारणाः ॥ (१५।२)
rasabhedaikakatvābhyāṃ catuḥṣaṣṭirvicāraṇāḥ ||
स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः । (१६।१)
snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ |
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात् । (१७।१)
snehasya kalpaḥ sa śreṣṭhaḥ snehakarmāśusādhanāt |
दौएर् देर् वेर्दौउन्ग् वोन् ड़ेत्तेन्; दोसिएरुन्ग्द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात् ॥ (१७।२)
Dauer der Verdauung von Fetten; Dosierungdvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt ||
ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम् । (१८।१)
hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm |
कल्पयेद्वीक्ष्य दोषादीन्प्रागेव तु ह्रसीयसीम् ॥ (१८।२)
kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm ||
ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छः शुद्धये बहुः । (१९।१)
hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ |
शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते ॥ (१९।२)
śamanaḥ kṣudvato'nanno madhyamātraśca śasyate ||
बृंहणो रसमद्याद्यैः सभक्तोऽल्पः हितः स च । (२०।१)
bṛṃhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca |
स्त्रीस्नेहनित्यमन्दाग्निसुखितक्लेशभीरुषु । (२१।१)
strīsnehanityamandāgnisukhitakleśabhīruṣu |
मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च ॥ (२१।२)
mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca ||
प्राङ्मध्योत्तरभक्तोऽसावधोमध्योर्ध्वदेहजान् । (२२।१)
prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān |
व्याधीञ्जयेद् बलं कुर्यादङ्गानां च यथाक्रमम् ॥ (२२।२)
vyādhīñjayed balaṃ kuryādaṅgānāṃ ca yathākramam ||
Data courtesy of The Digital Corpus of Sanskrit.