अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 5, 6
Select a line for its word-by-word analysis.
अफालकृष्टे ऽनाक्रान्ते पादपैर् बलवत्तरैः ॥ (२।२)
aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ ||
जन्त्वजग्धं दवादग्धम् अविदग्धं च वैकृतैः ॥ (३।२)
jantvajagdhaṃ davādagdham avidagdhaṃ ca vaikṛtaiḥ ||
भूतैश्छायातपाम्ब्वाद्यैर् यथाकालं च सेवितम् । (४।१)
bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam |
गृह्णीयाद् औषधं सुस्थं स्थितं काले च कल्पयेत् ॥ (५।२)
gṛhṇīyād auṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet ||
पयो बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम् । (७।१)
payo bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām |
कषाय-वरिअन्तेन्कषाययोनयः पञ्च रसा लवणवर्जिताः । (८।१)
kaṣāya-Variantenkaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ |
रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पना ॥ (८।२)
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā ||
सद्यःसमुद्धृतात् क्षुण्णाद् यः स्रवेत् पटपीडितात् ॥ (९।२)
sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt ||
स्वरसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः । (१०।१)
svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ |
चूर्णो ऽप्लुतः शृतः क्वाथः शीतो रात्रिं द्रवे स्थितः ॥ (१०।२)
cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ ||
सद्योऽभिषुतपूतस् तु फाण्टस् तन्मानकल्पने । (११।१)
sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane |
युञ्ज्याद् व्याध्यादिबलतस् तथा च वचनं मुनेः ॥ (११।२)
yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ ||
मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः । (१२।१)
mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ |
आलोच्य देशकालौ च योज्या तद्वच्च कल्पना ॥ (१२।२)
ālocya deśakālau ca yojyā tadvacca kalpanā ||
मध्यं तु मानं निर्दिष्टं स्वरसस्य चतुःपलम् । (१३।१)
madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam |
पेष्यस्य कर्षम् आलोड्यं तद् द्रवस्य पलत्रये ॥ (१३।२)
peṣyasya karṣam āloḍyaṃ tad dravasya palatraye ||
क्वाथं द्रव्यपले कुर्यात् प्रस्थार्धं पादशेषितम् । (१४।१)
kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam |
शीतं पले पलैः षड्भिश्चतुर्भिस् तु ततो ऽपरम् ॥ (१४।२)
śītaṃ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param ||
स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम् । (१५।१)
snehapāke tvamānoktau caturguṇavivardhitam |
कल्कस्नेहद्रवं योज्यम् अधीते शौनकः पुनः ॥ (१५।२)
kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ ||
स्नेहे सिध्यति शुद्धाम्बुनिःक्वाथस्वरसैः क्रमात् । (१६।१)
snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt |
कल्कस्य योजयेद् अंशं चतुर्थं षष्ठम् अष्टमम् ॥ (१६।२)
kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam ||
पृथक् स्नेहसमं दद्यात् पञ्चप्रभृति तु द्रवम् । (१७।१)
pṛthak snehasamaṃ dadyāt pañcaprabhṛti tu dravam |
नाङ्गुलीग्राहिता कल्के न स्नेहे ऽग्नौ सशब्दता ॥ (१७।२)
nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā ||
वर्णादिसंपच्च यदा तदैनं शीघ्रम् आहरेत् । (१८।१)
varṇādisaṃpacca yadā tadainaṃ śīghram āharet |
घृतस्य फेनोपशमस् तैलस्य तु तदुद्भवः ॥ (१८।२)
ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ ||
लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च । (१९।१)
lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca |
पाकस् तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः ॥ (१९।२)
pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ ||
किंचित् सीदति कृष्णे च वर्त्यमाने च पश्चिमः ॥ (२०।२)
kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ ||
दग्धो ऽत ऊर्ध्वं निष्कार्यः स्याद् आमस् त्वग्निसादकृत् । (२१।१)
dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt |
मृदुर् नस्ये खरो ऽभ्यङ्गे पाने वस्तौ च चिक्कणः ॥ (२१।२)
mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ ||
गेwइछ्तेशाणं पाणितलं मुष्टिं कुडवं प्रस्थम् आढकम् । (२२।१)
Gewichteśāṇaṃ pāṇitalaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam |
द्रोणं वहं च क्रमशो विजानीयाच्चतुर्गुणम् ॥ (२२।२)
droṇaṃ vahaṃ ca kramaśo vijānīyāccaturguṇam ||
द्विगुणं योजयेद् आर्द्रं कुडवादि तथा द्रवम् । (२३।१)
dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam |
कल्पयेत् सदृशान् भागान् प्रमाणं यत्र नोदितम् । (२४।१)
kalpayet sadṛśān bhāgān pramāṇaṃ yatra noditam |
कल्कीकुर्याच्च भैषज्यम् अनिरूपितकल्पनम् ॥ (२४।२)
kalkīkuryācca bhaiṣajyam anirūpitakalpanam ||
अङ्गानुक्तौ तु मूलं स्याद् अप्रसिद्धौ तद् एव तु । (२५।१)
aṅgānuktau tu mūlaṃ syād aprasiddhau tad eva tu |
द्वौ शाणौ वटकः कोलं बदरं द्रंक्षणश्च तौ ॥ (२५।२)
dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau ||
शब्दान्यत्वम् अभिन्ने ऽर्थे शुक्तिरष्टमिका पिचू । (२७।१)
śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū |
पलं प्रकुञ्चो बिल्वं च मुष्टिराम्रं चतुर्थिका ॥ (२७।२)
palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā ||
द्वे पले प्रसृतस् तौ द्वावञ्जलिस् तौ तु मानिका । (२८।१)
dve pale prasṛtas tau dvāvañjalis tau tu mānikā |
आढकं भाजनं कंसो द्रोणः कुम्भो घटो ऽर्मणम् ॥ (२८।२)
āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam ||
हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुंधरा । (२९।२)
himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā |
सौम्यं पथ्यं च तत्राद्यम् आग्नेयं वैन्ध्यम् औषधम् ॥ (२९।३)
saumyaṃ pathyaṃ ca tatrādyam āgneyaṃ vaindhyam auṣadham ||
Data courtesy of The Digital Corpus of Sanskrit.