अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 14
Select a line for its word-by-word analysis.
विध्येत् सुजातं निष्प्रेक्ष्यं लिङ्गनाशं कफोद्भवम् । (१।३)
vidhyet sujātaṃ niṣprekṣyaṃ liṅganāśaṃ kaphodbhavam |
आवर्तक्यादिभिः षड्भिर् विवर्जितम् उपद्रवैः ॥ (१।४)
āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ ||
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः । (३।१)
karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ |
श्लेष्मलैः पूर्यते चाशु सो ऽन्यैः सोपद्रवश्चिरात् ॥ (३।२)
śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt ||
श्लैष्मिको लिङ्गनाशो हि सितत्वाच्छ्लेष्मणः सितः । (४।१)
ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ |
विषमच्छिन्नदग्धाभा सरुक् छिन्नांशुका स्मृता ॥ (६।२)
viṣamacchinnadagdhābhā saruk chinnāṃśukā smṛtā ||
दृष्टिः कांस्यसमच्छाया चन्द्रकी चन्द्रकाकृतिः । (७।१)
dṛṣṭiḥ kāṃsyasamacchāyā candrakī candrakākṛtiḥ |
छत्त्राभा नैकवर्णा च छत्त्रकी नाम नीलिका ॥ (७।२)
chattrābhā naikavarṇā ca chattrakī nāma nīlikā ||
न विध्येद् असिरार्हाणां न तृट्पीनसकासिनाम् । (८।१)
na vidhyed asirārhāṇāṃ na tṛṭpīnasakāsinām |
देशे प्रकाशे पूर्वाह्णे भिषग् जानूच्चपीठगः ॥ (९।२)
deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ ||
यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः । (१०।१)
yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ |
अङ्गुष्ठमृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम् ॥ (१०।२)
aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam ||
स्वां नासां प्रेक्षमाणस्य निष्कम्पं मूर्ध्नि धारिते । (११।१)
svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite |
कृष्णाद् अर्धाङ्गुलं मुक्त्वा तथार्धार्धम् अपाङ्गतः ॥ (११।२)
kṛṣṇād ardhāṅgulaṃ muktvā tathārdhārdham apāṅgataḥ ||
तर्जनीमध्यमाङ्गुष्ठैः शलाकां निश्चलं धृताम् । (१२।१)
tarjanīmadhyamāṅguṣṭhaiḥ śalākāṃ niścalaṃ dhṛtām |
दैवच्छिद्रं नयेत् पार्श्वाद् ऊर्ध्वम् आमन्थयन् इव ॥ (१२।२)
daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva ||
सव्यं दक्षिणहस्तेन नेत्रं सव्येन चेतरत् । (१३।१)
savyaṃ dakṣiṇahastena netraṃ savyena cetarat |
विध्येत् सुविद्धे शब्दः स्याद् अरुक् चाम्बुलवस्रुतिः ॥ (१३।२)
vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ ||
सान्त्वयन्न् आतुरं चानु नेत्रं स्तन्येन सेचयेत् । (१४।१)
sāntvayann āturaṃ cānu netraṃ stanyena secayet |
शलाकायास्ततो ऽग्रेण निर्लिखेन् नेत्रमण्डलम् ॥ (१४।२)
śalākāyāstato 'greṇa nirlikhen netramaṇḍalam ||
अबाधमानः शनकैर् नासां प्रति नुदंस्ततः । (१५।१)
abādhamānaḥ śanakair nāsāṃ prati nudaṃstataḥ |
उच्छिङ्घनाच्चापहरेद् दृष्टिमण्डलगं कफम् ॥ (१५।२)
ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṃ kapham ||
स्थिरे दोषे चले वाति स्वेदयेद् अक्षि बाह्यतः । (१६।१)
sthire doṣe cale vāti svedayed akṣi bāhyataḥ |
घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत् ततः । (१७।१)
ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ |
विद्धाद् अन्येन पार्श्वेन तम् उत्तानं द्वयोर् व्यधे ॥ (१७।२)
viddhād anyena pārśvena tam uttānaṃ dvayor vyadhe ||
क्षवथुं कासम् उद्गारं ष्ठीवनं पानम् अम्भसः ॥ (१८।२)
kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ ||
अधोमुखस्थितिं स्नानं दन्तधावनभक्षणम् । (१९।१)
adhomukhasthitiṃ snānaṃ dantadhāvanabhakṣaṇam |
सप्ताहं नाचरेत् स्नेहपीतवच्चात्र यन्त्रणा ॥ (१९।२)
saptāhaṃ nācaret snehapītavaccātra yantraṇā ||
शक्तितो लङ्घयेत् सेको रुजि कोष्णेन सर्पिषा । (२०।१)
śaktito laṅghayet seko ruji koṣṇena sarpiṣā |
सव्योषामलकं वाट्यम् अश्नीयात् सघृतं द्रवम् ॥ (२०।२)
savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam ||
विलेपीं वा त्र्यहाच्चास्य क्वाथैर् मुक्त्वाक्षि सेचयेत् । (२१।१)
vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet |
वातघ्नैः सप्तमे त्वह्नि सर्वथैवाक्षि मोचयेत् ॥ (२१।२)
vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet ||
यन्त्रणाम् अनुरुध्येत दृष्टेर् आ स्थैर्यलाभतः । (२२।१)
yantraṇām anurudhyeta dṛṣṭer ā sthairyalābhataḥ |
अहितैर् वेधदोषाच्च यथास्वं तान् उपाचरेत् ॥ (२३।२)
ahitair vedhadoṣācca yathāsvaṃ tān upācaret ||
ससर्षपास्तिलास्तद्वन् मातुलुङ्गरसाप्लुताः । (२५।१)
sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ |
पयस्याशारिवापत्त्रमञ्जिष्ठामधुयष्टिभिः ॥ (२५।२)
payasyāśārivāpattramañjiṣṭhāmadhuyaṣṭibhiḥ ||
अजाक्षीरयुतैर् लेपः सुखोष्णः शर्मकृत् परम् । (२६।१)
ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param |
लोध्रसैन्धवमृद्वीकामधुकैश्छागलं पयः ॥ (२६।२)
lodhrasaindhavamṛdvīkāmadhukaiśchāgalaṃ payaḥ ||
मधुकोत्पलकुष्ठैर् वा द्राक्षालाक्षासितान्वितैः ॥ (२७।२)
madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ ||
वातघ्नसिद्धे पयसि शृतं सर्पिश्चतुर्गुणे । (२८।१)
vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe |
सिरां तथानुपशमे स्निग्धस्विन्नस्य मोक्षयेत् । (२९।१)
sirāṃ tathānupaśame snigdhasvinnasya mokṣayet |
मन्थोक्तां च क्रियां कुर्याद् वेधे रूढे ऽञ्जनं मृदु ॥ (२९।२)
manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu ||
विद्धे ऽक्ष्णि सगुडा वर्तिर् योज्या दिव्याम्बुपेषिता ॥ (३०।२)
viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā ||
जातीशिरीषधवमेषविषाणिपुष्पवैडूर्यमौक्तिकफलं पयसा सुपिष्टम् । (३१।१)
jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam |
आजेन ताम्रम् अमुना प्रतनु प्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम् ॥ (३१।२)
ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam ||
पिण्डाञ्जनं हितम् अनातपशुष्कम् अक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः । (३२।१)
piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ |
स्रोतोजविद्रुमशिलाम्बुधिफेनतीक्ष्णैरस्यैव तुल्यम् उदितं गुणकल्पनाभिः ॥ (३२।२)
srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.