अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 4, 8
Select a line for its word-by-word analysis.
काले साधारणे व्यभ्रे नातिदुर्बलम् अर्शसम् । (१।३)
kāle sādhāraṇe vyabhre nātidurbalam arśasam |
विशुद्धकोष्ठं लघ्वल्पम् अनुलोमनम् आशितम् ॥ (१।४)
viśuddhakoṣṭhaṃ laghvalpam anulomanam āśitam ||
शुचिं कृतस्वस्त्ययनं मुक्तविण्मूत्रम् अव्यथम् । (२।१)
śuciṃ kṛtasvastyayanaṃ muktaviṇmūtram avyatham |
पूर्वेण कायेनोत्तानं प्रत्यादित्यगुदं समम् । (३।१)
pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam |
सक्थ्नोः शिरोधरायां च परिक्षिप्तम् ऋजु स्थितम् । (४।१)
sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam |
ततो ऽस्मै सर्पिषाभ्यक्तं निदध्याद् ऋजु यन्त्रकम् । (५।१)
tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam |
शनैरनुसुखं पायौ ततो दृष्ट्वा प्रवाहणात् ॥ (५।२)
śanairanusukhaṃ pāyau tato dṛṣṭvā pravāhaṇāt ||
यन्त्रे प्रविष्टं दुर्नाम प्लोतगुण्ठितयानु च । (६।१)
yantre praviṣṭaṃ durnāma plotaguṇṭhitayānu ca |
क्षारेणैवार्द्रम् इतरत् क्षारेण ज्वलनेन वा । (७।१)
kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā |
महद् वा बलिनश्छित्त्वा वीतयन्त्रम् अथातुरम् ॥ (७।२)
mahad vā balinaśchittvā vītayantram athāturam ||
निर्वातमन्दिरस्थस्य ततो ऽस्याचारम् आदिशेत् ॥ (८।२)
nirvātamandirasthasya tato 'syācāram ādiśet ||
प्राग् दक्षिणं ततो वामम् अर्शः पृष्ठाग्रजं ततः ॥ (९।२)
prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ ||
बह्वर्शसः सुदग्धस्य स्याद् वायोरनुलोमता । (१०।१)
bahvarśasaḥ sudagdhasya syād vāyoranulomatā |
रुचिरन्ने ऽग्निपटुता स्वास्थ्यं वर्णबलोदयः ॥ (१०।२)
ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ ||
वस्तिशूले त्वधो नाभेर् लेपयेच्छ्लक्ष्णकल्कितैः । (११।१)
vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ |
सुषवीसुरभीभ्यां च क्वाथम् उष्णं प्रयोजयेत् । (१३।१)
suṣavīsurabhībhyāṃ ca kvātham uṣṇaṃ prayojayet |
सस्नेहम् अथवा क्षीरं तैलं वा वातनाशनम् ॥ (१३।२)
sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam ||
युञ्जीतान्नं शकृद्भेदि स्नेहान् वातघ्नदीपनान् । (१४।१)
yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān |
सस्तम्भकण्डूरुक्शोफान् अभ्यज्य गुदकीलकान् । (१५।१)
sastambhakaṇḍūrukśophān abhyajya gudakīlakān |
बिल्वमूलाग्निकक्षारकुष्ठैः सिद्धेन सेचयेत् ॥ (१५।२)
bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet ||
स्वेदयेद् अनु पिण्डेन द्रवस्वेदेन वा पुनः ॥ (१६।२)
svedayed anu piṇḍena dravasvedena vā punaḥ ||
सक्तूनां पिण्डिकाभिर् वा स्निग्धानां तैलसर्पिषा । (१७।१)
saktūnāṃ piṇḍikābhir vā snigdhānāṃ tailasarpiṣā |
रास्नाया हपुषाया वा पिण्डैर् वा कार्ष्ण्यगन्धिकैः ॥ (१७।२)
rāsnāyā hapuṣāyā vā piṇḍair vā kārṣṇyagandhikaiḥ ||
अर्कमूलं शमीपत्त्रम् नृकेशः सर्पकञ्चुकम् । (१८।१)
arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam |
मार्जारचर्म सर्पिश्च धूपनं हितम् अर्शसाम् ॥ (१८।२)
mārjāracarma sarpiśca dhūpanaṃ hitam arśasām ||
धान्याम्लपिष्टैर् जीमूतबीजैस् तज्जालकं मृदु ॥ (१९।२)
dhānyāmlapiṣṭair jīmūtabījais tajjālakaṃ mṛdu ||
गुञ्जासूरणकूष्माण्डबीजैर् वर्तिस् तथागुणा । (२१।१)
guñjāsūraṇakūṣmāṇḍabījair vartis tathāguṇā |
स्नुक्क्षीरार्द्रनिशालेपस् तथा गोमूत्रकल्कितैः ॥ (२१।२)
snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ ||
स्नुक्क्षीरपिष्टैः षड्ग्रन्थाहलिनीवारणास्थिभिः ॥ (२२।२)
snukkṣīrapiṣṭaiḥ ṣaḍgranthāhalinīvāraṇāsthibhiḥ ||
शिग्रुमूलकजैर् बीजैः पत्त्रैरश्वघ्ननिम्बजैः ॥ (२३।२)
śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ ||
कुष्ठं शिरीषबीजानि पिप्पल्यः सैन्धवं गुडः ॥ (२४।२)
kuṣṭhaṃ śirīṣabījāni pippalyaḥ saindhavaṃ guḍaḥ ||
अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम् । (२५।१)
arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam |
करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठम् अर्शसाम् । (२६।१)
karañjo bastamūtraṃ ca lepanaṃ śreṣṭham arśasām |
आनुवासनिकैर् लेपः पिप्पल्याद्यैश्च पूजितः ॥ (२६।२)
ānuvāsanikair lepaḥ pippalyādyaiśca pūjitaḥ ||
एभिरेवौषधैः कुर्यात् तैलान्यभ्यञ्जनाय च । (२७।१)
ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca |
धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कुराः ॥ (२७।२)
dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ ||
संचितं दुष्टरुधिरं ततः सम्पद्यते सुखी । (२८।१)
saṃcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī |
अर्शोभ्यो जलजाशस्त्रसूचीकूर्चैः पुनः पुनः । (२९।१)
arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ |
शीतोष्णस्निग्धरूक्षैर् हि न व्याधिरुपशाम्यति ॥ (२९।२)
śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati ||
रक्ते दुष्टे भिषक् तस्माद् रक्तम् एवावसेचयेत् । (३०।१)
rakte duṣṭe bhiṣak tasmād raktam evāvasecayet |
यो जातो गोरसः क्षीराद् वह्निचूर्णावचूर्णितात् ॥ (३०।२)
yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt ||
पिबंस् तम् एव तेनैव भुञ्जानो गुदजान् जयेत् । (३१।१)
pibaṃs tam eva tenaiva bhuñjāno gudajān jayet |
अश्नन् जीर्णे च पथ्यानि मुच्यते हतनामभिः । (३२।१)
aśnan jīrṇe ca pathyāni mucyate hatanāmabhiḥ |
गुदश्वयथुशूलार्तो मन्दाग्निर् गौल्मिकान् पिबेत् ॥ (३२।२)
gudaśvayathuśūlārto mandāgnir gaulmikān pibet ||
हिङ्ग्वादीन् अनुतक्रं वा खादेद् गुडहरीतकीम् । (३३।१)
hiṅgvādīn anutakraṃ vā khāded guḍaharītakīm |
तक्रेण वा पिबेत् पथ्यावेल्लाग्निकुटजत्वचः ॥ (३३।२)
takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ ||
कोष्णाम्बुना वा त्रिपटुव्योषहिङ्ग्वम्लवेतसम् ॥ (३४।२)
koṣṇāmbunā vā tripaṭuvyoṣahiṅgvamlavetasam ||
युक्तं बिल्वकपित्थाभ्यां महौषधविडेन वा । (३५।१)
yuktaṃ bilvakapitthābhyāṃ mahauṣadhaviḍena vā |
अरुष्करैर् यवान्या वा प्रदद्यात् तक्रतर्पणम् ॥ (३५।२)
aruṣkarair yavānyā vā pradadyāt takratarpaṇam ||
दद्याद् वा हपुषाहिङ्गुचित्रकं तक्रसंयुतम् । (३६।१)
dadyād vā hapuṣāhiṅgucitrakaṃ takrasaṃyutam |
पिबेद् अहरहस् तक्रं निरन्नो वा प्रकामतः । (३७।१)
pibed aharahas takraṃ niranno vā prakāmataḥ |
अत्यर्थं मन्दकायाग्नेस् तक्रम् एवावचारयेत् ॥ (३७।२)
atyarthaṃ mandakāyāgnes takram evāvacārayet ||
सप्ताहं वा दशाहं वा मासार्धं मासम् एव च । (३८।१)
saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca |
सायं वा लाजसक्तूनां दद्यात् तक्रावलेहिकाम् । (३९।१)
sāyaṃ vā lājasaktūnāṃ dadyāt takrāvalehikām |
जीर्णे तक्रे प्रदद्याद् वा तक्रपेयां ससैन्धवाम् ॥ (३९।२)
jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām ||
तक्रानुपानं सस्नेहं तक्रौदनम् अतः परम् । (४०।१)
takrānupānaṃ sasnehaṃ takraudanam ataḥ param |
यूषै रसैर् वा तक्राढ्यैः शालीन् भुञ्जीत मात्रया ॥ (४०।२)
yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā ||
रूक्षम् अर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम् । (४१।१)
rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam |
तक्रं दोषाग्निबलवित् त्रिविधं तत् प्रयोजयेत् ॥ (४१।२)
takraṃ doṣāgnibalavit trividhaṃ tat prayojayet ||
स्रोतःसु तक्रशुद्धेषु रसो धातून् उपैति यः । (४३।१)
srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ |
तेन पुष्टिर् बलं वर्णः परं तुष्टिश्च जायते ॥ (४३।२)
tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate ||
निशां पर्युषितं पेयम् इच्छद्भिर् गुदजक्षयम् । (४५।१)
niśāṃ paryuṣitaṃ peyam icchadbhir gudajakṣayam |
चूर्णितैर् घृतपात्रस्थं नात्यम्लं तक्रम् आसुतम् ॥ (४६।२)
cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam ||
तक्रारिष्टं पिबेज्जातं व्यक्ताम्लकटु कामतः । (४७।१)
takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ |
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ॥ (४८।२)
tvacaṃ citrakamūlasya piṣṭvā kumbhaṃ pralepayet ||
तक्रं वा दधि वा तत्र जातम् अर्शोहरं पिबेत् । (४९।१)
takraṃ vā dadhi vā tatra jātam arśoharaṃ pibet |
भार्ग्यास्फोतामृतापञ्चकोलेष्वप्येष संविधिः ॥ (४९।२)
bhārgyāsphotāmṛtāpañcakoleṣvapyeṣa saṃvidhiḥ ||
तुम्बुर्वजाजीधनिकाबिल्वमध्यैश्च कल्पयेत् ॥ (५०।२)
tumburvajājīdhanikābilvamadhyaiśca kalpayet ||
एभिरेवौषधैः साध्यं वारि सर्पिश्च दीपनम् ॥ (५१।२)
ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam ||
क्रमो ऽयं भिन्नशकृतां वक्ष्यते गाढवर्चसाम् । (५२।१)
kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām |
स्नेहाढ्यैः सक्तुभिर् युक्तां लवणां वारुणीं पिबेत् ॥ (५२।२)
snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet ||
प्राग्भक्तान् यमके भृष्टान् सक्तुभिश्चावचूर्णितान् ॥ (५३।२)
prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān ||
करञ्जपल्लवान् खादेद् वातवर्चोऽनुलोमनान् । (५४।१)
karañjapallavān khāded vātavarco'nulomanān |
गोमूत्राध्युषिताम् अद्यात् सगुडां वा हरीतकीम् । (५५।१)
gomūtrādhyuṣitām adyāt saguḍāṃ vā harītakīm |
पथ्याशतद्वयान् मूत्रद्रोणेनामूत्रसंक्षयात् ॥ (५५।२)
pathyāśatadvayān mūtradroṇenāmūtrasaṃkṣayāt ||
पक्वात् खादेत् समधुनी द्वे द्वे हन्ति कफोद्भवान् । (५६।१)
pakvāt khādet samadhunī dve dve hanti kaphodbhavān |
ग्रन्थ्यर्बुदापचीस्थौल्यपाण्डुरोगाढ्यमारुतान् । (५७।१)
granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān |
गुडवार्ताकभुक् तस्य नश्यन्त्याशु गुदाङ्कुराः । (५८।१)
guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ |
श्रेष्ठारसेन त्रिवृतां पथ्यां तक्रेण वा सह ॥ (५८।२)
śreṣṭhārasena trivṛtāṃ pathyāṃ takreṇa vā saha ||
पथ्यां वा पिप्पलीयुक्तां घृतभृष्टां गुडान्विताम् । (५९।१)
pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām |
अथवा सत्रिवृद्दन्तीं भक्षयेद् अनुलोमनीम् ॥ (५९।२)
athavā satrivṛddantīṃ bhakṣayed anulomanīm ||
हते गुदाश्रये दोषे गुदजा यान्ति संक्षयम् । (६०।१)
hate gudāśraye doṣe gudajā yānti saṃkṣayam |
पिबेत् सुरां वा हपुषापाठासौवर्चलान्विताम् । (६२।१)
pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām |
दशादिदशकैर् वृद्धाः पिप्पलीर् द्विपिचुं तिलान् ॥ (६२।२)
daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān ||
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम् । (६४।१)
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam |
सलिलस्य वहे पक्त्वा प्रस्थार्धम् अभयात्वचाम् ॥ (६४।२)
salilasya vahe paktvā prasthārdham abhayātvacām ||
प्रस्थं धात्र्या दशपलं कपित्थानां ततो ऽर्धतः । (६५।१)
prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ |
द्विपलांशं पृथक् पादशेषे पूते गुडात् तुले । (६६।१)
dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule |
दत्त्वा प्रस्थं च धातक्याः स्थापयेद् घृतभाजने ॥ (६६।२)
dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane ||
पक्षात् स शीलितो ऽरिष्टः करोत्यग्निं निहन्ति च । (६७।१)
pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca |
पालिकान् पादशेषे तु क्षिपेद् गुडतुलां परम् । (६९।१)
pālikān pādaśeṣe tu kṣiped guḍatulāṃ param |
पूर्ववत् सर्वम् अस्य स्याद् आनुलोमितरस् त्वयम् ॥ (६९।२)
pūrvavat sarvam asya syād ānulomitaras tvayam ||
पचेद् दुरालभाप्रस्थं द्रोणे ऽपां प्रासृतैः सह । (७०।१)
paced durālabhāprasthaṃ droṇe 'pāṃ prāsṛtaiḥ saha |
तस्मिन् सिताशतं दद्यात् पादस्थे ऽन्यच्च पूर्ववत् । (७१।१)
tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat |
लिम्पेत् कुम्भं तु फलिनीकृष्णाचव्याज्यमाक्षिकैः ॥ (७१।२)
limpet kumbhaṃ tu phalinīkṛṣṇācavyājyamākṣikaiḥ ||
प्राग्भक्तम् आनुलोम्याय फलाम्लं वा पिबेद् घृतम् । (७२।१)
prāgbhaktam ānulomyāya phalāmlaṃ vā pibed ghṛtam |
चव्यचित्रकसिद्धं वा यवक्षारगुडान्वितम् ॥ (७२।२)
cavyacitrakasiddhaṃ vā yavakṣāraguḍānvitam ||
दध्ना च साधितं वातशकृन्मूत्रविबन्धनुत् । (७४।१)
dadhnā ca sādhitaṃ vātaśakṛnmūtravibandhanut |
वत्सकादिप्रतीवापम् अर्शोघ्नं दीपनं परम् । (७५।१)
vatsakādipratīvāpam arśoghnaṃ dīpanaṃ param |
सपाठाधान्यमरिचैः सबिल्वैर् दधिमत् घृतम् । (७६।१)
sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam |
साधयेत् तज् जयत्याशु गुदवङ्क्षणवेदनाम् ॥ (७६।२)
sādhayet taj jayatyāśu gudavaṅkṣaṇavedanām ||
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम् । (७७।१)
pravāhikāṃ gudabhraṃśaṃ mūtrakṛcchraṃ parisravam |
सबिल्वैर् दध्नि चाङ्गेरीस्वरसे च चतुर्गुणे । (७८।१)
sabilvair dadhni cāṅgerīsvarase ca caturguṇe |
हन्त्याज्यं सिद्धम् आनाहं मूत्रकृच्छ्रं प्रवाहिकाम् ॥ (७८।२)
hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām ||
शिखितित्तिरिलावानां रसान् अम्लान् सुसंस्कृतान् ॥ (७९।२)
śikhitittirilāvānāṃ rasān amlān susaṃskṛtān ||
दक्षाणां वर्तकानां वा दद्याद् विड्वातसंग्रहे । (८०।१)
dakṣāṇāṃ vartakānāṃ vā dadyād viḍvātasaṃgrahe |
वास्तुकाग्नित्रिवृद्दन्तीपाठाम्लीकादिपल्लवान् ॥ (८०।२)
vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān ||
अन्यच्च कफवातघ्नं शाकं च लघु भेदि च । (८१।१)
anyacca kaphavātaghnaṃ śākaṃ ca laghu bhedi ca |
सहिङ्गु यमके भृष्टं सिद्धं दधिसरैः सह ॥ (८१।२)
sahiṅgu yamake bhṛṣṭaṃ siddhaṃ dadhisaraiḥ saha ||
धनिकापञ्चकोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना । (८२।१)
dhanikāpañcakolābhyāṃ piṣṭābhyāṃ dāḍimāmbunā |
आर्द्रिकायाः किसलयैः शकलैरार्द्रकस्य च ॥ (८२।२)
ārdrikāyāḥ kisalayaiḥ śakalairārdrakasya ca ||
वातोत्तरस्य रूक्षस्य मन्दाग्नेर् बद्धवर्चसः । (८४।१)
vātottarasya rūkṣasya mandāgner baddhavarcasaḥ |
कल्पयेद् रक्तशाल्यन्नव्यञ्जनं शाकवद् रसान् ॥ (८४।२)
kalpayed raktaśālyannavyañjanaṃ śākavad rasān ||
गोगोधाछगलोष्ट्राणां विशेषात् क्रव्यभोजिनाम् । (८५।१)
gogodhāchagaloṣṭrāṇāṃ viśeṣāt kravyabhojinām |
मदिरां शार्करं गौडं सीधुं तक्रं तुषोदकम् ॥ (८५।२)
madirāṃ śārkaraṃ gauḍaṃ sīdhuṃ takraṃ tuṣodakam ||
अरिष्टं मस्तु पानीयं पानीयं वाल्पकं शृतम् । (८६।१)
ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam |
धान्येन धान्यशुण्ठीभ्यां कण्टकारिकयाथवा ॥ (८६।२)
dhānyena dhānyaśuṇṭhībhyāṃ kaṇṭakārikayāthavā ||
अन्ते भक्तस्य मध्ये वा वातवर्चोऽनुलोमनम् । (८७।१)
ante bhaktasya madhye vā vātavarco'nulomanam |
विड्वातकफपित्तानाम् आनुलोम्ये हि निर्मले ॥ (८७।२)
viḍvātakaphapittānām ānulomye hi nirmale ||
उदावर्तपरीता ये ये चात्यर्थं विरूक्षिताः ॥ (८८।२)
udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ ||
विलोमवाताः शूलार्तास् तेष्विष्टम् अनुवासनम् । (८९।१)
vilomavātāḥ śūlārtās teṣviṣṭam anuvāsanam |
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम् ॥ (८९।२)
pippalīṃ madanaṃ bilvaṃ śatāhvāṃ madhukaṃ vacām ||
कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च । (९०।१)
kuṣṭhaṃ śaṭhīṃ puṣkarākhyaṃ citrakaṃ devadāru ca |
पिष्ट्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम् ॥ (९०।२)
piṣṭvā tailaṃ vipaktavyaṃ dviguṇakṣīrasaṃyutam ||
अर्शसां मूढवातानां तच्छ्रेष्ठम् अनुवासनम् । (९१।१)
arśasāṃ mūḍhavātānāṃ tacchreṣṭham anuvāsanam |
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम् ॥ (९१।२)
gudaniḥsaraṇaṃ śūlaṃ mūtrakṛcchraṃ pravāhikām ||
कट्यूरुपृष्ठदौर्बल्यम् आनाहं वङ्क्षणाश्रयम् । (९२।१)
kaṭyūrupṛṣṭhadaurbalyam ānāhaṃ vaṅkṣaṇāśrayam |
पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम् ॥ (९२।२)
picchāsrāvaṃ gude śophaṃ vātavarcovinigraham ||
उत्थानं बहुशो यच्च जयेत् तच्चानुवासनात् । (९३।१)
utthānaṃ bahuśo yacca jayet taccānuvāsanāt |
निरूहं वा प्रयुञ्जीत सक्षीरं पाञ्चमूलिकम् ॥ (९३।२)
nirūhaṃ vā prayuñjīta sakṣīraṃ pāñcamūlikam ||
समूत्रस्नेहलवणं कल्कैर् युक्तं फलादिभिः । (९४।१)
samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ |
अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा ॥ (९४।२)
atha raktārśasāṃ vīkṣya mārutasya kaphasya vā ||
अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद्धिमम् । (९५।१)
anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayeddhimam |
शकृच्छ्यावं खरं रूक्षम् अधो निर्याति नानिलः ॥ (९५।२)
śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ ||
तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट् श्लथा ॥ (९६।२)
tatrānubandho vātasya śleṣmaṇo yadi viṭ ślathā ||
श्वेता पीता गुरुः स्निग्धा सपिच्छः स्तिमितो गुदः । (९७।१)
śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ |
हेतुः स्निग्धगुरुर् विद्याद् यथास्वं चास्रलक्षणात् ॥ (९७।२)
hetuḥ snigdhagurur vidyād yathāsvaṃ cāsralakṣaṇāt ||
दुष्टे ऽस्रे शोधनं कार्यं लङ्घनं च यथाबलम् । (९८।१)
duṣṭe 'sre śodhanaṃ kāryaṃ laṅghanaṃ ca yathābalam |
यावच्च दोषैः कालुष्यं स्रुतेस् तावद् उपेक्षणम् ॥ (९८।२)
yāvacca doṣaiḥ kāluṣyaṃ srutes tāvad upekṣaṇam ||
दोषाणां पाचनार्थं च वह्निसंधुक्षणाय च । (९९।१)
doṣāṇāṃ pācanārthaṃ ca vahnisaṃdhukṣaṇāya ca |
संग्रहाय च रक्तस्य परं तिक्तैरुपाचरेत् ॥ (९९।२)
saṃgrahāya ca raktasya paraṃ tiktairupācaret ||
यत् तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य वा । (१००।१)
yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya vā |
स्नेहैस् तत् साधयेत् युक्तैः पानाभ्यञ्जनवस्तिषु ॥ (१००।२)
snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu ||
यत् तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते । (१०१।१)
yat tu pittolbaṇaṃ raktaṃ gharmakāle pravartate |
स्तम्भनीयं तद् एकान्तान् न चेद् वातकफानुगम् ॥ (१०१।२)
stambhanīyaṃ tad ekāntān na ced vātakaphānugam ||
सकफे ऽस्रे पिबेत् पाक्यं शुण्ठीकुटजवल्कलम् । (१०२।१)
sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam |
किराततिक्तकं शुण्ठीं धन्वयासं कुचन्दनम् ॥ (१०२।२)
kirātatiktakaṃ śuṇṭhīṃ dhanvayāsaṃ kucandanam ||
दार्वीत्वङ्निम्बसेव्यानि त्वचं वा दाडिमोद्भवाम् । (१०३।१)
dārvītvaṅnimbasevyāni tvacaṃ vā dāḍimodbhavām |
कुटजत्वक्फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम् ॥ (१०३।२)
kuṭajatvakphalaṃ tārkṣyaṃ mākṣikaṃ ghuṇavallabhām ||
पिबेत् तण्डुलतोयेन कल्कितं वा मयूरकम् । (१०४।१)
pibet taṇḍulatoyena kalkitaṃ vā mayūrakam |
तुलां दिव्याम्भसि पचेद् आर्द्रायाः कुटजत्वचः ॥ (१०४।२)
tulāṃ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ ||
नीरसायां त्वचि क्वाथे दद्यात् सूक्ष्मरजीकृतान् । (१०५।१)
nīrasāyāṃ tvaci kvāthe dadyāt sūkṣmarajīkṛtān |
समङ्गाफलिनीमोचरसान् मुष्ट्यंशकान् समान् ॥ (१०५।२)
samaṅgāphalinīmocarasān muṣṭyaṃśakān samān ||
तैश्च शक्रयवान् पूते ततो दर्वीप्रलेपनम् । (१०६।१)
taiśca śakrayavān pūte tato darvīpralepanam |
पक्त्वावलेहं लीढ्वा च तं यथाग्निबलं पिबेत् ॥ (१०६।२)
paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet ||
पेयां मण्डं पयश्छागं गव्यं वा छागदुग्धभुक् । (१०७।१)
peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk |
लेहो ऽयं शमयत्याशु रक्तातीसारपायुजान् ॥ (१०७।२)
leho 'yaṃ śamayatyāśu raktātīsārapāyujān ||
बलवद् रक्तपित्तं च स्रवद् ऊर्ध्वम् अधो ऽपि वा । (१०८।१)
balavad raktapittaṃ ca sravad ūrdhvam adho 'pi vā |
कुटजत्वक्तुलां द्रोणे पचेद् अष्टांशशेषितम् ॥ (१०८।२)
kuṭajatvaktulāṃ droṇe paced aṣṭāṃśaśeṣitam ||
कल्कीकृत्य क्षिपेत् तत्र तार्क्ष्यशैलं कटुत्रयम् । (१०९।१)
kalkīkṛtya kṣipet tatra tārkṣyaśailaṃ kaṭutrayam |
लोध्रद्वयं मोचरसं बलां दाडिमजां त्वचम् ॥ (१०९।२)
lodhradvayaṃ mocarasaṃ balāṃ dāḍimajāṃ tvacam ||
बिल्वकर्कटिकां मुस्तं समङ्गां धातकीफलम् । (११०।१)
bilvakarkaṭikāṃ mustaṃ samaṅgāṃ dhātakīphalam |
त्रिंशत् पलानि गुडतो घृतात् पूते च विंशतिः । (१११।१)
triṃśat palāni guḍato ghṛtāt pūte ca viṃśatiḥ |
तत् पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन् ॥ (१११।२)
tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan ||
सर्वार्शोग्रहणीदोषश्वासकासान् नियच्छति । (११२।१)
sarvārśograhaṇīdoṣaśvāsakāsān niyacchati |
लोध्रं तिलान् मोचरसं समङ्गां चन्दनोत्पलम् ॥ (११२।२)
lodhraṃ tilān mocarasaṃ samaṅgāṃ candanotpalam ||
पाययित्वाजदुग्धेन शालींस् तेनैव भोजयेत् । (११३।१)
pāyayitvājadugdhena śālīṃs tenaiva bhojayet |
यष्ट्याह्वपद्मकानन्तापयस्याक्षीरमोरटम् ॥ (११३।२)
yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam ||
हिमकेसरयष्ट्याह्वसेव्यं वा तण्डुलाम्बुना । (११५।१)
himakesarayaṣṭyāhvasevyaṃ vā taṇḍulāmbunā |
यवानीन्द्रयवाः पाठा बिल्वं शुण्ठी रसाञ्जनम् ॥ (११५।२)
yavānīndrayavāḥ pāṭhā bilvaṃ śuṇṭhī rasāñjanam ||
चूर्णश्चले हितः शूले प्रवृत्ते चातिशोणिते । (११६।१)
cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite |
दुग्धिकाकण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते ॥ (११६।२)
dugdhikākaṇṭakārībhyāṃ siddhaṃ sarpiḥ praśasyate ||
शर्कराम्भोजकिञ्जल्कसहितं सह वा तिलैः । (११८।१)
śarkarāmbhojakiñjalkasahitaṃ saha vā tilaiḥ |
अभ्यस्तं रक्तगुदजान् नवनीतं नियच्छति ॥ (११८।२)
abhyastaṃ raktagudajān navanītaṃ niyacchati ||
रक्तशालिः सरो दध्नः षष्टिकस् तरुणी सुरा । (१२०।१)
raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā |
तरुणश्च सुरामण्डः शोणितस्यौषधं परम् ॥ (१२०।२)
taruṇaśca surāmaṇḍaḥ śoṇitasyauṣadhaṃ param ||
पेयायूषरसाद्येषु पलाण्डुः केवलो ऽपि वा । (१२१।१)
peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā |
स जयत्युल्बणं रक्तं मारुतं च प्रयोजितः ॥ (१२१।२)
sa jayatyulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ ||
वातोल्बणानि प्रायेण भवन्त्यस्रे ऽतिनिःसृते । (१२२।१)
vātolbaṇāni prāyeṇa bhavantyasre 'tiniḥsṛte |
अर्शांसि तस्माद् अधिकं तज्जये यत्नम् आचरेत् ॥ (१२२।२)
arśāṃsi tasmād adhikaṃ tajjaye yatnam ācaret ||
दृष्ट्वास्रपित्तं प्रबलम् अबलौ च कफानिलौ । (१२३।१)
dṛṣṭvāsrapittaṃ prabalam abalau ca kaphānilau |
शीतोपचारः कर्तव्यः सर्वथा तत्प्रशान्तये ॥ (१२३।२)
śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye ||
न चेद् एवं शमस् तस्य स्निग्धोष्णैस् तर्पयेत् ततः । (१२४।१)
na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ |
रसैः कोष्णैश्च सर्पिर्भिरवपीडकयोजितैः ॥ (१२४।२)
rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ ||
सेचयेत् तं कवोष्णैश्च कामं तैलपयोघृतैः । (१२५।१)
secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ |
यवासकुशकाशानां मूलं पुष्पं च शाल्मलेः ॥ (१२५।२)
yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ ||
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः । (१२६।१)
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ |
त्रिप्रस्थे सलिलस्यैतत् क्षीरप्रस्थे च साधयेत् ॥ (१२६।२)
triprasthe salilasyaitat kṣīraprasthe ca sādhayet ||
क्षीरशेषे कषाये च तस्मिन् पूते विमिश्रयेत् । (१२७।१)
kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet |
कल्कीकृतं मोचरसं समङ्गां चन्दनोत्पलम् ॥ (१२७।२)
kalkīkṛtaṃ mocarasaṃ samaṅgāṃ candanotpalam ||
प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम् । (१२८।१)
priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram |
पिच्छावस्तिरयं सिद्धः सघृतक्षौद्रशर्करः ॥ (१२८।२)
picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ ||
यष्ट्याह्वपुण्डरीकेण तथा मोचरसादिभिः ॥ (१२९।२)
yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ ||
क्षीरद्विगुणितः पक्वो देयः स्नेहो ऽनुवासनम् । (१३०।१)
kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam |
मधुकोत्पललोध्राम्बु समङ्गा बिल्वचन्दनम् ॥ (१३०।२)
madhukotpalalodhrāmbu samaṅgā bilvacandanam ||
चविकातिविषा मुस्तं पाठा क्षारो यवाग्रजः । (१३१।१)
cavikātiviṣā mustaṃ pāṭhā kṣāro yavāgrajaḥ |
दार्वीत्वङ् नागरं मांसी चित्रको देवदारु च ॥ (१३१।२)
dārvītvaṅ nāgaraṃ māṃsī citrako devadāru ca ||
चाङ्गेरीस्वरसे सर्पिः साधितं तैस् त्रिदोषजित् । (१३२।१)
cāṅgerīsvarase sarpiḥ sādhitaṃ tais tridoṣajit |
मूत्रकृच्छ्रे गुदभ्रंशे वस्त्यानाहे प्रवाहणे । (१३३।१)
mūtrakṛcchre gudabhraṃśe vastyānāhe pravāhaṇe |
पिच्छास्रावे ऽर्शसां शूले देयं तत् परमौषधम् ॥ (१३३।२)
picchāsrāve 'rśasāṃ śūle deyaṃ tat paramauṣadham ||
व्यत्यासान् मधुराम्लानि शीतोष्णानि च योजयेत् । (१३४।१)
vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet |
नित्यम् अग्निबलापेक्षी जयत्यर्शःकृतान् गदान् ॥ (१३४।२)
nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān ||
उदावर्तार्तम् अभ्यज्य तैलैः शीतज्वरापहैः । (१३५।१)
udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ |
सुस्निग्धैः स्वेदयेत् पिण्डैर् वर्तिम् अस्मै गुदे ततः ॥ (१३५।२)
susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ ||
अभ्यक्तां तत्कराङ्गुष्ठसंनिभाम् अनुलोमनीम् । (१३६।१)
abhyaktāṃ tatkarāṅguṣṭhasaṃnibhām anulomanīm |
दद्याच्छ्यामात्रिवृद्दन्तीपिप्पलीनीलिनीफलैः ॥ (१३६।२)
dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ ||
विचूर्णितैर् द्विलवणैर् गुडगोमूत्रसंयुतैः । (१३७।१)
vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ |
तद्वन् मागधिकाराठगृहधूमैः ससर्षपैः ॥ (१३७।२)
tadvan māgadhikārāṭhagṛhadhūmaiḥ sasarṣapaiḥ ||
एतेषाम् एव वा चूर्णं गुदे नाड्या विनिर्धमेत् । (१३८।१)
eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet |
तद्विघाते सुतीक्ष्णं तु वस्तिं स्निग्धं प्रपीडयेत् ॥ (१३८।२)
tadvighāte sutīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet ||
ऋजूकुर्याद् गुदसिराविण्मूत्रमरुतो ऽस्य सः । (१३९।१)
ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ |
भूयो ऽनुबन्धे वातघ्नैर् विरेच्यः स्नेहरेचनैः ॥ (१३९।२)
bhūyo 'nubandhe vātaghnair virecyaḥ sneharecanaiḥ ||
अनुवास्यश्च रौक्ष्याद्धि सङ्गो मारुतवर्चसोः । (१४०।१)
anuvāsyaśca raukṣyāddhi saṅgo mārutavarcasoḥ |
त्रिपटुत्रिकटुश्रेष्ठादन्त्यरुष्करचित्रकम् ॥ (१४०।२)
tripaṭutrikaṭuśreṣṭhādantyaruṣkaracitrakam ||
जर्जरं स्नेहमूत्राक्तम् अन्तर्धूमं विपाचयेत् । (१४१।१)
jarjaraṃ snehamūtrāktam antardhūmaṃ vipācayet |
शरावसंधौ मृल्लिप्ते क्षारः कल्याणकाह्वयः ॥ (१४१।२)
śarāvasaṃdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ ||
स पीतः सर्पिषा युक्तो भक्ते वा स्निग्धभोजिना । (१४२।१)
sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā |
सर्वं च कुर्याद् यत् प्रोक्तम् अर्शसां गाढवर्चसाम् । (१४४।१)
sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām |
द्रोणे ऽपां पूतिवल्कद्वितुलम् अथ पचेत् पादशेषे च तस्मिन् । (१४४।२)
droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin |
देयाशीतिर् गुडस्य प्रतनुकरजसो व्योषतो ऽष्टौ पलानि । (१४४।३)
deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni |
एतन् मासेन जातं जनयति परमाम् ऊष्मणः पक्तिशक्तिं । (१४४।४)
etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ |
शुक्तं कृत्वानुलोम्यं प्रजयति गुदजप्लीहगुल्मोदराणि ॥ (१४४।५)
śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi ||
पचेत् तुलां पूतिकरञ्जवल्काद् द्वे मूलतश्चित्रककण्टकार्योः । (१४५।१)
pacet tulāṃ pūtikarañjavalkād dve mūlataścitrakakaṇṭakāryoḥ |
द्रोणत्रये ऽपि चरणावशेषे पूते शतं तत्र गुडस्य दद्यात् ॥ (१४५।२)
droṇatraye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt ||
पलिकं च सुचूर्णितं त्रिजातत्रिकटुग्रन्थिकदाडिमाश्मभेदम् । (१४६।१)
palikaṃ ca sucūrṇitaṃ trijātatrikaṭugranthikadāḍimāśmabhedam |
पुरपुष्करमूलधान्यचव्यं हपुषाम् आर्द्रकम् अम्लवेतसं च ॥ (१४६।२)
purapuṣkaramūladhānyacavyaṃ hapuṣām ārdrakam amlavetasaṃ ca ||
शीतीभूतं क्षौद्रविंशत्युपेतम् आर्द्रद्राक्षाबीजपूरार्द्रकैश्च । (१४७।१)
śītībhūtaṃ kṣaudraviṃśatyupetam ārdradrākṣābījapūrārdrakaiśca |
युक्तं कामं गण्डिकाभिस् तथेक्षोः सर्पिःपात्रे मासमात्रेण जातम् ॥ (१४७।२)
yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam ||
चुक्रं क्रकचम् इवेदं दुर्नाम्नां वह्निदीपनं परमम् । (१४८।१)
cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam |
पाण्डुगरोदरगुल्मप्लीहानाहाश्मकृच्छ्रघ्नम् ॥ (१४८।२)
pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam ||
रेज़ेप्त्द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने । (१४९।१)
Rezeptdroṇaṃ pīlurasasya vastragalitaṃ nyastaṃ havirbhājane |
युञ्जीत द्विपलैर् मदामधुफलाखर्जूरधात्रीफलैः । (१४९।२)
yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ |
स्पृक्काकोललवङ्गवेल्लचपलामूलाग्निकैः पालिकैः ॥ (१४९।४)
spṛkkākolalavaṅgavellacapalāmūlāgnikaiḥ pālikaiḥ ||
गुडपलशतयोजितं निवाते निहितम् इदं प्रपिबंश्च पक्षमात्रात् । (१५०।१)
guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt |
निशमयति गुदाङ्कुरान् सगुल्मान् अनलबलं प्रबलं करोति चाशु ॥ (१५०।२)
niśamayati gudāṅkurān sagulmān analabalaṃ prabalaṃ karoti cāśu ||
एकैकशो दशपले दशमूलकुम्भपाठाद्वयार्कघुणवल्लभकट्फलानाम् । (१५१।१)
ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām |
दग्धे स्रुते ऽनु कलशेन जलेन पक्वे पादस्थिते गुडतुलां पलपञ्चकं च ॥ (१५१।२)
dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca ||
दद्यात् प्रत्येकं व्योषचव्याभयानां वह्नेर् मुष्टी द्वे यवक्षारतश्च । (१५२।१)
dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca |
दर्वीम् आलिम्पन् हन्ति लीढो गुडो ऽयं गुल्मप्लीहार्शःकुष्ठमेहाग्निसादान् ॥ (१५२।२)
darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān ||
तोयद्रोणे चित्रकमूलतुलार्धं साध्यं यावत् पाददलस्थम् अथेदम् । (१५३।१)
toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam |
अष्टौ दत्त्वा जीर्णगुडस्य पलानि क्वाथ्यं भूयः सान्द्रतया समम् एतत् ॥ (१५३।२)
aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat ||
त्रिकटुकमिशिपथ्याकुष्ठमुस्तावराङ्गकृमिरिपुदहनैलाचूर्णकीर्णो ऽवलेहः । (१५४।१)
trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ |
जयति गुदजकुष्ठप्लीहगुल्मोदराणि प्रबलयति हुताशं शश्वद् अभ्यस्यमानः ॥ (१५४।२)
jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ ||
रेज़ेप्त्गुडव्योषवरावेल्लतिलारुष्करचित्रकैः । (१५५।१)
Rezeptguḍavyoṣavarāvellatilāruṣkaracitrakaiḥ |
अर्शांसि हन्ति गुटिका त्वग्विकारं च शीलिता ॥ (१५५।२)
arśāṃsi hanti guṭikā tvagvikāraṃ ca śīlitā ||
मृल्लिप्तं सौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् । (१५६।१)
mṛlliptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭapākavat |
मरिचपिप्पलिनागरचित्रकान् क्रमविवर्धितभागसमाहृतान् । (१५७।१)
maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān |
शिखिचतुर्गुणसूरणयोजितान् कुरु गुडेन गुडान् गुदजच्छिदः ॥ (१५७।२)
śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ ||
चूर्णीकृताः षोडश सूरणस्य भागास् ततो ऽर्धेन च चित्रकस्य । (१५८।१)
cūrṇīkṛtāḥ ṣoḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya |
महौषधाद् द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी ॥ (१५८।२)
mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī ||
पथ्यानागरकृष्णाकरञ्जवेल्लाग्निभिः सितातुल्यैः । (१५९।१)
pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ |
वडबामुख इव जरयति बहुगुर्वपि भोजनं चूर्णः ॥ (१५९।२)
vaḍabāmukha iva jarayati bahugurvapi bhojanaṃ cūrṇaḥ ||
कलिङ्गलाङ्गलीकृष्णावह्न्यपामार्गतण्डुलैः । (१६०।१)
kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ |
भूनिम्बसैन्धवगुडैर् गुडा गुदजनाशनाः ॥ (१६०।२)
bhūnimbasaindhavaguḍair guḍā gudajanāśanāḥ ||
लवणोत्तमवह्निकलिङ्गयवांश्चिरिबिल्वमहापिचुमन्दयुतान् । (१६१।१)
lavaṇottamavahnikaliṅgayavāṃściribilvamahāpicumandayutān |
पिब सप्तदिनं मथितालुडितान् यदि मर्दितुम् इच्छसि पायुरुहान् ॥ (१६१।२)
piba saptadinaṃ mathitāluḍitān yadi marditum icchasi pāyuruhān ||
शुष्केषु भल्लातकम् अग्र्यम् उक्तं भैषज्यम् आर्द्रेषु तु वत्सकत्वक् । (१६२।१)
śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak |
सर्वेषु सर्वर्तुषु कालशेयम् अर्शःसु बल्यं च मलापहं च ॥ (१६२।२)
sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca ||
भित्त्वा विबन्धान् अनुलोमनाय यन् मारुतस्याग्निबलाय यच्च । (१६३।१)
bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca |
तद् अन्नपानौषधम् अर्शसेन सेव्यं विवर्ज्यं विपरीतम् अस्मात् ॥ (१६३।२)
tad annapānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt ||
अर्शोऽतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः । (१६४।१)
arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ |
सन्ने ऽनले सन्ति न सन्ति दीप्ते रक्षेद् अतस् तेषु विशेषतो ऽग्निम् ॥ (१६४।२)
sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim ||
Data courtesy of The Digital Corpus of Sanskrit.