अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 4, 12

64 of 120 · 89 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः प्रमेहचिकित्सितं व्याख्यास्यामः । (१।१)

athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

मेहिनो बलिनः कुर्याद् आदौ वमनरेचने । (१।३)

mehino balinaḥ kuryād ādau vamanarecane |

1.4१.४

स्निग्धस्य सर्षपारिष्टनिकुम्भाक्षकरञ्जजैः ॥ (१।४)

snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ ||

2.1२.१

तैलैस् त्रिकण्टकाद्येन यथास्वं साधितेन वा । (२।१)

tailais trikaṇṭakādyena yathāsvaṃ sādhitena vā |

2.2२.२

स्नेहेन मुस्तदेवाह्वनागरप्रतिवापवत् ॥ (२।२)

snehena mustadevāhvanāgaraprativāpavat ||

3.1३.१

सुरसादिकषायेण दद्याद् आस्थापनं ततः । (३।१)

surasādikaṣāyeṇa dadyād āsthāpanaṃ tataḥ |

3.2३.२

न्यग्रोधादेस् तु पित्तार्तं रसैः शुद्धं च तर्पयेत् ॥ (३।२)

nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet ||

4.1४.१

मूत्रग्रहरुजागुल्मक्षयाद्यास् त्वपतर्पणात् । (४।१)

mūtragraharujāgulmakṣayādyās tvapatarpaṇāt |

4.2४.२

ततो ऽनुबन्धरक्षार्थं शमनानि प्रयोजयेत् ॥ (४।२)

tato 'nubandharakṣārthaṃ śamanāni prayojayet ||

5.1५.१

असंशोध्यस्य तान्येव सर्वमेहेषु पाययेत् । (५।१)

asaṃśodhyasya tānyeva sarvameheṣu pāyayet |

5.2५.२

धात्रीरसप्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम् ॥ (५।२)

dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām ||

6.1६.१

दार्वीसुराह्वत्रिफलामुस्ता वा क्वथिता जले । (६।१)

dārvīsurāhvatriphalāmustā vā kvathitā jale |

6.2६.२

चित्रकत्रिफलादार्वीकलिङ्गान् वा समाक्षिकान् ॥ (६।२)

citrakatriphalādārvīkaliṅgān vā samākṣikān ||

7.1७.१

मधुयुक्तं गुडूच्या वा रसम् आमलकस्य वा । (७।१)

madhuyuktaṃ guḍūcyā vā rasam āmalakasya vā |

7.2७.२

लोध्राभयातोयदकट्फलानां पाठाविडङ्गार्जुनधन्वनानाम् । (७।२)

lodhrābhayātoyadakaṭphalānāṃ pāṭhāviḍaṅgārjunadhanvanānām |

7.3७.३

गायत्रिदार्वीकृमिहृद्धवानां कफे त्रयः क्षौद्रयुताः कषायाः ॥ (७।३)

gāyatridārvīkṛmihṛddhavānāṃ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ ||

8.1८.१

उशीरलोध्रार्जुनचन्दनानां पटोलनिम्बामलकामृतानाम् । (८।१)

uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām |

8.2८.२

लोध्राम्बुकालीयकधातकीनां पित्ते त्रयः क्षौद्रयुताः कषायाः ॥ (८।२)

lodhrāmbukālīyakadhātakīnāṃ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ ||

9.1९.१

यथास्वम् एभिः पानान्नं यवगोधूमभावनाः ॥ (९।१)

yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ ||

10.1१०.१

वातोल्बणेषु स्नेहांश्च प्रमेहेषु प्रकल्पयेत् । (१०।१)

vātolbaṇeṣu snehāṃśca prameheṣu prakalpayet |

10.2१०.२

अपूपसक्तुवाट्यादिर् यवानां विकृतिर् हिता ॥ (१०।२)

apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā ||

11.1११.१

गजाश्वगुदमुक्तानाम् अथवा वेणुजन्मनाम् । (११।१)

gajāśvagudamuktānām athavā veṇujanmanām |

11.2११.२

तृणधान्यानि मुद्गाद्याः शालिर् जीर्णः सषष्टिकः ॥ (११।२)

tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ ||

12.1१२.१

श्रीकुक्कुटो ऽम्लः खलकस् तिलसर्षपकिट्टजः । (१२।१)

śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ |

12.2१२.२

कपित्थं तिन्दुकं जम्बूस् तत्कृता रागषाडवाः ॥ (१२।२)

kapitthaṃ tindukaṃ jambūs tatkṛtā rāgaṣāḍavāḥ ||

13.1१३.१

तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः ससक्तवः । (१३।१)

tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ |

13.2१३.२

धन्वमांसानि शूल्यानि परिशुष्काण्ययस्कृतिः ॥ (१३।२)

dhanvamāṃsāni śūlyāni pariśuṣkāṇyayaskṛtiḥ ||

14.1१४.१

मध्वरिष्टासवा जीर्णाः सीधुः पक्वरसोद्भवः । (१४।१)

madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ |

14.2१४.२

तथासनादिसाराम्बु दर्भाम्भो माक्षिकोदकम् ॥ (१४।२)

tathāsanādisārāmbu darbhāmbho mākṣikodakam ||

15.1१५.१

वासितेषु वराक्वाथे शर्वरीं शोषितेष्वहः । (१५।१)

vāsiteṣu varākvāthe śarvarīṃ śoṣiteṣvahaḥ |

15.2१५.२

यवेषु सुकृतान् सक्तून् सक्षौद्रान् सीधुना पिबेत् ॥ (१५।२)

yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet ||

16.1१६.१

शालसप्ताह्वकम्पिल्लवृक्षकाक्षकपित्थजम् । (१६।१)

śālasaptāhvakampillavṛkṣakākṣakapitthajam |

16.2१६.२

रोहीतकं च कुसुमं मधुनाद्यात् सुचूर्णितम् ॥ (१६।२)

rohītakaṃ ca kusumaṃ madhunādyāt sucūrṇitam ||

17.1१७.१

कफपित्तप्रमेहेषु पिबेद्धात्रीरसेन वा । (१७।१)

kaphapittaprameheṣu pibeddhātrīrasena vā |

17.2१७.२

त्रिकण्टकनिशालोध्रसोमवल्कवचार्जुनैः ॥ (१७।२)

trikaṇṭakaniśālodhrasomavalkavacārjunaiḥ ||

18.1१८.१

पद्मकाश्मन्तकारिष्टचन्दनागुरुदीप्यकैः । (१८।१)

padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ |

18.2१८.२

पटोलमुस्तमञ्जिष्ठामाद्रीभल्लातकैः पचेत् ॥ (१८।२)

paṭolamustamañjiṣṭhāmādrībhallātakaiḥ pacet ||

19.1१९.१

तैलं वातकफे पित्ते घृतं मिश्रेषु मिश्रकम् । (१९।१)

tailaṃ vātakaphe pitte ghṛtaṃ miśreṣu miśrakam |

19.2१९.२

दशमूलशठीदन्तीसुराह्वं द्विपुनर्नवम् ॥ (१९।२)

daśamūlaśaṭhīdantīsurāhvaṃ dvipunarnavam ||

20.1२०.१

मूलं स्नुगर्कयोः पथ्यां भूकदम्बम् अरुष्करम् । (२०।१)

mūlaṃ snugarkayoḥ pathyāṃ bhūkadambam aruṣkaram |

20.2२०.२

करञ्जौ वरुणान् मूलं पिप्पल्याः पौष्करं च यत् ॥ (२०।२)

karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat ||

21.1२१.१

पृथग् दशपलं प्रस्थान् यवकोलकुलत्थतः । (२१।१)

pṛthag daśapalaṃ prasthān yavakolakulatthataḥ |

21.2२१.२

त्रींश्चाष्टगुणिते तोये विपचेत् पादवर्तिना ॥ (२१।२)

trīṃścāṣṭaguṇite toye vipacet pādavartinā ||

22.1२२.१

तेन द्विपिप्पलीचव्यवचानिचुलरोहिषैः । (२२।१)

tena dvipippalīcavyavacānicularohiṣaiḥ |

22.2२२.२

त्रिवृद्विडङ्गकम्पिल्लभार्गीविश्वैश्च साधयेत् ॥ (२२।२)

trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet ||

23.1२३.१

प्रस्थं घृताज् जयेत् सर्वांस् तन् मेहान् पिटिका विषम् । (२३।१)

prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam |

23.2२३.२

पाण्डुविद्रधिगुल्मार्शःशोषशोफगरोदरम् ॥ (२३।२)

pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram ||

24.1२४.१

श्वासं कासं वमिं वृद्धिं प्लीहानं वातशोणितम् । (२४।१)

śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vātaśoṇitam |

24.2२४.२

कुष्ठोन्मादावपस्मारं धान्वन्तरम् इदं घृतम् ॥ (२४।२)

kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam ||

25.1२५.१

लोध्रमूर्वाशठीवेल्लभार्गीनतनखप्लवान् । (२५।१)

lodhramūrvāśaṭhīvellabhārgīnatanakhaplavān |

25.2२५.२

कलिङ्गकुष्ठक्रमुकप्रियङ्ग्वतिविषाग्निकान् ॥ (२५।२)

kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān ||

26.1२६.१

द्वे विशाले चतुर्जातं भूनिम्बं कटुरोहिणीम् । (२६।१)

dve viśāle caturjātaṃ bhūnimbaṃ kaṭurohiṇīm |

26.2२६.२

यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फलत्रयम् ॥ (२६।२)

yavānīṃ pauṣkaraṃ pāṭhāṃ granthiṃ cavyaṃ phalatrayam ||

27.1२७.१

कर्षांशम् अम्बुकलशे पादशेषे स्रुते हिमे । (२७।१)

karṣāṃśam ambukalaśe pādaśeṣe srute hime |

27.2२७.२

द्वौ प्रस्थौ माक्षिकात् क्षिप्त्वा रक्षेत् पक्षम् उपेक्षया ॥ (२७।२)

dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā ||

28.1२८.१

लोध्रासवो ऽयं मेहार्शःश्वित्रकुष्ठारुचिकृमीन् । (२८।१)

lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn |

28.2२८.२

पाण्डुत्वं ग्रहणीदोषं स्थूलतां च नियच्छति ॥ (२८।२)

pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati ||

29.1२९.१

साधयेद् असनादीनां पलानां विंशतिं पृथक् । (२९।१)

sādhayed asanādīnāṃ palānāṃ viṃśatiṃ pṛthak |

29.2२९.२

द्विवहे ऽपां क्षिपेत् तत्र पादस्थे द्वे शते गुडात् ॥ (२९।२)

dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt ||

30.1३०.१

क्षौद्राढकार्धं पलिकं वत्सकादिं च कल्कितम् । (३०।१)

kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam |

30.2३०.२

तत् क्षौद्रपिप्पलीचूर्णप्रदिग्धे घृतभाजने ॥ (३०।२)

tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane ||

31.1३१.१

स्थितं दृढे जतुसृते यवराशौ निधापयेत् । (३१।१)

sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet |

31.2३१.२

खदिराङ्गारतप्तानि बहुशो ऽत्र निमज्जयेत् ॥ (३१।२)

khadirāṅgārataptāni bahuśo 'tra nimajjayet ||

32.1३२.१

तनूनि तीक्ष्णलोहस्य पत्त्राण्य् आ लोहसंक्षयात् । (३२।१)

tanūni tīkṣṇalohasya pattrāṇy ā lohasaṃkṣayāt |

32.2३२.२

अयस्कृतिः स्थिता पीता पूर्वस्माद् अधिका गुणैः ॥ (३२।२)

ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ ||

33.1३३.१

रूक्षम् उद्वर्तनं गाढं व्यायामो निशि जागरः । (३३।१)

rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ |

33.2३३.२

यच्चान्यच्छ्लेष्ममेदोघ्नं बहिरन्तश्च तद्धितम् ॥ (३३।२)

yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam ||

34.1३४.१

सुभावितां सारजलैस् तुलां पीत्वा शिलोद्भवात् । (३४।१)

subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt |

34.2३४.२

साराम्बुनैव भुञ्जानः शालीञ् जाङ्गलजै रसैः ॥ (३४।२)

sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ ||

35.1३५.१

सर्वान् अभिभवेन् मेहान् सुबहूपद्रवान् अपि । (३५।१)

sarvān abhibhaven mehān subahūpadravān api |

35.2३५.२

गण्डमालार्बुदग्रन्थिस्थौल्यकुष्ठभगन्दरान् ॥ (३५।२)

gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān ||

36.1३६.१

कृमिश्लीपदशोफांश्च परं चैतद् रसायनम् । (३६।१)

kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam |

36.2३६.२

अधनश्छत्त्रपादत्ररहितो मुनिवर्तनः ॥ (३६।२)

adhanaśchattrapādatrarahito munivartanaḥ ||

37.1३७.१

योजनानां शतं यायात् खनेद् वा सलिलाशयान् । (३७।१)

yojanānāṃ śataṃ yāyāt khaned vā salilāśayān |

37.2३७.२

गोशकृन्मूत्रवृत्तिर् वा गोभिरेव सह भ्रमेत् ॥ (३७।२)

gośakṛnmūtravṛttir vā gobhireva saha bhramet ||

38.1३८.१

बृंहयेद् औषधाहारैर् अमेदोमूत्रलैः कृशम् । (३८।१)

bṛṃhayed auṣadhāhārair amedomūtralaiḥ kṛśam |

38.2३८.२

शराविकाद्याः पिटिकाः शोफवत् समुपाचरेत् ॥ (३८।२)

śarāvikādyāḥ piṭikāḥ śophavat samupācaret ||

39.1३९.१

अपक्वा व्रणवत् पक्वास् तासां प्राग्रूपम् एव च । (३९।१)

apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca |

39.2३९.२

क्षीरिवृक्षाम्बु पानाय बस्तमूत्रं च शस्यते ॥ (३९।२)

kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate ||

40.1४०.१

तीक्ष्णं च शोधनं प्रायो दुर्विरेच्या हि मेहिनः । (४०।१)

tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ |

40.2४०.२

तैलम् एलादिना कुर्याद् गणेन व्रणरोपणम् ॥ (४०।२)

tailam elādinā kuryād gaṇena vraṇaropaṇam ||

41.1४१.१

उद्वर्तने कषायं तु वर्गेणारग्वधादिना । (४१।१)

udvartane kaṣāyaṃ tu vargeṇāragvadhādinā |

41.2४१.२

परिषेको ऽसनाद्येन पानान्ने वत्सकादिना ॥ (४१।२)

pariṣeko 'sanādyena pānānne vatsakādinā ||

42.1४२.१

पाठाचित्रकशार्ङ्गष्टाशारिवाकण्टकारिकाः । (४२।१)

pāṭhācitrakaśārṅgaṣṭāśārivākaṇṭakārikāḥ |

42.2४२.२

सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम् ॥ (४२।२)

saptāhvaṃ kauṭajaṃ mūlaṃ somavalkaṃ nṛpadrumam ||

43.1४३.१

संचूर्ण्य मधुना लिह्यात् तद्वच्चूर्णं नवायसम् । (४३।१)

saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam |

43.2४३.२

मधुमेहित्वम् आपन्नो भिषग्भिः परिवर्जितः । (४३।२)

madhumehitvam āpanno bhiṣagbhiḥ parivarjitaḥ |

43.3४३.३

शिलाजतुतुलाम् अद्यात् प्रमेहार्तः पुनर्नवः ॥ (४३।३)

śilājatutulām adyāt pramehārtaḥ punarnavaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 4, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit