अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 2, 2

32 of 120 · 126 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो गर्भव्यापदं शारीरं व्याख्यास्यामः । (१।१)

athāto garbhavyāpadaṃ śārīraṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

गर्भिण्याः परिहार्याणां सेवया रोगतो ऽथवा । (१।३)

garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'thavā |

1.4१.४

पुष्पे दृष्टे ऽथवा शूले बाह्यान्तः स्निग्धशीतलम् ॥ (१।४)

puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam ||

2.1२.१

सेव्याम्भोजहिमक्षीरिवल्ककल्काज्यलेपितान् । (२।१)

sevyāmbhojahimakṣīrivalkakalkājyalepitān |

2.2२.२

धारयेद् योनिवस्तिभ्याम् आर्द्रार्द्रान् पिचुनक्तकान् ॥ (२।२)

dhārayed yonivastibhyām ārdrārdrān picunaktakān ||

3.1३.१

शतधौतघृताक्तां स्त्रीं तदम्भस्यवगाहयेत् । (३।१)

śatadhautaghṛtāktāṃ strīṃ tadambhasyavagāhayet |

3.2३.२

ससिताक्षौद्रकुमुदकमलोत्पलकेसरम् ॥ (३।२)

sasitākṣaudrakumudakamalotpalakesaram ||

4.1४.१

लिह्यात् क्षीरघृतं खादेच्छृङ्गाटककसेरुकम् । (४।१)

lihyāt kṣīraghṛtaṃ khādecchṛṅgāṭakakaserukam |

4.2४.२

पिबेत् कान्ताब्जशालूकबालोदुम्बरवत् पयः ॥ (४।२)

pibet kāntābjaśālūkabālodumbaravat payaḥ ||

5.1५.१

शृतेन शालिकाकोलीद्विबलामधुकेक्षुभिः । (५।१)

śṛtena śālikākolīdvibalāmadhukekṣubhiḥ |

5.2५.२

पयसा रक्तशाल्यन्नम् अद्यात् समधुशर्करम् ॥ (५।२)

payasā raktaśālyannam adyāt samadhuśarkaram ||

6.1६.१

रसैर् वा जाङ्गलैः शुद्धिवर्जं चास्रोक्तम् आचरेत् । (६।१)

rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret |

6.2६.२

असंपूर्णत्रिमासायाः प्रत्याख्याय प्रसाधयेत् ॥ (६।२)

asaṃpūrṇatrimāsāyāḥ pratyākhyāya prasādhayet ||

7.1७.१

आमान्वये च तत्रेष्टं शीतं रूक्षोपसंहितम् । (७।१)

āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam |

7.2७.२

उपवासो घनोशीरगुडूच्यरलुधान्यकाः ॥ (७।२)

upavāso ghanośīraguḍūcyaraludhānyakāḥ ||

8.1८.१

दुरालभापर्पटकचन्दनातिविषाबलाः । (८।१)

durālabhāparpaṭakacandanātiviṣābalāḥ |

8.2८.२

क्वथिताः सलिले पानं तृणधान्यानि भोजनम् ॥ (८।२)

kvathitāḥ salile pānaṃ tṛṇadhānyāni bhojanam ||

9.1९.१

मुद्गादियूषैरामे तु जिते स्निग्धादि पूर्ववत् । (९।१)

mudgādiyūṣairāme tu jite snigdhādi pūrvavat |

9.2९.२

गर्भे निपतिते तीक्ष्णं मद्यं सामर्थ्यतः पिबेत् ॥ (९।२)

garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet ||

10.1१०.१

गर्भकोष्ठविशुद्ध्यर्थम् अर्तिविस्मरणाय च । (१०।१)

garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca |

10.2१०.२

लघुना पञ्चमूलेन रूक्षां पेयां ततः पिबेत् ॥ (१०।२)

laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet ||

11.1११.१

पेयाम् अमद्यपा कल्के साधितां पाञ्चकौलिके । (११।१)

peyām amadyapā kalke sādhitāṃ pāñcakaulike |

11.2११.२

बिल्वादिपञ्चकक्वाथे तिलोद्दालकतण्डुलैः ॥ (११।२)

bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ ||

12.1१२.१

मासतुल्यदिनान्येवं पेयादिः पतिते क्रमः । (१२।१)

māsatulyadinānyevaṃ peyādiḥ patite kramaḥ |

12.2१२.२

लघुरस्नेहलवणो दीपनीययुतो हितः ॥ (१२।२)

laghurasnehalavaṇo dīpanīyayuto hitaḥ ||

13.1१३.१

दोषधातुपरिक्लेदशोषार्थं विधिरित्ययम् । (१३।१)

doṣadhātuparikledaśoṣārthaṃ vidhirityayam |

13.2१३.२

स्नेहान्नवस्तयश्चोर्ध्वं बल्यदीपनजीवनाः ॥ (१३।२)

snehānnavastayaścordhvaṃ balyadīpanajīvanāḥ ||

14.1१४.१

संजातसारे महति गर्भे योनिपरिस्रवात् । (१४।१)

saṃjātasāre mahati garbhe yoniparisravāt |

14.2१४.२

वृद्धिम् अप्राप्नुवन् गर्भः कोष्ठे तिष्ठति सस्फुरः ॥ (१४।२)

vṛddhim aprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ ||

15.1१५.१

उपविष्टकम् आहुस् तं वर्धते तेन नोदरम् । (१५।१)

upaviṣṭakam āhus taṃ vardhate tena nodaram |

15.2१५.२

शोकोपवासरूक्षाद्यैरथवा योन्यतिस्रवात् ॥ (१५।२)

śokopavāsarūkṣādyairathavā yonyatisravāt ||

16.1१६.१

वाते क्रुद्धे कृशः शुष्येद् गर्भो नागोदरं तु तम् । (१६।१)

vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam |

16.2१६.२

उदरं वृद्धम् अप्यत्र हीयते स्फुरणं चिरात् ॥ (१६।२)

udaraṃ vṛddham apyatra hīyate sphuraṇaṃ cirāt ||

17.1१७.१

तयोर् बृंहणवातघ्नमधुरद्रव्यसंस्कृतैः । (१७।१)

tayor bṛṃhaṇavātaghnamadhuradravyasaṃskṛtaiḥ |

17.2१७.२

घृतक्षीररसैस् तृप्तिरामगर्भांश्च खादयेत् ॥ (१७।२)

ghṛtakṣīrarasais tṛptirāmagarbhāṃśca khādayet ||

18.1१८.१

तैरेव च सुभिक्षायाः क्षोभणं यानवाहनैः । (१८।१)

taireva ca subhikṣāyāḥ kṣobhaṇaṃ yānavāhanaiḥ |

18.2१८.२

लीनाख्ये निस्फुरे श्येनगोमत्स्योत्क्रोशबर्हिजाः ॥ (१८।२)

līnākhye nisphure śyenagomatsyotkrośabarhijāḥ ||

19.1१९.१

रसा बहुघृता देया माषमूलकजा अपि । (१९।१)

rasā bahughṛtā deyā māṣamūlakajā api |

19.2१९.२

बालबिल्वं तिलान् माषान् सक्तूंश्च पयसा पिबेत् ॥ (१९।२)

bālabilvaṃ tilān māṣān saktūṃśca payasā pibet ||

20.1२०.१

समेद्यमांसं मधु वा कट्यभ्यङ्गं च शीलयेत् । (२०।१)

samedyamāṃsaṃ madhu vā kaṭyabhyaṅgaṃ ca śīlayet |

20.2२०.२

हर्षयेत् सततं चैनाम् एवं गर्भः प्रवर्धते ॥ (२०।२)

harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate ||

21.1२१.१

पुष्टो ऽन्यथा वर्षगणैः कृच्छ्राज् जायेत नैव वा । (२१।१)

puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā |

21.2२१.२

उदावर्तं तु गर्भिण्याः स्नेहैराशुतरां जयेत् ॥ (२१।२)

udāvartaṃ tu garbhiṇyāḥ snehairāśutarāṃ jayet ||

22.1२२.१

योग्यैश्च वस्तिभिर् हन्यात् सगर्भां स हि गर्भिणीम् । (२२।१)

yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm |

22.2२२.२

गर्भे ऽतिदोषोपचयाद् अपथ्यैर् दैवतो ऽपि वा ॥ (२२।२)

garbhe 'tidoṣopacayād apathyair daivato 'pi vā ||

23.1२३.१

मृते ऽन्तरुदरं शीतं स्तब्धं ध्मातं भृशव्यथम् । (२३।१)

mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham |

23.2२३.२

गर्भास्पन्दो भ्रमतृष्णा कृच्छ्राद् उच्छ्वसनं क्लमः ॥ (२३।२)

garbhāspando bhramatṛṣṇā kṛcchrād ucchvasanaṃ klamaḥ ||

24.1२४.१

अरतिः स्रस्तनेत्रत्वम् आवीनाम् असमुद्भवः । (२४।१)

aratiḥ srastanetratvam āvīnām asamudbhavaḥ |

24.2२४.२

तस्याः कोष्णाम्बुसिक्तायाः पिष्ट्वा योनिं प्रलेपयेत् ॥ (२४।२)

tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṃ pralepayet ||

25.1२५.१

गुडं किण्वं सलवणं तथान्तः पूरयेन् मुहुः । (२५।१)

guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ |

25.2२५.२

घृतेन कल्कीकृतया शाल्मल्यतसिपिच्छया ॥ (२५।२)

ghṛtena kalkīkṛtayā śālmalyatasipicchayā ||

26.1२६.१

मन्त्रैर् योगैर् जरायूक्तैर् मूढगर्भो न चेत् पतेत् । (२६।१)

mantrair yogair jarāyūktair mūḍhagarbho na cet patet |

26.2२६.२

अथापृच्छ्येश्वरं वैद्यो यत्नेनाशु तम् आहरेत् ॥ (२६।२)

athāpṛcchyeśvaraṃ vaidyo yatnenāśu tam āharet ||

27.1२७.१

हस्तम् अभ्यज्य योनिं च साज्यशाल्मलिपिच्छया । (२७।१)

hastam abhyajya yoniṃ ca sājyaśālmalipicchayā |

27.2२७.२

हस्तेन शक्यं तेनैव गात्रं च विषमं स्थितम् ॥ (२७।२)

hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam ||

28.1२८.१

आञ्छनोत्पीडसंपीडविक्षेपोत्क्षेपणादिभिः । (२८।१)

āñchanotpīḍasaṃpīḍavikṣepotkṣepaṇādibhiḥ |

28.2२८.२

आनुलोम्य समाकर्षेद् योनिं प्रत्यार्जवागतम् ॥ (२८।२)

ānulomya samākarṣed yoniṃ pratyārjavāgatam ||

29.1२९.१

हस्तपादशिरोभिर् यो योनिं भुग्नः प्रपद्यते । (२९।१)

hastapādaśirobhir yo yoniṃ bhugnaḥ prapadyate |

29.2२९.२

पादेन योनिम् एकेन भुग्नो ऽन्येन गुदं च यः ॥ (२९।२)

pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ ||

30.1३०.१

विष्कम्भौ नाम तौ मूढौ शस्त्रदारणम् अर्हतः । (३०।१)

viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ |

30.2३०.२

मण्डलाङ्गुलिशस्त्राभ्यां तत्र कर्म प्रशस्यते ॥ (३०।२)

maṇḍalāṅguliśastrābhyāṃ tatra karma praśasyate ||

31.1३१.१

वृद्धिपत्त्रं हि तीक्ष्णाग्रं न योनाववचारयेत् । (३१।१)

vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet |

31.2३१.२

पूर्वं शिरःकपालानि दारयित्वा विशोधयेत् ॥ (३१।२)

pūrvaṃ śiraḥkapālāni dārayitvā viśodhayet ||

32.1३२.१

कक्षोरस्तालुचिबुकप्रदेशे ऽन्यतमे ततः । (३२।१)

kakṣorastālucibukapradeśe 'nyatame tataḥ |

32.2३२.२

समालम्ब्य दृढं कर्षेत् कुशलो गर्भशङ्कुना ॥ (३२।२)

samālambya dṛḍhaṃ karṣet kuśalo garbhaśaṅkunā ||

33.1३३.१

अभिन्नशिरसं त्वक्षिकूटयोर् गण्डयोरपि । (३३।१)

abhinnaśirasaṃ tvakṣikūṭayor gaṇḍayorapi |

33.2३३.२

बाहुं छित्त्वांससक्तस्य वाताध्मातोदरस्य तु ॥ (३३।२)

bāhuṃ chittvāṃsasaktasya vātādhmātodarasya tu ||

34.1३४.१

विदार्य कोष्ठम् अन्त्राणि बहिर् वा संनिरस्य च । (३४।१)

vidārya koṣṭham antrāṇi bahir vā saṃnirasya ca |

34.2३४.२

कटीसक्तस्य तद्वच्च तत्कपालानि दारयेत् ॥ (३४।२)

kaṭīsaktasya tadvacca tatkapālāni dārayet ||

35.1३५.१

यद् यद् वायुवशाद् अङ्गं सजेद् गर्भस्य खण्डशः । (३५।१)

yad yad vāyuvaśād aṅgaṃ sajed garbhasya khaṇḍaśaḥ |

35.2३५.२

तत् तच्छित्त्वाहरेत् सम्यग् रक्षेन् नारीं च यत्नतः ॥ (३५।२)

tat tacchittvāharet samyag rakṣen nārīṃ ca yatnataḥ ||

36.1३६.१

गर्भस्य हि गतिं चित्रां करोति विगुणो ऽनिलः । (३६।१)

garbhasya hi gatiṃ citrāṃ karoti viguṇo 'nilaḥ |

36.2३६.२

तत्रानल्पमतिस् तस्माद् अवस्थापेक्षम् आचरेत् ॥ (३६।२)

tatrānalpamatis tasmād avasthāpekṣam ācaret ||

37.1३७.१

छिन्द्याद् गर्भं न जीवन्तं मातरं स हि मारयेत् । (३७।१)

chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet |

37.2३७.२

सहात्मना न चोपेक्ष्यः क्षणम् अप्यस्तजीवितः ॥ (३७।२)

sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ ||

38.1३८.१

योनिसंवरणभ्रंशमक्कल्लश्वासपीडिताम् । (३८।१)

yonisaṃvaraṇabhraṃśamakkallaśvāsapīḍitām |

38.2३८.२

पूत्युद्गारां हिमाङ्गीं च मूढगर्भां परित्यजेत् ॥ (३८।२)

pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet ||

39.1३९.१

अथापतन्तीम् अपरां पातयेत् पूर्ववद् भिषक् । (३९।१)

athāpatantīm aparāṃ pātayet pūrvavad bhiṣak |

39.2३९.२

एवं निर्हृतशल्यां तु सिञ्चेद् उष्णेन वारिणा ॥ (३९।२)

evaṃ nirhṛtaśalyāṃ tu siñced uṣṇena vāriṇā ||

40.1४०.१

दद्याद् अभ्यक्तदेहायै योनौ स्नेहपिचुं ततः । (४०।१)

dadyād abhyaktadehāyai yonau snehapicuṃ tataḥ |

40.2४०.२

योनिर् मृदुर् भवेत् तेन शूलं चास्याः प्रशाम्यति ॥ (४०।२)

yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati ||

41.1४१.१

दीप्यकातिविषारास्नाहिङ्ग्वेलापञ्चकोलकात् । (४१।१)

dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt |

41.2४१.२

चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत् ततः ॥ (४१।२)

cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ ||

42.1४२.१

कटुकातिविषापाठाशाकत्वग्घिङ्गुतेजिनीः । (४२।१)

kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ |

42.2४२.२

तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च ॥ (४२।२)

tadvacca doṣasyandārthaṃ vedanopaśamāya ca ||

43.1४३.१

त्रिरात्रम् एवं सप्ताहं स्नेहम् एव ततः पिबेत् । (४३।१)

trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet |

43.2४३.२

सायं पिबेद् अरिष्टं च तथा सुकृतम् आसवम् ॥ (४३।२)

sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam ||

44.1४४.१

शिरीषककुभक्वाथपिचून् योनौ विनिक्षिपेत् । (४४।१)

śirīṣakakubhakvāthapicūn yonau vinikṣipet |

44.2४४.२

उपद्रवाश्च ये ऽन्ये स्युस् तान् यथास्वम् उपाचरेत् ॥ (४४।२)

upadravāśca ye 'nye syus tān yathāsvam upācaret ||

45.1४५.१

पयो वातहरैः सिद्धं दशाहं भोजने हितम् । (४५।१)

payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam |

45.2४५.२

रसो दशाहं च परं लघुपथ्याल्पभोजना ॥ (४५।२)

raso daśāhaṃ ca paraṃ laghupathyālpabhojanā ||

46.1४६.१

स्वेदाभ्यङ्गपरा स्नेहान् बलातैलादिकान् भजेत् । (४६।१)

svedābhyaṅgaparā snehān balātailādikān bhajet |

46.2४६.२

ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च ॥ (४६।२)

ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca ||

47.1४७.१

बलामूलकषायस्य भागाः षट् पयसस् तथा । (४७।१)

balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasas tathā |

47.2४७.२

यवकोलकुलत्थानां दशमूलस्य चैकतः ॥ (४७।२)

yavakolakulatthānāṃ daśamūlasya caikataḥ ||

48.1४८.१

निःक्वाथभागो भागश्च तैलस्य तु चतुर्दशः । (४८।१)

niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ |

48.2४८.२

द्विमेदादारुमञ्जिष्ठाकाकोलीद्वयचन्दनैः ॥ (४८।२)

dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ ||

49.1४९.१

शारिवाकुष्ठतगरजीवकर्षभसैन्धवैः । (४९।१)

śārivākuṣṭhatagarajīvakarṣabhasaindhavaiḥ |

49.2४९.२

कालानुसार्याशैलेयवचागुरुपुनर्नवैः ॥ (४९।२)

kālānusāryāśaileyavacāgurupunarnavaiḥ ||

50.1५०.१

अश्वगन्धावरीक्षीरशुक्लायष्टीवरारसैः । (५०।१)

aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ |

50.2५०.२

शताह्वाशूर्पपर्ण्येलात्वक्पत्त्रैः श्लक्ष्णकल्कितैः ॥ (५०।२)

śatāhvāśūrpaparṇyelātvakpattraiḥ ślakṣṇakalkitaiḥ ||

51.1५१.१

पक्वं मृद्वग्निना तैलं सर्ववातविकारजित् । (५१।१)

pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit |

51.2५१.२

सूतिकाबालमर्मास्थिहतक्षीणेषु पूजितम् ॥ (५१।२)

sūtikābālamarmāsthihatakṣīṇeṣu pūjitam ||

52.1५२.१

ज्वरगुल्मग्रहोन्मादमूत्राघातान्त्रवृद्धिजित् । (५२।१)

jvaragulmagrahonmādamūtrāghātāntravṛddhijit |

52.2५२.२

धन्वन्तरेरभिमतं योनिरोगक्षयापहम् ॥ (५२।२)

dhanvantarerabhimataṃ yonirogakṣayāpaham ||

53.1५३.१

प्रोलप्सुस् उतेरिवस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि । (५३।१)

prolapsus uterivastidvāre vipannāyāḥ kukṣiḥ praspandate yadi |

53.2५३.२

जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम् ॥ (५३।२)

janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum ||

54.1५४.१

मधुकं शाकबीजं च पयस्या सुरदारु च । (५४।१)

madhukaṃ śākabījaṃ ca payasyā suradāru ca |

54.2५४.२

अश्मन्तकः कृष्णतिलास् ताम्रवल्ली शतावरी ॥ (५४।२)

aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī ||

55.1५५.१

वृक्षादनी पयस्या च लता सोत्पलशारिवा । (५५।१)

vṛkṣādanī payasyā ca latā sotpalaśārivā |

55.2५५.२

अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका ॥ (५५।२)

anantā śārivā rāsnā padmā ca madhuyaṣṭikā ||

56.1५६.१

बृहतीद्वयकाश्मर्यक्षीरिशुङ्गत्वचा घृतम् । (५६।१)

bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam |

56.2५६.२

पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ॥ (५६।२)

pṛśniparṇī balā śigruḥ śvadaṃṣṭrā madhuparṇikā ||

57.1५७.१

शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता । (५७।१)

śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā |

57.2५७.२

सप्तैतान् पयसा योगान् अर्धश्लोकसमापनान् ॥ (५७।२)

saptaitān payasā yogān ardhaślokasamāpanān ||

58.1५८.१

क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत् । (५८।१)

kramāt saptasu māseṣu garbhe sravati yojayet |

58.2५८.२

कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकात् ॥ (५८।२)

kapitthabilvabṛhatīpaṭolekṣunidigdhikāt ||

59.1५९.१

मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाष्टमे । (५९।१)

mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame |

59.2५९.२

नवमे शारिवानन्तापयस्यामधुयष्टिभिः ॥ (५९।२)

navame śārivānantāpayasyāmadhuyaṣṭibhiḥ ||

60.1६०.१

योजयेद् दशमे मासि सिद्धं क्षीरं पयस्यया । (६०।१)

yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā |

60.2६०.२

अथवा यष्टिमधुकनागरामरदारुभिः ॥ (६०।२)

athavā yaṣṭimadhukanāgarāmaradārubhiḥ ||

61.1६१.१

अवस्थितं लोहितम् अङ्गनाया वातेन गर्भं ब्रुवते ऽनभिज्ञाः । (६१।१)

avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'nabhijñāḥ |

61.2६१.२

गर्भाकृतित्वात् कटुकोष्णतीक्ष्णैः स्रुते पुनः केवल एव रक्ते ॥ (६१।२)

garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte ||

62.1६२.१

गर्भं जडा भूतहृतं वदन्ति मूर्तेर् न दृष्टं हरणं यतस् तैः । (६२।१)

garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ |

62.2६२.२

ओजोऽशनत्वाद् अथवाव्यवस्थैर् भूतैर् उपेक्ष्येत न गर्भमाता ॥ (६२।२)

ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 2, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit