अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 13

13 of 120 · 82 verses

Select a line for its word-by-word analysis.

1.1१.१

वात:: त्रेअत्मेन्त्वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु । (१।१)

vāta:: treatmentvātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu |

1.2१.२

स्वाद्वम्ललवणोष्णानि भोज्यान्य् अभ्यङ्गमर्दनम् ॥ (१।२)

svādvamlalavaṇoṣṇāni bhojyāny abhyaṅgamardanam ||

2.1२.१

वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम् । (२।१)

veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭikagauḍikam |

2.2२.२

स्निग्धोष्णा वस्तयो वस्तिनियमः सुखशीलता ॥ (२।२)

snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā ||

3.1३.१

दीपनैः पाचनैः स्निग्धाः स्नेहाश् चानेकयोनयः । (३।१)

dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ |

3.2३.२

विशेषान् मेद्यपिशितरसतैलानुवासनम् ॥ (३।२)

viśeṣān medyapiśitarasatailānuvāsanam ||

4.1४.१

पित्त:: त्रेअत्मेन्त्पित्तस्य सर्पिषः पानं स्वादुशीतैर् विरेचनम् । (४।१)

pitta:: treatmentpittasya sarpiṣaḥ pānaṃ svāduśītair virecanam |

4.2४.२

स्वादुतिक्तकषायाणि भोजनान्य् औषधानि च ॥ (४।२)

svādutiktakaṣāyāṇi bhojanāny auṣadhāni ca ||

5.1५.१

सुगन्धिशीतहृद्यानां गन्धानाम् उपसेवनम् । (५।१)

sugandhiśītahṛdyānāṃ gandhānām upasevanam |

5.2५.२

कण्ठे गुणानां हाराणां मणीनाम् उरसा धृतिः ॥ (५।२)

kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ ||

6.1६.१

कर्पूरचन्दनोशीरैर् अनुलेपः क्षणे क्षणे । (६।१)

karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe |

6.2६.२

प्रदोषश् चन्द्रमाः सौधं हारि गीतं हिमो ऽनिलः ॥ (६।२)

pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ ||

7.1७.१

अयन्त्रणसुखं मित्रं पुत्रः संदिग्धमुग्धवाक् । (७।१)

ayantraṇasukhaṃ mitraṃ putraḥ saṃdigdhamugdhavāk |

7.2७.२

छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः ॥ (७।२)

chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ ||

8.1८.१

शीताम्बुधारागर्भाणि गृहाण्य् उद्यानदीर्घिकाः । (८।१)

śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ |

8.2८.२

सुतीर्थविपुलस्वच्छसलिलाशयसैकते ॥ (८।२)

sutīrthavipulasvacchasalilāśayasaikate ||

9.1९.१

साम्भोजजलतीरान्ते कायमाने द्रुमाकुले । (९।१)

sāmbhojajalatīrānte kāyamāne drumākule |

9.2९.२

सौम्या भावाः पयः सर्पिर् विरेकश् च विशेषतः ॥ (९।२)

saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ ||

10.1१०.१

कफ:: त्रेअत्मेन्त्श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम् । (१०।१)

kapha:: treatmentśleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam |

10.2१०.२

अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् ॥ (१०।२)

annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam ||

11.1११.१

दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः । (११।१)

dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ |

11.2११.२

अनेकरूपो व्यायामश् चिन्ता रूक्षं विमर्दनम् ॥ (११।२)

anekarūpo vyāyāmaś cintā rūkṣaṃ vimardanam ||

12.1१२.१

विशेषाद् वमनं यूषः क्षौद्रं मेदोघ्नम् औषधम् । (१२।१)

viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medoghnam auṣadham |

12.2१२.२

धूमोपवासगण्डूषा निःसुखत्वं सुखाय च ॥ (१२।२)

dhūmopavāsagaṇḍūṣā niḥsukhatvaṃ sukhāya ca ||

13.1१३.१

त्रेअत्मेन्त् अल्सो ड़ोर् संनिपात एत्च्।उपक्रमः पृथग् दोषान् यो ऽयम् उद्दिश्य कीर्तितः । (१३।१)

treatment also for saṃnipāta etc.upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ |

13.2१३.२

संसर्गसंनिपातेषु तं यथास्वं विकल्पयेत् ॥ (१३।२)

saṃsargasaṃnipāteṣu taṃ yathāsvaṃ vikalpayet ||

14.1१४.१

ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते । (१४।१)

graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute |

14.2१४.२

मरुतो योगवाहित्वात् कफपित्ते तु शारदः ॥ (१४।२)

maruto yogavāhitvāt kaphapitte tu śāradaḥ ||

15.1१५.१

चय एव जयेद् दोषं कुपितं त्व् अविरोधयन् । (१५।१)

caya eva jayed doṣaṃ kupitaṃ tv avirodhayan |

15.2१५.२

सर्वकोपे बलीयांसं शेषदोषाविरोधतः ॥ (१५।२)

sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ ||

16.1१६.१

प्रयोगः शमयेद् व्याधिम् एकं यो ऽन्यम् उदीरयेत् । (१६।१)

prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet |

16.2१६.२

नासौ विशुद्धः शुद्धस् तु शमयेद् यो न कोपयेत् ॥ (१६।२)

nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet ||

17.1१७.१

वात:: चौसिन्ग् अ दिसेअसेव्यायामाद् ऊष्मणस् तैक्ष्ण्याद् अहिताचरणाद् अपि । (१७।१)

vāta:: causing a diseasevyāyāmād ūṣmaṇas taikṣṇyād ahitācaraṇād api |

17.2१७.२

कोष्ठाच् छाखास्थिमर्माणि द्रुतत्वान् मारुतस्य च ॥ (१७।२)

koṣṭhāc chākhāsthimarmāṇi drutatvān mārutasya ca ||

18.1१८.१

दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात् । (१८।१)

doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt |

18.2१८.२

वृद्ध्याभिष्यन्दनात् पाकात् कोष्ठं वायोश् च निग्रहात् ॥ (१८।२)

vṛddhyābhiṣyandanāt pākāt koṣṭhaṃ vāyoś ca nigrahāt ||

19.1१९.१

तत्रस्थाश् च विलम्बेरन् भूयो हेतुप्रतीक्षिणः । (१९।१)

tatrasthāś ca vilamberan bhūyo hetupratīkṣiṇaḥ |

19.2१९.२

ते कालादिबलं लब्ध्वा कुप्यन्त्य् अन्याश्रयेष्व् अपि ॥ (१९।२)

te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api ||

20.1२०.१

तत्रान्यस्थानसंस्थेषु तदीयाम् अबलेषु तु । (२०।१)

tatrānyasthānasaṃstheṣu tadīyām abaleṣu tu |

20.2२०.२

कुर्याच् चिकित्सां स्वाम् एव बलेनान्याभिभाविषु ॥ (२०।२)

kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu ||

21.1२१.१

आगन्तुं शमयेद् दोषं स्थानिनं प्रतिकृत्य वा । (२१।१)

āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya vā |

21.2२१.२

प्रायस् तिर्यग्गता दोषाः क्लेशयन्त्य् आतुरांश् चिरम् ॥ (२१।२)

prāyas tiryaggatā doṣāḥ kleśayanty āturāṃś ciram ||

22.1२२.१

कुर्यान् न तेषु त्वरया देहाग्निबलवित् क्रियाम् । (२२।१)

kuryān na teṣu tvarayā dehāgnibalavit kriyām |

22.2२२.२

शमयेत् तान् प्रयोगेण सुखं वा कोष्ठम् आनयेत् ॥ (२२।२)

śamayet tān prayogeṇa sukhaṃ vā koṣṭham ānayet ||

23.1२३.१

ज्ञात्वा कोष्ठप्रपन्नांश् च यथासन्नं विनिर्हरेत् । (२३।१)

jñātvā koṣṭhaprapannāṃś ca yathāsannaṃ vinirharet |

23.2२३.२

स्रोतोरोधबलभ्रंशगौरवानिलमूढताः ॥ (२३।२)

srotorodhabalabhraṃśagauravānilamūḍhatāḥ ||

24.1२४.१

आलस्यापक्तिनिष्ठीवमलसङ्गारुचिक्लमाः । (२४।१)

ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ |

24.2२४.२

लिङ्गं मलानां सामानां निरामाणां विपर्ययः ॥ (२४।२)

liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ ||

25.1२५.१

रस:: आम:: देड़िनितिओनूष्मणो ऽल्पबलत्वेन धातुम् आद्यम् अपाचितम् । (२५।१)

rasa:: āma:: definitionūṣmaṇo 'lpabalatvena dhātum ādyam apācitam |

25.2२५.२

दुष्टम् आमाशयगतं रसम् आमं प्रचक्षते ॥ (२५।२)

duṣṭam āmāśayagataṃ rasam āmaṃ pracakṣate ||

26.1२६.१

अन्ये दोषेभ्य एवातिदुष्टेभ्यो ऽन्योन्यमूर्छनात् । (२६।१)

anye doṣebhya evātiduṣṭebhyo 'nyonyamūrchanāt |

26.2२६.२

कोद्रवेभ्यो विषस्येव वदन्त्य् आमस्य सम्भवम् ॥ (२६।२)

kodravebhyo viṣasyeva vadanty āmasya sambhavam ||

27.1२७.१

दोष:: सामआमेन तेन संपृक्ता दोषा दूष्याश् च दूषिताः । (२७।१)

doṣa:: sāmaāmena tena saṃpṛktā doṣā dūṣyāś ca dūṣitāḥ |

27.2२७.२

सामा इत्य् उपदिश्यन्ते ये च रोगास् तदुद्भवाः ॥ (२७।२)

sāmā ity upadiśyante ye ca rogās tadudbhavāḥ ||

28.1२८.१

सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत् । (२८।१)

sarvadehapravisṛtān sāmān doṣān na nirharet |

28.2२८.२

लीनान् धातुष्व् अनुत्क्लिष्टान् फलाद् आमाद् रसान् इव ॥ (२८।२)

līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva ||

29.1२९.१

आश्रयस्य हि नाशाय ते स्युर् दुर्निर्हरत्वतः । (२९।१)

āśrayasya hi nāśāya te syur durnirharatvataḥ |

29.2२९.२

दोष:: शोधन ओड़् ~पाचनैर् दीपनैः स्नेहैस् तान् स्वेदैश् च परिष्कृतान् ॥ (२९।२)

doṣa:: śodhana of ~pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān ||

30.1३०.१

शोधयेच् छोधनैः काले यथासन्नं यथाबलम् । (३०।१)

śodhayec chodhanaiḥ kāle yathāsannaṃ yathābalam |

30.2३०.२

औड़्नह्मे वोन् मेदिक्। ड़्र् वेर्स्छ्। दोषस्थानस्हन्त्य् आशु युक्तं वक्त्रेण द्रव्यम् आमाशयान् मलान् ॥ (३०।२)

Aufnahme von Medik. fr versch. doṣasthānashanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān ||

31.1३१.१

घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद् गुदेन च । (३१।१)

ghrāṇena cordhvajatrūtthān pakvādhānād gudena ca |

31.2३१.२

उत्क्लिष्टान् अध ऊर्ध्वं वा न चामान् वहतः स्वयम् ॥ (३१।२)

utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam ||

32.1३२.१

धारयेद् औषधैर् दोषान् विधृतास् ते हि रोगदाः । (३२।१)

dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ |

32.2३२.२

प्रवृत्तान् प्राग् अतो दोषान् उपेक्षेत हिताशिनः ॥ (३२।२)

pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ ||

33.1३३.१

विबद्धान् पाचनैस् तैस् तैः पाचयेन् निर्हरेत वा । (३३।१)

vibaddhān pācanais tais taiḥ pācayen nirhareta vā |

33.2३३.२

एxत्रच्तिओन् ओड़् दोष अन्द् सेअसोन्स्श्रावणे कार्त्तिके चैत्रे मासि साधारणे क्रमात् ॥ (३३।२)

extraction of doṣa and seasonsśrāvaṇe kārttike caitre māsi sādhāraṇe kramāt ||

34.1३४.१

ग्रीष्मवर्षाहिमचितान् वाय्वादीन् आशु निर्हरेत् । (३४।१)

grīṣmavarṣāhimacitān vāyvādīn āśu nirharet |

34.2३४.२

अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः ॥ (३४।२)

atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ ||

35.1३५.१

संधौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत् । (३५।१)

saṃdhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet |

35.2३५.२

स्वस्थवृत्तम् अभिप्रेत्य व्याधौ व्याधिवशेन तु ॥ (३५।२)

svasthavṛttam abhipretya vyādhau vyādhivaśena tu ||

36.1३६.१

कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम् । (३६।१)

kṛtvā śītoṣṇavṛṣṭīnāṃ pratīkāraṃ yathāyatham |

36.2३६.२

प्रयोजयेत् क्रियां प्राप्तां क्रियाकालं न हापयेत् ॥ (३६।२)

prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet ||

37.1३७.१

युञ्ज्याद् अनन्नम् अन्नादौ मध्ये ऽन्ते कवलान्तरे । (३७।१)

yuñjyād anannam annādau madhye 'nte kavalāntare |

37.2३७.२

ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम् ॥ (३७।२)

grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadham ||

38.1३८.१

कफोद्रेके गदे ऽनन्नं बलिनो रोगरोगिणोः । (३८।१)

kaphodreke gade 'nannaṃ balino rogarogiṇoḥ |

38.2३८.२

अन्नादौ विगुणे ऽपाने समाने मध्य इष्यते ॥ (३८।२)

annādau viguṇe 'pāne samāne madhya iṣyate ||

39.1३९.१

व्याने ऽन्ते प्रातराशस्य सायमाशस्य तूत्तरे । (३९।१)

vyāne 'nte prātarāśasya sāyamāśasya tūttare |

39.2३९.२

ग्रासग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि ॥ (३९।२)

grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani ||

40.1४०.१

मुहुर् मुहुर् विषच्छर्दिहिध्मातृट्श्वासकासिषु । (४०।१)

muhur muhur viṣacchardihidhmātṛṭśvāsakāsiṣu |

40.2४०.२

योज्यं सभोज्यं भैषज्यं भोज्यैश् चित्रैर् अरोचके ॥ (४०।२)

yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake ||

41.1४१.१

कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम् । (४१।१)

kampākṣepakahidhmāsu sāmudgaṃ laghubhojinām |

41.2४१.२

ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते ॥ (४१।२)

ūrdhvajatruvikāreṣu svapnakāle praśasyate ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 13

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit