अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 3, 12

48 of 120 · 94 verses

Select a line for its word-by-word analysis.

1.1१.१

अथात उदरनिदानं व्याख्यास्यामः । (१।१)

athāta udaranidānaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

उदर - एन्त्स्तेहुन्ग्रोगाः सर्वे ऽपि मन्दे ऽग्नौ सुतराम् उदराणि तु । (१।३)

udara - Entstehungrogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu |

1.4१.४

अजीर्णान् मलिनैश्चान्नैर् जायन्ते मलसंचयात् ॥ (१।४)

ajīrṇān malinaiścānnair jāyante malasaṃcayāt ||

2.1२.१

ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः । (२।१)

ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ |

2.2२.२

प्राणाग्न्यपानान् संदूष्य कुर्युस् त्वङ्मांससंधिगाः ॥ (२।२)

prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ ||

3.1३.१

आध्माप्य कुक्षिम् उदरम् अष्टधा तच्च भिद्यते । (३।१)

ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate |

3.2३.२

पृथग् दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ॥ (३।२)

pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ ||

4.1४.१

अल्ल्गेमेइने स्य्म्प्तोमेतेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः । (४।१)

allgemeine symptometenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ |

4.2४.२

नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः ॥ (४।२)

naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ ||

5.1५.१

स्युः प्रेतरूपाः पुरुषा भाविनस् तस्य लक्षणम् । (५।१)

syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam |

5.2५.२

प्रोद्रोमेक्षुन्नाशो ऽन्नं चिरात् सर्वं सविदाहं च पच्यते ॥ (५।२)

Prodromekṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate ||

6.1६.१

जीर्णाजीर्णं न जानाति सौहित्यं सहते न च । (६।१)

jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca |

6.2६.२

क्षीयते बलतः शश्वच्छ्वसित्यल्पे ऽपि चेष्टिते ॥ (६।२)

kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite ||

7.1७.१

वृद्धिर् विषो ऽप्रवृत्तिश्च किंचिच्छोफश्च पादयोः । (७।१)

vṛddhir viṣo 'pravṛttiśca kiṃcicchophaśca pādayoḥ |

7.2७.२

रुग्वस्तिसंधौ ततता लघ्वल्पाभोजनैरपि ॥ (७।२)

rugvastisaṃdhau tatatā laghvalpābhojanairapi ||

8.1८.१

राजीजन्म वलीनाशो जठरे जठरेषु तु । (८।१)

rājījanma valīnāśo jaṭhare jaṭhareṣu tu |

8.2८.२

सर्वेषु तन्द्रा सदनं मलसङ्गो ऽल्पवह्निता ॥ (८।२)

sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā ||

9.1९.१

दाहः श्वयथुराध्मानम् अन्ते सलिलसंभवः । (९।१)

dāhaḥ śvayathurādhmānam ante salilasaṃbhavaḥ |

9.2९.२

सर्वं त्वतोयम् अरुणम् अशोफं नातिभारिकम् ॥ (९।२)

sarvaṃ tvatoyam aruṇam aśophaṃ nātibhārikam ||

10.1१०.१

गवाक्षितं सिराजालैः सदा गुडगुडायते । (१०।१)

gavākṣitaṃ sirājālaiḥ sadā guḍaguḍāyate |

10.2१०.२

नाभिम् अन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥ (१०।२)

nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati ||

11.1११.१

मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनाः । (११।१)

māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ |

11.2११.२

सशब्दो निश्चरेद् वायुर् विड् बद्धा मूत्रम् अल्पकम् ॥ (११।२)

saśabdo niścared vāyur viḍ baddhā mūtram alpakam ||

12.1१२.१

नातिमन्दो ऽनलो लौल्यं न च स्याद् विरसं मुखम् । (१२।१)

nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham |

12.2१२.२

वातोदरतत्र वातोदरे शोफः पाणिपान्मुष्ककुक्षिषु ॥ (१२।२)

vātodaratatra vātodare śophaḥ pāṇipānmuṣkakukṣiṣu ||

13.1१३.१

कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम् । (१३।१)

kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam |

13.2१३.२

शुष्ककासो ऽङ्गमर्दो ऽधोगुरुता मलसंग्रहः ॥ (१३।२)

śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ ||

14.1१४.१

श्यावारुणत्वगादित्वम् अकस्माद् वृद्धिह्रासवत् । (१४।१)

śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat |

14.2१४.२

सतोदभेदम् उदरं तनुकृष्णसिराततम् ॥ (१४।२)

satodabhedam udaraṃ tanukṛṣṇasirātatam ||

15.1१५.१

आध्मातदृतिवच्छब्दम् आहतं प्रकरोति च । (१५।१)

ādhmātadṛtivacchabdam āhataṃ prakaroti ca |

15.2१५.२

वायुश्चात्र सरुक्शब्दो विचरेत् सर्वतोगतिः ॥ (१५।२)

vāyuścātra sarukśabdo vicaret sarvatogatiḥ ||

16.1१६.१

पित्तोदरपित्तोदरे ज्वरो मूर्छा दाहस् तृट् कटुकास्यता । (१६।१)

pittodarapittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā |

16.2१६.२

भ्रमो ऽतीसारः पीतत्वं त्वगादावुदरं हरित् ॥ (१६।२)

bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit ||

17.1१७.१

पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते । (१७।१)

pītatāmrasirānaddhaṃ sasvedaṃ soṣma dahyate |

17.2१७.२

धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते ॥ (१७।२)

dhūmāyati mṛdusparśaṃ kṣiprapākaṃ pradūyate ||

18.1१८.१

कफोदरश्लेष्मोदरे ऽङ्गसदनं स्वापः श्वयथुगौरवम् । (१८।१)

kaphodaraśleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam |

18.2१८.२

निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता ॥ (१८।२)

nidrotkleśāruciśvāsakāsaśuklatvagāditā ||

19.1१९.१

उदरं स्तिमितं श्लक्ष्णं शुक्लराजीततं महत् । (१९।१)

udaraṃ stimitaṃ ślakṣṇaṃ śuklarājītataṃ mahat |

19.2१९.२

चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् ॥ (१९।२)

cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram ||

20.1२०.१

उदर दुर्छ् गितेत्रिदोषकोपनैस् तैस् तैः स्त्रीदत्तैश्च रजोमलैः । (२०।१)

udara durch Gitetridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ |

20.2२०.२

गरदूषीविषाद्यैश्च सरक्ताः संचिता मलाः ॥ (२०।२)

garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ ||

21.1२१.१

कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम् । (२१।१)

koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam |

21.2२१.२

कुर्युस् त्रिलिङ्गम् उदरं शीघ्रपाकं सुदारुणम् ॥ (२१।२)

kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam ||

22.1२२.१

बाधते तच्च सुतरां शीतवाताभ्रदर्शने । (२२।१)

bādhate tacca sutarāṃ śītavātābhradarśane |

22.2२२.२

उदर दुर्छ् प्लीहनत्याशितस्य संक्षोभाद् यानयानादिचेष्टितैः ॥ (२२।२)

udara durch plīhanatyāśitasya saṃkṣobhād yānayānādiceṣṭitaiḥ ||

23.1२३.१

अतिव्यवायकर्माध्ववमनव्याधिकर्शनैः । (२३।१)

ativyavāyakarmādhvavamanavyādhikarśanaiḥ |

23.2२३.२

वामपार्श्वाश्रितः प्लीहा च्युतः स्थानाद् विवर्धते ॥ (२३।२)

vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate ||

24.1२४.१

शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् । (२४।१)

śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet |

24.2२४.२

सो ऽष्ठीलेवातिकठिनः प्राक् ततः कूर्मपृष्ठवत् ॥ (२४।२)

so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat ||

25.1२५.१

क्रमेण वर्धमानश्च कुक्षावुदरम् आवहेत् । (२५।१)

krameṇa vardhamānaśca kukṣāvudaram āvahet |

25.2२५.२

श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः ॥ (२५।२)

śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ ||

26.1२६.१

पाण्डुत्वमूर्छाछर्दीभिर् दाहमोहैश्च संयुतम् । (२६।१)

pāṇḍutvamūrchāchardībhir dāhamohaiśca saṃyutam |

26.2२६.२

अरुणाभं विवर्णं वा नीलहारिद्रराजिमत् ॥ (२६।२)

aruṇābhaṃ vivarṇaṃ vā nīlahāridrarājimat ||

27.1२७.१

उदावर्तरुजानाहैर् मोहतृड्दहनज्वरैः । (२७।१)

udāvartarujānāhair mohatṛḍdahanajvaraiḥ |

27.2२७.२

गौरवारुचिकाठिन्यैर् विद्यात् तत्र मलान् क्रमात् ॥ (२७।२)

gauravārucikāṭhinyair vidyāt tatra malān kramāt ||

28.1२८.१

प्लीहवद् दक्षिणात् पार्श्वात् कुर्याद् यकृद् अपि च्युतम् । (२८।१)

plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam |

28.2२८.२

पक्ष्मवालैः सहान्नेन भुक्तैर् बद्धायने गुदे ॥ (२८।२)

pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude ||

29.1२९.१

दुर्नामभिरुदावर्तैरन्यैर् वान्त्रोपलेपिभिः । (२९।१)

durnāmabhirudāvartairanyair vāntropalepibhiḥ |

29.2२९.२

वर्चःपित्तकफान् रुद्ध्वा करोति कुपितो ऽनिलः ॥ (२९।२)

varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ ||

30.1३०.१

अपानो जठरं तेन स्युर् दाहज्वरतृट्क्षवाः । (३०।१)

apāno jaṭharaṃ tena syur dāhajvaratṛṭkṣavāḥ |

30.2३०.२

कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक् ॥ (३०।२)

kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk ||

31.1३१.१

मलसङ्गो ऽरुचिश्छर्दिरुदरं मूढमारुतम् । (३१।१)

malasaṅgo 'ruciśchardirudaraṃ mūḍhamārutam |

31.2३१.२

स्थिरं नीलारुणसिराराजीनद्धम् अराजि वा ॥ (३१।२)

sthiraṃ nīlāruṇasirārājīnaddham arāji vā ||

32.1३२.१

नाभेरुपरि च प्रायो गोपुच्छाकृति जायते । (३२।१)

nābherupari ca prāyo gopucchākṛti jāyate |

32.2३२.२

छिद्रोदर।परिस्राविनस्थ्यादिशल्यैः सान्नैश्चेद् भुक्तैरत्यशनेन वा ॥ (३२।२)

chidrodara|parisrāvinasthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā ||

33.1३३.१

भिद्यते पच्यते वान्त्रं तच्छिद्रैश्च स्रवन् बहिः । (३३।१)

bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ |

33.2३३.२

आम एव गुदाद् एति ततो ऽल्पाल्पं सविड्रसः ॥ (३३।२)

āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ ||

34.1३४.१

तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः । (३४।१)

tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ |

34.2३४.२

शेषश्चापूर्य जठरं जठरं घोरम् आवहेत् ॥ (३४।२)

śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet ||

35.1३५.१

वर्धयेत् तद् अधो नाभेराशु चैति जलात्मताम् । (३५।१)

vardhayet tad adho nābherāśu caiti jalātmatām |

35.2३५.२

उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः ॥ (३५।२)

udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ ||

36.1३६.१

छिद्रोदरम् इदं प्राहुः परिस्रावीति चापरे । (३६।१)

chidrodaram idaṃ prāhuḥ parisrāvīti cāpare |

36.2३६.२

दकोदरप्रवृत्तस्नेहपानादेः सहसामाम्बुपायिनः ॥ (३६।२)

dakodarapravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ ||

37.1३७.१

अत्यम्बुपानान् मन्दाग्नेः क्षीणस्यातिकृशस्य वा । (३७।१)

atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā |

37.2३७.२

रुद्ध्वाम्बुमार्गान् अनिलः कफश्च जलमूर्छितः ॥ (३७।२)

ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ ||

38.1३८.१

वर्धयेतां तद् एवाम्बु तत्स्थानाद् उदराश्रितौ । (३८।१)

vardhayetāṃ tad evāmbu tatsthānād udarāśritau |

38.2३८.२

ततः स्याद् उदरं तृष्णागुदस्रुतिरुजान्वितम् ॥ (३८।२)

tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam ||

39.1३९.१

कासश्वासारुचियुतं नानावर्णसिराततम् । (३९।१)

kāsaśvāsāruciyutaṃ nānāvarṇasirātatam |

39.2३९.२

तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु ॥ (३९।२)

toyapūrṇadṛtisparśaśabdaprakṣobhavepathu ||

40.1४०.१

दकोदरं महत् स्निग्धं स्थिरम् आवृत्तनाभि तत् । (४०।१)

dakodaraṃ mahat snigdhaṃ sthiram āvṛttanābhi tat |

40.2४०.२

उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः ॥ (४०।२)

upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ ||

41.1४१.१

पाकाद् द्रवा द्रवीकुर्युः संधिस्रोतोमुखान्यपि । (४१।१)

pākād dravā dravīkuryuḥ saṃdhisrotomukhānyapi |

41.2४१.२

स्वेदश्च बाह्यस्रोतःसु विहतस् तिर्यगास्थितः ॥ (४१।२)

svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ ||

42.1४२.१

तद् एवोदकम् आप्याय्य पिच्छां कुर्यात् तदा भवेत् । (४२।१)

tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet |

42.2४२.२

गुरूदरं स्थिरं वृत्तम् आहतं च न शब्दवत् ॥ (४२।२)

gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat ||

43.1४३.१

मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति । (४३।१)

mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati |

43.2४३.२

तद् अनूदकजन्मास्मिन् कुक्षिवृद्धिस् ततो ऽधिकम् ॥ (४३।२)

tad anūdakajanmāsmin kukṣivṛddhis tato 'dhikam ||

44.1४४.१

सिरान्तर्धानम् उदकजठरोक्तं च लक्षणम् । (४४।१)

sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam |

44.2४४.२

प्रोग्नोसेवातपित्तकफप्लीहसंनिपातोदकोदरम् ॥ (४४।२)

Prognosevātapittakaphaplīhasaṃnipātodakodaram ||

45.1४५.१

कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो ऽपरे हतः । (४५।१)

kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ |

45.2४५.२

सर्वं च जातसलिलं रिष्टोक्तोपद्रवान्वितम् ॥ (४५।२)

sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam ||

46.1४६.१

जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् । (४६।१)

janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam |

46.2४६.२

बलिनस् तद् अजाताम्बु यत्नसाध्यं नवोत्थितम् ॥ (४६।२)

balinas tad ajātāmbu yatnasādhyaṃ navotthitam ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 3, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit