अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 11

91 of 120 · 119 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः सन्धिसितासितरोगप्रतिषेधं व्याख्यास्यामः । (१।१)

athātaḥ sandhisitāsitarogapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

उपनाहं भिषक् स्विन्नं भिन्नं व्रीहिमुखेन च । (१।३)

upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhimukhena ca |

1.4१.४

लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत् ॥ (१।४)

lekhayenmaṇḍalāgreṇa tataśca pratisārayet ||

2.1२.१

पिप्पलीक्षौद्रसिन्धूत्थैर् बध्नीयात् पूर्ववत् ततः । (२।१)

pippalīkṣaudrasindhūtthair badhnīyāt pūrvavat tataḥ |

2.2२.२

पटोलपत्त्रामलकक्वाथेनाश्चोतयेच्च तम् ॥ (२।२)

paṭolapattrāmalakakvāthenāścotayecca tam ||

3.1३.१

पर्वणी बडिशेनात्ता बाह्यसंधित्रिभागतः । (३।१)

parvaṇī baḍiśenāttā bāhyasaṃdhitribhāgataḥ |

3.2३.२

वृद्धिपत्त्रेण वर्ध्यार्धे स्याद् अश्रुगतिरन्यथा ॥ (३।२)

vṛddhipattreṇa vardhyārdhe syād aśrugatiranyathā ||

4.1४.१

चिकित्सा चार्मवत् क्षौद्रसैन्धवप्रतिसारिता । (४।१)

cikitsā cārmavat kṣaudrasaindhavapratisāritā |

4.2४.२

पूयालसे सिरां विध्येत् ततस् तम् उपनाहयेत् ॥ (४।२)

pūyālase sirāṃ vidhyet tatas tam upanāhayet ||

5.1५.१

कुर्वीत चाक्षिपाकोक्तं सर्वं कर्म यथाविधि । (५।१)

kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi |

5.2५.२

सैन्धवार्द्रककासीसलोहताम्रैः सुचूर्णितैः ॥ (५।२)

saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ ||

6.1६.१

चूर्णाञ्जनं प्रयुञ्जीत सक्षौद्रैर् वा रसक्रियाम् । (६।१)

cūrṇāñjanaṃ prayuñjīta sakṣaudrair vā rasakriyām |

6.2६.२

कृमिग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च ॥ (६।२)

kṛmigranthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca ||

7.1७.१

त्रिफलाक्षौद्रकासीससैन्धवैः प्रतिसारयेत् । (७।१)

triphalākṣaudrakāsīsasaindhavaiḥ pratisārayet |

7.2७.२

पित्ताभिष्यन्दवच्छुक्तिं बलासाह्वयपिष्टके ॥ (७।२)

pittābhiṣyandavacchuktiṃ balāsāhvayapiṣṭake ||

8.1८.१

कफाभिष्यन्दवन् मुक्त्वा सिराव्यधम् उपाचरेत् । (८।१)

kaphābhiṣyandavan muktvā sirāvyadham upācaret |

8.2८.२

बीजपूररसाक्तं च व्योषकट्फलम् अञ्जनम् ॥ (८।२)

bījapūrarasāktaṃ ca vyoṣakaṭphalam añjanam ||

9.1९.१

जातीमुकुलसिन्धूत्थदेवदारुमहौषधैः । (९।१)

jātīmukulasindhūtthadevadārumahauṣadhaiḥ |

9.2९.२

पिष्टैः प्रसन्नया वर्तिः शोफकण्डूघ्नम् अञ्जनम् ॥ (९।२)

piṣṭaiḥ prasannayā vartiḥ śophakaṇḍūghnam añjanam ||

10.1१०.१

रक्तस्यन्दवद् उत्पातहर्षजालार्जुनक्रिया । (१०।१)

raktasyandavad utpātaharṣajālārjunakriyā |

10.2१०.२

सिरोत्पाते विशेषेण घृतमाक्षिकम् अञ्जनम् ॥ (१०।२)

sirotpāte viśeṣeṇa ghṛtamākṣikam añjanam ||

11.1११.१

सिराहर्षे तु मधुना श्लक्ष्णघृष्टं रसाञ्जनम् । (११।१)

sirāharṣe tu madhunā ślakṣṇaghṛṣṭaṃ rasāñjanam |

11.2११.२

अर्जुने शर्करामस्तुक्षौद्रैराश्च्योतनं हितम् ॥ (११।२)

arjune śarkarāmastukṣaudrairāścyotanaṃ hitam ||

12.1१२.१

स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाञ्जनम् । (१२।१)

sphaṭikaḥ kuṅkumaṃ śaṅkho madhukaṃ madhunāñjanam |

12.2१२.२

मधुना चाञ्जनं शङ्खः फेनो वा सितया सह ॥ (१२।२)

madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha ||

13.1१३.१

अर्मोक्तं पञ्चधा तत्र तनु धूमाविलं च यत् । (१३।१)

armoktaṃ pañcadhā tatra tanu dhūmāvilaṃ ca yat |

13.2१३.२

रक्तं दधिनिभं यच्च शुक्रवत् तस्य भेषजम् ॥ (१३।२)

raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam ||

14.1१४.१

उत्तानस्येतरत् स्विन्नं ससिन्धूत्थेन चाञ्जितम् । (१४।१)

uttānasyetarat svinnaṃ sasindhūtthena cāñjitam |

14.2१४.२

रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥ (१४।२)

rasena bījapūrasya nimīlyākṣi vimardayet ||

15.1१५.१

इत्थं संरोषिताक्षस्य प्रचले ऽर्माधिमांसके । (१५।१)

itthaṃ saṃroṣitākṣasya pracale 'rmādhimāṃsake |

15.2१५.२

घृतस्य निश्चलं मूर्ध्नि वर्त्मनोश्च विशेषतः ॥ (१५।२)

ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ ||

16.1१६.१

अपाङ्गम् ईक्षमाणस्य वृद्धे ऽर्मणि कनीनकात् । (१६।१)

apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt |

16.2१६.२

वली स्याद् यत्र तत्रार्म बडिशेनावलम्बितम् ॥ (१६।२)

valī syād yatra tatrārma baḍiśenāvalambitam ||

17.1१७.१

नात्यायतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः । (१७।१)

nātyāyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ |

17.2१७.२

समन्तान् मण्डलाग्रेण मोचयेद् अथ मोक्षितम् ॥ (१७।२)

samantān maṇḍalāgreṇa mocayed atha mokṣitam ||

18.1१८.१

कनीनकम् उपानीय चतुर्भागावशेषितम् । (१८।१)

kanīnakam upānīya caturbhāgāvaśeṣitam |

18.2१८.२

छिन्द्यात् कनीनकं रक्षेद् वाहिनीश्चाश्रुवाहिनीः ॥ (१८।२)

chindyāt kanīnakaṃ rakṣed vāhinīścāśruvāhinīḥ ||

19.1१९.१

कनीनकव्यधाद् अश्रु नाडी चाक्ष्णि प्रवर्तते । (१९।१)

kanīnakavyadhād aśru nāḍī cākṣṇi pravartate |

19.2१९.२

वृद्धे ऽर्मणि तथापाङ्गात् पश्यतो ऽस्य कनीनकम् ॥ (१९।२)

vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam ||

20.1२०.१

सम्यक्छिन्नं मधुव्योषसैन्धवप्रतिसारितम् । (२०।१)

samyakchinnaṃ madhuvyoṣasaindhavapratisāritam |

20.2२०.२

उष्णेन सर्पिषा सिक्तम् अभ्यक्तं मधुसर्पिषा ॥ (२०।२)

uṣṇena sarpiṣā siktam abhyaktaṃ madhusarpiṣā ||

21.1२१.१

बध्नीयात् सेचयेन् मुक्त्वा तृतीयादिदिनेषु च । (२१।१)

badhnīyāt secayen muktvā tṛtīyādidineṣu ca |

21.2२१.२

करञ्जबीजसिद्धेन क्षीरेण क्वथितैस् तथा ॥ (२१।२)

karañjabījasiddhena kṣīreṇa kvathitais tathā ||

22.1२२.१

सक्षौद्रैर् द्विनिशालोध्रपटोलीयष्टिकिंशुकैः । (२२।१)

sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ |

22.2२२.२

कुरण्टमुकुलोपेतैर् मुञ्चेद् एवाह्नि सप्तमे ॥ (२२।२)

kuraṇṭamukulopetair muñced evāhni saptame ||

23.1२३.१

सम्यक्छिन्ने भवेत् स्वास्थ्यं हीनातिच्छेदजान् गदान् । (२३।१)

samyakchinne bhavet svāsthyaṃ hīnāticchedajān gadān |

23.2२३.२

सेकाञ्जनप्रभृतिभिर् जयेल्लेखनबृंहणैः ॥ (२३।२)

sekāñjanaprabhṛtibhir jayellekhanabṛṃhaṇaiḥ ||

24.1२४.१

सितामनःशिलैलेयलवणोत्तमनागरम् । (२४।१)

sitāmanaḥśilaileyalavaṇottamanāgaram |

24.2२४.२

अर्धकर्षोन्मितं तार्क्ष्यं पलार्धं च मधुद्रुतम् ॥ (२४।२)

ardhakarṣonmitaṃ tārkṣyaṃ palārdhaṃ ca madhudrutam ||

25.1२५.१

अञ्जनं श्लेष्मतिमिरपिल्लशुक्रार्मशोषजित् । (२५।१)

añjanaṃ śleṣmatimirapillaśukrārmaśoṣajit |

25.2२५.२

त्रिफलैकतमद्रव्यत्वचं पानीयकल्किताम् ॥ (२५।२)

triphalaikatamadravyatvacaṃ pānīyakalkitām ||

26.1२६.१

शरावपिहितां दग्ध्वा कपाले चूर्णयेत् ततः । (२६।१)

śarāvapihitāṃ dagdhvā kapāle cūrṇayet tataḥ |

26.2२६.२

पृथक्शेषौषधरसैः पृथग् एव च भाविता ॥ (२६।२)

pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā ||

27.1२७.१

सा मषी शोषिता पेष्या भूयो द्विलवणान्विता । (२७।१)

sā maṣī śoṣitā peṣyā bhūyo dvilavaṇānvitā |

27.2२७.२

त्रीण्येतान्यञ्जनान्याह लेखनानि परं निमिः ॥ (२७।२)

trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ ||

28.1२८.१

सिराजाले सिरा यास् तु कठिना लेखनौषधैः । (२८।१)

sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ |

28.2२८.२

न सिध्यन्त्यर्मवत् तासां पिटिकानां च साधनम् ॥ (२८।२)

na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam ||

29.1२९.१

दोषानुरोधाच्छुक्रेषु स्निग्धरूक्षा वरा घृतम् । (२९।१)

doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam |

29.2२९.२

तिक्तम् ऊर्ध्वम् असृक्स्रावो रेकसेकादि चेष्यते ॥ (२९।२)

tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate ||

30.1३०.१

त्रिस् त्रिवृद्वारिणा पक्वं क्षतशुक्रे घृतं पिबेत् । (३०।१)

tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet |

30.2३०.२

सिरयानु हरेद् रक्तं जलौकोभिश्च लोचनात् ॥ (३०।२)

sirayānu hared raktaṃ jalaukobhiśca locanāt ||

31.1३१.१

सिद्धेनोत्पलकाकोलीद्राक्षायष्टीविदारिभिः । (३१।१)

siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ |

31.2३१.२

ससितेनाजपयसा सेचनं सलिलेन वा ॥ (३१।२)

sasitenājapayasā secanaṃ salilena vā ||

32.1३२.१

रागाश्रुवेदनाशान्तौ परं लेखनम् अञ्जनम् । (३२।१)

rāgāśruvedanāśāntau paraṃ lekhanam añjanam |

32.2३२.२

वर्तयो जातिमुकुललाक्षागैरिकचन्दनैः ॥ (३२।२)

vartayo jātimukulalākṣāgairikacandanaiḥ ||

33.1३३.१

प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षतशुक्रकम् । (३३।१)

prasādayanti pittāsraṃ ghnanti ca kṣataśukrakam |

33.2३३.२

दन्तैर् दन्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः ॥ (३३।२)

dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ ||

34.1३४.१

सशङ्खमौक्तिकाम्भोधिफेनैर् मरिचपादिकैः । (३४।१)

saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ |

34.2३४.२

क्षतशुक्रम् अपि व्यापि दन्तवर्तिर् निवर्तयेत् ॥ (३४।२)

kṣataśukram api vyāpi dantavartir nivartayet ||

35.1३५.१

तमालपत्त्रं गोदन्तशङ्खफेनो ऽस्थि गार्दभम् । (३५।१)

tamālapattraṃ godantaśaṅkhapheno 'sthi gārdabham |

35.2३५.२

ताम्रं च वर्तिर् मूत्रेण सर्वशुक्रकनाशिनी ॥ (३५।२)

tāmraṃ ca vartir mūtreṇa sarvaśukrakanāśinī ||

36.1३६.१

रत्नानि दन्ताः शृङ्गाणि धातवस् त्र्यूषणं त्रुटी । (३६।१)

ratnāni dantāḥ śṛṅgāṇi dhātavas tryūṣaṇaṃ truṭī |

36.2३६.२

करञ्जबीजं लशुनो व्रणसादि च भेषजम् ॥ (३६।२)

karañjabījaṃ laśuno vraṇasādi ca bheṣajam ||

37.1३७.१

सव्रणाव्रणगम्भीरत्वक्स्थशुक्रघ्नम् अञ्जनम् । (३७।१)

savraṇāvraṇagambhīratvaksthaśukraghnam añjanam |

37.2३७.२

निम्नम् उन्नमयेत् स्नेहपाननस्यरसाञ्जनैः ॥ (३७।२)

nimnam unnamayet snehapānanasyarasāñjanaiḥ ||

38.1३८.१

सरुजं नीरुजं तृप्तिपुटपाकेन शुक्रकम् । (३८।१)

sarujaṃ nīrujaṃ tṛptipuṭapākena śukrakam |

38.2३८.२

शुद्धशुक्रे निशायष्टीशारिवाशाबराम्भसा ॥ (३८।२)

śuddhaśukre niśāyaṣṭīśārivāśābarāmbhasā ||

39.1३९.१

सेचनं लोध्रपोटल्या कोष्णाम्भोमग्नयाथवा । (३९।१)

secanaṃ lodhrapoṭalyā koṣṇāmbhomagnayāthavā |

39.2३९.२

बृहतीमूलयष्ट्याह्वताम्रसैन्धवनागरैः ॥ (३९।२)

bṛhatīmūlayaṣṭyāhvatāmrasaindhavanāgaraiḥ ||

40.1४०.१

धात्रीफलाम्बुना पिष्टैर् लेपितं ताम्रभाजनम् । (४०।१)

dhātrīphalāmbunā piṣṭair lepitaṃ tāmrabhājanam |

40.2४०.२

यवाज्यामलकीपत्त्रैर् बहुशो धूपयेत् ततः ॥ (४०।२)

yavājyāmalakīpattrair bahuśo dhūpayet tataḥ ||

41.1४१.१

तत्र कुर्वीत गुटिकास् ता जलक्षौद्रपेषिताः । (४१।१)

tatra kurvīta guṭikās tā jalakṣaudrapeṣitāḥ |

41.2४१.२

महानीला इति ख्याताः शुद्धशुक्रहराः परम् ॥ (४१।२)

mahānīlā iti khyātāḥ śuddhaśukraharāḥ param ||

42.1४२.१

स्थिरे शुक्रे घने चास्य बहुशो ऽपहरेद् असृक् । (४२।१)

sthire śukre ghane cāsya bahuśo 'pahared asṛk |

42.2४२.२

शिरःकायविरेकांश्च पुटपाकांश्च भूरिशः ॥ (४२।२)

śiraḥkāyavirekāṃśca puṭapākāṃśca bhūriśaḥ ||

43.1४३.१

कुर्यान् मरिचवैदेहीशिरीषफलसैन्धवैः । (४३।१)

kuryān maricavaidehīśirīṣaphalasaindhavaiḥ |

43.2४३.२

हर्षणं त्रिफलाक्वाथपीतेन लवणेन वा ॥ (४३।२)

harṣaṇaṃ triphalākvāthapītena lavaṇena vā ||

44.1४४.१

कुर्याद् अञ्जनयोगौ वा श्लोकार्धगदिताविमौ । (४४।१)

kuryād añjanayogau vā ślokārdhagaditāvimau |

44.2४४.२

शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः ॥ (४४।२)

śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ ||

45.1४५.१

सुरादन्तार्णवमलैः शिरीषकुसुमान्वितैः । (४५।१)

surādantārṇavamalaiḥ śirīṣakusumānvitaiḥ |

45.2४५.२

धात्रीफणिज्जकरसे क्षारो लाङ्गलिकोद्भवः ॥ (४५।२)

dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ ||

46.1४६.१

उषितः शोषितश्चूर्णः शुक्रहर्षणम् अञ्जनम् । (४६।१)

uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam |

46.2४६.२

मुद्गा वा निस्तुषाः पिष्टाः शङ्खक्षौद्रसमायुताः ॥ (४६।२)

mudgā vā nistuṣāḥ piṣṭāḥ śaṅkhakṣaudrasamāyutāḥ ||

47.1४७.१

सारो मधूकान्मधुमान् मज्जा वाक्षात् समाक्षिका । (४७।१)

sāro madhūkānmadhumān majjā vākṣāt samākṣikā |

47.2४७.२

गोखराश्वोष्ट्रदशनाः शङ्खः फेनः समुद्रजः ॥ (४७।२)

gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ ||

48.1४८.१

वर्तिरर्जुनतोयेन हृष्टशुक्रकनाशिनी । (४८।१)

vartirarjunatoyena hṛṣṭaśukrakanāśinī |

48.2४८.२

उत्सन्नं वा सशल्यं वा शुक्रं वालादिभिर् लिखेत् ॥ (४८।२)

utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet ||

49.1४९.१

सिराशुक्रे त्वदृष्टिघ्ने चिकित्सा व्रणशुक्रवत् । (४९।१)

sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat |

49.2४९.२

पुण्ड्रयष्ट्याह्वकाकोलीसिंहीलोहनिशाञ्जनम् ॥ (४९।२)

puṇḍrayaṣṭyāhvakākolīsiṃhīlohaniśāñjanam ||

50.1५०.१

कल्कितं छागदुग्धेन सघृतैर् धूपितं यवैः । (५०।१)

kalkitaṃ chāgadugdhena saghṛtair dhūpitaṃ yavaiḥ |

50.2५०.२

धात्रीपत्त्रैश्च पर्यायाद् वर्तिरत्राञ्जनं परम् ॥ (५०।२)

dhātrīpattraiśca paryāyād vartiratrāñjanaṃ param ||

51.1५१.१

अशान्तावर्मवच्छस्त्रम् अजकाख्ये च योजयेत् । (५१।१)

aśāntāvarmavacchastram ajakākhye ca yojayet |

51.2५१.२

अजकायाम् असाध्यायां शुक्रे ऽन्यत्र च तद्विधे ॥ (५१।२)

ajakāyām asādhyāyāṃ śukre 'nyatra ca tadvidhe ||

52.1५२.१

वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः । (५२।१)

vedanopaśamaṃ snehapānāsṛksrāvaṇādibhiḥ |

52.2५२.२

कुर्याद् बीभत्सतां जेतुं शुक्रस्योत्सेधसाधनम् ॥ (५२।२)

kuryād bībhatsatāṃ jetuṃ śukrasyotsedhasādhanam ||

53.1५३.१

नारिकेलास्थिभल्लाततालवंशकरीरजम् । (५३।१)

nārikelāsthibhallātatālavaṃśakarīrajam |

53.2५३.२

भस्माद्भिः स्रावयेत् ताभिर् भावयेत् करभास्थिजम् ॥ (५३।२)

bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthijam ||

54.1५४.१

चूर्णं शुक्रेष्वसाध्येषु तद् वैवर्ण्यघ्नम् अञ्जनम् । (५४।१)

cūrṇaṃ śukreṣvasādhyeṣu tad vaivarṇyaghnam añjanam |

54.2५४.२

साध्येषु साधनायालम् इदम् एव च शीलितम् ॥ (५४।२)

sādhyeṣu sādhanāyālam idam eva ca śīlitam ||

55.1५५.१

अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् । (५५।१)

ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam |

55.2५५.२

समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत् ॥ (५५।२)

samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet ||

56.1५६.१

व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च । (५६।१)

vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca |

56.2५६.२

सप्तरात्राद् व्रणे रूढे कृष्णभागे समे स्थिरे ॥ (५६।२)

saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire ||

57.1५७.१

स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा । (५७।१)

snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā |

57.2५७.२

तथापि पुनराध्माने भेदच्छेदादिकां क्रियाम् । (५७।२)

tathāpi punarādhmāne bhedacchedādikāṃ kriyām |

57.3५७.३

युक्त्या कुर्याद् यथा नातिच्छेदेन स्यात् निमज्जनम् ॥ (५७।३)

yuktyā kuryād yathā nāticchedena syāt nimajjanam ||

58.1५८.१

नित्यं च शुक्रेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात् । (५८।१)

nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt |

58.2५८.२

न हीयते लब्धबला तथान्तस् तीक्ष्णाञ्जनैर् दृक् सततं प्रयुक्तैः ॥ (५८।२)

na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit