अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 4, 5
Select a line for its word-by-word analysis.
अथातो राजयक्ष्मादिचिकित्सितं व्याख्यास्यामः । (१।१)
athāto rājayakṣmādicikitsitaṃ vyākhyāsyāmaḥ |
बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम् । (१।३)
balino bahudoṣasya snigdhasvinnasya śodhanam |
ऊर्ध्वाधो यक्ष्मिणः कुर्यात् सस्नेहं यन्न कर्शनम् ॥ (१।४)
ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam ||
सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया ॥ (२।२)
sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā ||
वमेद् विरेचनं दद्यात् त्रिवृच्छ्यामानृपद्रुमान् । (३।१)
vamed virecanaṃ dadyāt trivṛcchyāmānṛpadrumān |
द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर् युतान् । (४।१)
drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān |
शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम् ॥ (४।२)
śuddhakoṣṭhasya yuñjīta vidhiṃ bṛṃhaṇadīpanam ||
आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित् । (६।१)
ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit |
गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम् । (७।१)
gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam |
ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे ॥ (७।२)
jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase ||
रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः ॥ (९।२)
rasikā mṛdavaḥ snigdhāḥ paṭudravyābhisaṃskṛtāḥ ||
हिता मौलककौलत्थास् तद्वद् यूषाश्च साधिताः । (१०।१)
hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ |
सदाडिमं सामलकं स्निग्धम् आजं रसं पिबेत् । (११।१)
sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet |
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम् । (१२।१)
pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam |
पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः ॥ (१२।२)
pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ ||
कल्पयेच्चानुकूलो ऽस्य तेनान्नं शुचि यत्नवान् । (१४।१)
kalpayeccānukūlo 'sya tenānnaṃ śuci yatnavān |
बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेन वा । (१५।१)
balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena vā |
सक्षौद्रं पयसा सिद्धं सर्पिर् दशगुणेन वा ॥ (१५।२)
sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā ||
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । (१६।१)
jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca |
पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् ॥ (१६।२)
puṣkarāhvaṃ śaṭhīṃ kṛṣṇāṃ vyāghrīṃ gokṣurakaṃ balām ||
कल्कीकृत्य घृतं पक्वं रोगराजहरं परम् ॥ (१७।२)
kalkīkṛtya ghṛtaṃ pakvaṃ rogarājaharaṃ param ||
दशमूलशृतात् क्षीरात् सर्पिर् यद् उदियान् नवम् । (१९।१)
daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam |
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम् ॥ (१९।२)
sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam ||
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम् । (२०।१)
śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham |
पञ्चभिः पञ्चमूलैर् वा शृताद् यद् उदियाद् घृतम् ॥ (२०।२)
pañcabhiḥ pañcamūlair vā śṛtād yad udiyād ghṛtam ||
सिद्धं सर्पिर् जयत्येतद् यक्ष्मणः सप्तकं बलम् ॥ (२१।२)
siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam ||
प्रस्थोन्मितं तुल्यपयः स्रोतसां तद् विशोधनम् ॥ (२२।२)
prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam ||
श्वासकासाग्निसदनश्वयथूर्ध्वानिलाञ् जयेत् ॥ (२३।२)
śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet ||
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद् घृतम् ॥ (२४।२)
jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam ||
रेज़ेप्तश्वगन्धाशृतात् क्षीराद् घृतं च ससितापयः । (२५।१)
Rezeptaśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ |
साधयेत् सर्पिषः प्रस्थं वातपित्तामयापहम् ॥ (२६।२)
sādhayet sarpiṣaḥ prasthaṃ vātapittāmayāpaham ||
मांससर्पिरिदम् पीतं युक्तं मांसरसेन वा । (२७।१)
māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena vā |
रेज़ेप्तेलाजमोदात्रिफलासौराष्ट्रीव्योषचित्रकान् । (२८।१)
Rezeptelājamodātriphalāsaurāṣṭrīvyoṣacitrakān |
भल्लातकं विडङ्गं च पृथग् अष्टपलोन्मितम् । (२९।१)
bhallātakaṃ viḍaṅgaṃ ca pṛthag aṣṭapalonmitam |
पुनस् तेन घृतप्रस्थं सिद्धे चास्मिन् पलानि षट् । (३०।१)
punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ |
तवक्षीर्याः क्षिपेत् त्रिंशत् सिताया द्विगुणं मधु ॥ (३०।२)
tavakṣīryāḥ kṣipet triṃśat sitāyā dviguṇaṃ madhu ||
घृतात् त्रिजातात् त्रिपलं ततो लीढं खजाहतम् । (३१।१)
ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam |
पयोऽनुपानं तत् प्राह्णे रसायनम् अयन्त्रणम् ॥ (३१।२)
payo'nupānaṃ tat prāhṇe rasāyanam ayantraṇam ||
मेध्यं चक्षुष्यम् आयुष्यं दीपनं हन्ति चाचिरात् । (३२।१)
medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt |
ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षये ऽपि ते । (३३।१)
ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te |
रेज़ेप्त्त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात् ॥ (३३।२)
Rezepttvagelāpippalīkṣīrīśarkarā dviguṇāḥ kramāt ||
चूर्णिता भक्षिताः क्षौद्रसर्पिषा वावलेहिताः । (३४।१)
cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ |
स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः ॥ (३४।२)
svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ ||
विशेषात् स्वरसादे ऽस्य नस्यधूमादि योजयेत् । (३५।१)
viśeṣāt svarasāde 'sya nasyadhūmādi yojayet |
तत्रापि वातजे कोष्णं पिबेद् औत्तरभक्तिकम् ॥ (३५।२)
tatrāpi vātaje koṣṇaṃ pibed auttarabhaktikam ||
साधितं कासजित् स्वर्यं सिद्धम् आर्तगलेन वा ॥ (३६।२)
sādhitaṃ kāsajit svaryaṃ siddham ārtagalena vā ||
बदरीपत्त्रकल्कं वा घृतभृष्टं ससैन्धवम् । (३७।१)
badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam |
तैलं वा मधुकद्राक्षापिप्पलीकृमिनुत्फलैः ॥ (३७।२)
tailaṃ vā madhukadrākṣāpippalīkṛminutphalaiḥ ||
हंसपद्याश्च मूलेन पक्वं नस्तो निषेचयेत् । (३८।१)
haṃsapadyāśca mūlena pakvaṃ nasto niṣecayet |
अश्नीयात् पायसं चैवं स्निग्धं स्वेदं नियोजयेत् । (३९।१)
aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet |
पित्तोद्भवे पिबेत् सर्पिः शृतशीतपयोऽनुपः ॥ (३९।२)
pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ ||
क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम् । (४०।१)
kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam |
सिद्धं सलवणं सर्पिर् नस्यं स्वर्यम् अनुत्तमम् ॥ (४१।२)
siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam ||
नस्यप्रपौण्डरीकं मधुकं पिप्पली बृहती बला । (४२।१)
nasyaprapauṇḍarīkaṃ madhukaṃ pippalī bṛhatī balā |
साधितं क्षीरसर्पिश्च तत् स्वर्यं नावनं परम् ॥ (४२।२)
sādhitaṃ kṣīrasarpiśca tat svaryaṃ nāvanaṃ param ||
लेह्यलिह्यान् मधुरकाणां च चूर्णं मधुघृताप्लुतम् । (४३।१)
lehyalihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam |
कट्फलामलकव्योषं लिह्यात् तैलमधुप्लुतम् । (४४।१)
kaṭphalāmalakavyoṣaṃ lihyāt tailamadhuplutam |
व्योषक्षाराग्निचविकाभार्गीपथ्यामधूनि वा ॥ (४४।२)
vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā ||
यवैर् यवागूं यमके कणाधात्रीकृतां पिबेत् । (४५।१)
yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet |
भुक्त्वाद्यात् पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ॥ (४५।२)
bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet ||
शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह । (४६।१)
śarkarākṣaudramiśrāṇi śṛtāni madhuraiḥ saha |
पिबेत् पयांसि यस्योच्चैर् वदतो ऽभिहतः स्वरः ॥ (४६।२)
pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ ||
विचित्रम् अन्नम् अरुचौ हितैरुपहितं हितम् । (४७।१)
vicitram annam arucau hitairupahitaṃ hitam |
बहिरन्तर्मृजा चित्तनिर्वाणं हृद्यम् औषधम् ॥ (४७।२)
bahirantarmṛjā cittanirvāṇaṃ hṛdyam auṣadham ||
द्वौ कालौ दन्तपवनं भक्षयेन् मुखधावनैः । (४८।१)
dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ |
कषायैः क्षालयेद् आस्यं धूमं प्रायोगिकं पिबेत् ॥ (४८।२)
kaṣāyaiḥ kṣālayed āsyaṃ dhūmaṃ prāyogikaṃ pibet ||
शशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम् ॥ (४९।२)
śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param ||
वाताद् अरोचके तत्र पिबेच्चूर्णं प्रसन्नया । (५०।१)
vātād arocake tatra pibeccūrṇaṃ prasannayā |
हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात् ॥ (५०।२)
hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt ||
छर्दयेद् वा वचाम्भोभिः पित्ताच्च गुडवारिभिः ॥ (५१।२)
chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ ||
लिह्याद् वा शर्करासर्पिर्लवणोत्तममाक्षिकम् । (५२।१)
lihyād vā śarkarāsarpirlavaṇottamamākṣikam |
कफाद् वमेन् निम्बजलैर् दीप्यकारग्वधोदकम् ॥ (५२।२)
kaphād vamen nimbajalair dīpyakāragvadhodakam ||
पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः । (५३।१)
pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ |
पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा ॥ (५३।२)
pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā ||
भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम् ॥ (५४।२)
bhāgavṛddhaṃ kramāccūrṇaṃ nihanti samaśarkaram ||
कृत्वा कोलं च कर्षांशं सितायाश्च चतुःपलम् । (५६।१)
kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam |
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ॥ (५६।२)
dhānyasauvarcalājājīvarāṅgaṃ cārdhakārṣikam ||
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च । (५७।१)
pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca |
चूर्णम् एतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च ॥ (५७।२)
cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca ||
विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान् । (५८।१)
vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān |
तालीशपत्त्रं मरिचं नागरं पिप्पली शुभा ॥ (५८।२)
tālīśapattraṃ maricaṃ nāgaraṃ pippalī śubhā ||
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके । (५९।१)
yathottaraṃ bhāgavṛddhyā tvagele cārdhabhāgike |
तद् रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम् ॥ (५९।२)
tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭaguṇaśarkaram ||
कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलनुत् । (६०।१)
kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut |
प्रसेके कल्पितान् सक्तून् भक्ष्यांश्चाद्याद् बली वमेत् ॥ (६१।२)
praseke kalpitān saktūn bhakṣyāṃścādyād balī vamet ||
कटुतिक्तैस् तथा शूल्यं भक्षयेज् जाङ्गलं पलम् । (६२।१)
kaṭutiktais tathā śūlyaṃ bhakṣayej jāṅgalaṃ palam |
शुष्कांश्च भक्ष्यान् सुलघूंश् चणकादिरसानुपः ॥ (६२।२)
śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ ||
श्लेष्मणो ऽतिप्रसेकेन वायुः श्लेष्माणम् अस्यति । (६३।१)
śleṣmaṇo 'tiprasekena vāyuḥ śleṣmāṇam asyati |
कफप्रसेकं तं विद्वान् स्निग्धोष्णैरेव निर्जयेत् ॥ (६३।२)
kaphaprasekaṃ taṃ vidvān snigdhoṣṇaireva nirjayet ||
पीनसे ऽपि क्रमम् इमं वमथौ च प्रयोजयेत् । (६४।१)
pīnase 'pi kramam imaṃ vamathau ca prayojayet |
विशेषात् पीनसे ऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत् ॥ (६४।२)
viśeṣāt pīnase 'bhyaṅgān snehān svedāṃśca śīlayet ||
स्निग्धान् उत्कारिकापिण्डैः शिरःपार्श्वगलादिषु । (६५।१)
snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu |
लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान् ॥ (६५।२)
lavaṇāmlakaṭūṣṇāṃśca rasān snehopasaṃhitān ||
तत्रेष्टाः सचतुःस्नेहा दोषसंसर्ग इष्यते । (६७।१)
tatreṣṭāḥ sacatuḥsnehā doṣasaṃsarga iṣyate |
प्रलेपो नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः ॥ (६७।२)
pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ ||
बलारास्नातिलैस् तद्वत् ससर्पिर्मधुकोत्पलैः । (६८।१)
balārāsnātilais tadvat sasarpirmadhukotpalaiḥ |
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः । (६९।१)
nāvanaṃ dhūmapānāni snehāścauttarabhaktikāḥ |
तैलान्यभ्यङ्गयोगीनि वस्तिकर्म तथा परम् ॥ (६९।२)
tailānyabhyaṅgayogīni vastikarma tathā param ||
शृङ्गाद्यैर् वा यथादोषं दुष्टम् एषां हरेद् असृक् । (७०।१)
śṛṅgādyair vā yathādoṣaṃ duṣṭam eṣāṃ hared asṛk |
प्रदेहः सघृतैः श्रेष्ठः पद्मकोशीरचन्दनैः ॥ (७०।२)
pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ ||
दूर्वामधुकमञ्जिष्ठाकेसरैर् वा घृताप्लुतैः । (७१।१)
dūrvāmadhukamañjiṣṭhākesarair vā ghṛtāplutaiḥ |
अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना । (७२।१)
abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā |
प्रायेणोपहताग्नित्वात् सपिच्छम् अतिसार्यते ॥ (७२।२)
prāyeṇopahatāgnitvāt sapiccham atisāryate ||
पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः ॥ (७३।२)
purīṣaṃ yatnato rakṣecchuṣyato rājayakṣmiṇaḥ ||
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम् । (७४।१)
sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam |
मांसम् एवाश्नतो युक्त्या मार्द्वीकं पिबतो ऽनु च ॥ (७४।२)
māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca ||
सुरां समण्डां मार्द्वीकम् अरिष्टान् सीधुमाधवान् ॥ (७५।२)
surāṃ samaṇḍāṃ mārdvīkam ariṣṭān sīdhumādhavān ||
यथार्हम् अनुपानार्थं पिबेन् मांसानि भक्षयन् । (७६।१)
yathārham anupānārthaṃ piben māṃsāni bhakṣayan |
स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत् ॥ (७६।२)
srotovibandhamokṣārthaṃ balaujaḥpuṣṭaye ca tat ||
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तम् अवगाहयेत् । (७७।१)
snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet |
उत्तीर्णं मिश्रकैः स्नेहैर् भूयो ऽभ्यक्तं सुखैः करैः ॥ (७७।२)
uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ ||
मृद्नीयात् सुखम् आसीनं सुखं चोद्वर्तयेत् परम् । (७८।१)
mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param |
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम् ॥ (७८।२)
jīvantīṃ śatavīryāṃ ca vikasāṃ sapunarnavām ||
अश्वगन्धाम् अपामार्गं तर्कारीं मधुकं बलाम् । (७९।१)
aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām |
विदारीं सर्षपान् कुष्ठं तण्डुलान् अतसीफलम् ॥ (७९।२)
vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasīphalam ||
माषांस् तिलांश्च किण्वं च सर्वम् एकत्र चूर्णयेत् । (८०।१)
māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet |
यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम् ॥ (८०।२)
yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam ||
एतद् उद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम् । (८१।१)
etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam |
स्नायाद् ऋतुसुखैस् तोयैर् जीवनीयोपसाधितैः । (८२।१)
snāyād ṛtusukhais toyair jīvanīyopasādhitaiḥ |
गन्धमाल्यादिकां भूषाम् अलक्ष्मीनाशनीं भजेत् ॥ (८२।२)
gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet ||
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतिः । (८३।१)
suhṛdāṃ darśanaṃ gītavāditrotsavasaṃśrutiḥ |
दैवव्यपाश्रयं तत्तद् अथर्वोक्तं च पूजितम् ॥ (८३।३)
daivavyapāśrayaṃ tattad atharvoktaṃ ca pūjitam ||
Data courtesy of The Digital Corpus of Sanskrit.