अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 13
Select a line for its word-by-word analysis.
तिमिरं काचतां याति काचो ऽप्यान्ध्यम् उपेक्षया । (१।३)
timiraṃ kācatāṃ yāti kāco 'pyāndhyam upekṣayā |
नेत्ररोगेष्वतो घोरं तिमिरं साधयेद् द्रुतम् ॥ (१।४)
netrarogeṣvato ghoraṃ timiraṃ sādhayed drutam ||
तुलां पचेत जीवन्त्या द्रोणे ऽपां पादशेषिते । (२।१)
tulāṃ paceta jīvantyā droṇe 'pāṃ pādaśeṣite |
तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत् ॥ (२।२)
tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet ||
कार्षिकैर् निशि तत् पीतं तिमिरापहरं परम् । (४।१)
kārṣikair niśi tat pītaṃ timirāpaharaṃ param |
पचेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः ॥ (५।२)
pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ ||
प्रस्थम् आमलकानां च क्वाथयेन् नल्वणे ऽम्भसि ॥ (७।२)
prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi ||
तदाढके ऽर्धपलिकैः पिष्टैः प्रस्थं घृतात् पचेत् । (८।१)
tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet |
सपिप्पलीकैस्तत् सर्पिर् घ्राणकर्णास्यरोगजित् । (९।१)
sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit |
विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत् । (१०।१)
viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt |
त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके ॥ (१०।२)
triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake ||
अर्धप्रस्थो घृतात् सिद्धः सितया माक्षिकेण वा ॥ (११।२)
ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā ||
युक्तं पिबेत् तत् तिमिरी तद्युक्तं वा वरारसम् । (१२।१)
yuktaṃ pibet tat timirī tadyuktaṃ vā varārasam |
यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः ॥ (१२।२)
yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ ||
पालिकैः ससिताद्राक्षैर् घृतप्रस्थं पचेत् समैः । (१३।१)
pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ |
महात्रैफलम् इत्येतत् परं दृष्टिविकारजित् । (१४।१)
mahātraiphalam ityetat paraṃ dṛṣṭivikārajit |
त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि ॥ (१४।२)
traiphalenātha haviṣā lihānastriphalāṃ niśi ||
यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम् । (१५।१)
yaṣṭīmadhukasaṃyuktāṃ madhunā ca pariplutām |
सौपर्णं लभते चक्षुरित्याह भगवान् निमिः । (१६।१)
sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ |
ताप्यायोहेमयष्ट्याह्वसिताजीर्णाज्यमाक्षिकैः ॥ (१६।२)
tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ ||
प्रातर् भक्तस्य वा पूर्वम् अद्यात् पथ्यां पृथक् पृथक् । (१९।१)
prātar bhaktasya vā pūrvam adyāt pathyāṃ pṛthak pṛthak |
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः ॥ (१९।२)
mṛdvīkāśarkarākṣaudraiḥ satataṃ timirāturaḥ ||
स्रोतोजांशांश्चतुःषष्टिं ताम्रायोरूप्यकाञ्चनैः । (२०।१)
srotojāṃśāṃścatuḥṣaṣṭiṃ tāmrāyorūpyakāñcanaiḥ |
युक्तान् प्रत्येकम् एकांशैरन्धमूषोदरस्थितान् ॥ (२०।२)
yuktān pratyekam ekāṃśairandhamūṣodarasthitān ||
ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत् । (२१।१)
dhmāpayitvā samāvṛttaṃ tatastacca niṣecayet |
रसस्कन्धकषायेषु सप्तकृत्वः पृथक् पृथक् ॥ (२१।२)
rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak ||
वैडूर्यमुक्ताशङ्खानां त्रिभिर् भागैर् युतं ततः । (२२।१)
vaiḍūryamuktāśaṅkhānāṃ tribhir bhāgair yutaṃ tataḥ |
चूर्णाञ्जनं प्रयुञ्जीत तत् सर्वतिमिरापहम् ॥ (२२।२)
cūrṇāñjanaṃ prayuñjīta tat sarvatimirāpaham ||
मांसीत्रिजातकायःकुङ्कुमनीलोत्पलाभयातुत्थैः । (२३।१)
māṃsītrijātakāyaḥkuṅkumanīlotpalābhayātutthaiḥ |
सितकाचशङ्खफेनकमरिचाञ्जनपिप्पलीमधुकैः ॥ (२३।२)
sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ ||
चन्द्रे ऽश्विनीसनाथे सुचूर्णितैरञ्जयेद् युगलं अक्ष्णोः । (२४।१)
candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṃ akṣṇoḥ |
तिमिरार्मरक्तराजीकण्डूकाचादिशमम् इच्छन् ॥ (२४।२)
timirārmaraktarājīkaṇḍūkācādiśamam icchan ||
मरिचवरलवणभागौ भागौ द्वौ कणसमुद्रफेनाभ्याम् । (२५।१)
maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām |
सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित् ॥ (२५।२)
sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit ||
पृथक् दिव्याप्सु स्रोतोजं सप्तकृत्वो निषेचयेत् ॥ (२६।२)
pṛthak divyāpsu srotojaṃ saptakṛtvo niṣecayet ||
तच्चूर्णितं स्थितं शङ्खे दृक्प्रसादनम् अञ्जनम् । (२७।१)
taccūrṇitaṃ sthitaṃ śaṅkhe dṛkprasādanam añjanam |
निर्दग्धं बादराङ्गारैस्तुत्थं चेत्थं निषेचितम् । (२८।१)
nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam |
क्रमादजापयःसर्पिःक्षौद्रे तस्मात् पलद्वयम् ॥ (२८।२)
kramādajāpayaḥsarpiḥkṣaudre tasmāt paladvayam ||
युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम् । (३०।१)
yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam |
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः ॥ (३०।२)
hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ ||
चूर्णो विशेषात् तिमिरं भास्करो भास्करो यथा । (३१।१)
cūrṇo viśeṣāt timiraṃ bhāskaro bhāskaro yathā |
त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ॥ (३१।२)
triṃśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam ||
शुल्बतालकयोर् द्वौ द्वौ वङ्गस्यैको ऽञ्जनात् त्रयम् । (३२।१)
śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam |
अन्धमूषीकृतं ध्मातं पक्वं विमलम् अञ्जनम् ॥ (३२।२)
andhamūṣīkṛtaṃ dhmātaṃ pakvaṃ vimalam añjanam ||
गोमूत्रे छगणरसे ऽम्लकाञ्जिके च स्त्रीस्तन्ये हविषि विषे च माक्षिके च । (३३।२)
gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca |
यत् तुत्थं ज्वलितम् अनेकशो निषिक्तं तत् कुर्याद् गरुडसमं नरस्य चक्षुः ॥ (३३।३)
yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ ||
श्रेष्ठाजलं भृङ्गरसं सविषाज्यम् अजापयः । (३४।१)
śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ |
यष्टीरसं च यत् सीसं सप्तकृत्वः पृथक् पृथक् ॥ (३४।२)
yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak ||
तप्तं तप्तं पायितं तच्छलाका नेत्रे युक्ता साञ्जनानञ्जना वा । (३५।१)
taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā |
तैमिर्यार्मस्रावपैच्छिल्यपैल्लं कण्डूं जाड्यं रक्तराजीं च हन्ति ॥ (३५।२)
taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti ||
रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यम् अथाञ्जनम् । (३६।१)
rasendrabhujagau tulyau tayostulyam athāñjanam |
यो गृध्रस्तरुणरविप्रकाशगल्लस्तस्यास्यं समयमृतस्य गोशकृद्भिः । (३७।१)
yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ |
निर्दग्धं समघृतम् अञ्जनं च पेष्यं योगो ऽयं नयनबलं करोति गार्ध्रम् ॥ (३७।२)
nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram ||
कृष्णसर्पवदने सहविष्कं दग्धम् अञ्जननिःसृतधूमम् । (३८।१)
kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam |
चूर्णितं नलदपत्त्रविमिश्रं भिन्नतारम् अपि रक्षति चक्षुः ॥ (३८।२)
cūrṇitaṃ naladapattravimiśraṃ bhinnatāram api rakṣati cakṣuḥ ||
कृष्णसर्पं मृतं न्यस्य चतुरश्चापि वृश्चिकान् । (३९।१)
kṛṣṇasarpaṃ mṛtaṃ nyasya caturaścāpi vṛścikān |
क्षीरकुम्भे त्रिसप्ताहं क्लेदयित्वा प्रमन्थयेत् ॥ (३९।२)
kṣīrakumbhe trisaptāhaṃ kledayitvā pramanthayet ||
तत्र यन्नवनीतं स्यात् पुष्णीयात् तेन कुक्कुटम् । (४०।१)
tatra yannavanītaṃ syāt puṣṇīyāt tena kukkuṭam |
अन्धस्तस्य पुरीषेण प्रेक्षते ध्रुवम् अञ्जनात् ॥ (४०।२)
andhastasya purīṣeṇa prekṣate dhruvam añjanāt ||
कृष्णसर्पवसा शङ्खः कतकात् फलम् अञ्जनम् । (४१।१)
kṛṣṇasarpavasā śaṅkhaḥ katakāt phalam añjanam |
रसक्रियेयम् अचिराद् अन्धानां दर्शनप्रदा ॥ (४१।२)
rasakriyeyam acirād andhānāṃ darśanapradā ||
मरिचानि दशार्धपिचुस्ताप्यात् तुत्थात् पलं पिचुर् यष्ट्याः । (४२।१)
maricāni daśārdhapicustāpyāt tutthāt palaṃ picur yaṣṭyāḥ |
क्षीरार्द्रदग्धम् अञ्जनम् अप्रतिसाराख्यम् उत्तमं तिमिरे ॥ (४२।२)
kṣīrārdradagdham añjanam apratisārākhyam uttamaṃ timire ||
अक्षबीजमरिचामलकत्वक्तुत्थयष्टिमधुकैर् जलपिष्टैः । (४३।१)
akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ |
छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्यचिरेण ॥ (४३।२)
chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa ||
मरिचामलकजलोद्भवतुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः । (४४।१)
maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ |
षण्माक्षिक इति योगस्तिमिरार्मक्लेदकाचकण्डूहन्ता ॥ (४४।२)
ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūhantā ||
रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतोऽञ्जनं ताम्रम् अयः सशङ्खं । (४५।१)
ratnāni rūpyaṃ sphaṭikaṃ suvarṇaṃ sroto'ñjanaṃ tāmram ayaḥ saśaṅkhaṃ |
कुचन्दनं लोहितगैरिकं च चूर्णाञ्जनं सर्वदृगामयघ्नम् ॥ (४५।२)
kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam ||
तिलतैलम् अक्षतैलं भृङ्गस्वरसो ऽसनाच्च निर्यूहः । (४६।१)
tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ |
आयसपात्रविपक्वं करोति दृष्टेर् बलं नस्यम् ॥ (४६।२)
āyasapātravipakvaṃ karoti dṛṣṭer balaṃ nasyam ||
दोषानुरोधेन च नैकशस्तं स्नेहास्रविस्रावणरेकनस्यैः । (४७।१)
doṣānurodhena ca naikaśastaṃ snehāsravisrāvaṇarekanasyaiḥ |
उपाचरेद् अञ्जनमूर्धवस्तिवस्तिक्रियातर्पणलेपसेकैः ॥ (४७।२)
upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ ||
सामान्यं साधनम् इदं प्रतिदोषम् अतः शृणु ॥ (४८।१)
sāmānyaṃ sādhanam idaṃ pratidoṣam ataḥ śṛṇu ||
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत् ततः ॥ (४९।२)
kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ ||
समूलजालजीवन्तीतुलां द्रोणे ऽम्भसः पचेत् । (५१।१)
samūlajālajīvantītulāṃ droṇe 'mbhasaḥ pacet |
अष्टभागस्थिते तस्मिंस्तैलप्रस्थं पयःसमे ॥ (५१।२)
aṣṭabhāgasthite tasmiṃstailaprasthaṃ payaḥsame ||
यष्टीपलैश्चतुर्भिश्च लोहपात्रे विपाचयेत् ॥ (५२।२)
yaṣṭīpalaiścaturbhiśca lohapātre vipācayet ||
लोह एव स्थितं मासं नावनाद् ऊर्ध्वजत्रुजान् । (५३।१)
loha eva sthitaṃ māsaṃ nāvanād ūrdhvajatrujān |
वातपित्तामयान् हन्ति तद् विशेषाद् दृगाश्रयान् ॥ (५३।२)
vātapittāmayān hanti tad viśeṣād dṛgāśrayān ||
केशास्यकन्धरास्कन्धपुष्टिलावण्यकान्तिदम् । (५४।१)
keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam |
घोषया बिल्वमूलैश्च तैलं पक्वं पयोऽन्वितम् । (५५।१)
ghoṣayā bilvamūlaiśca tailaṃ pakvaṃ payo'nvitam |
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिजित् ॥ (५५।२)
nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit ||
वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते । (५६।१)
vasāñjane ca vaiyāghrī vārāhī vā praśasyate |
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥ (५६।२)
gṛdhrāhikukkuṭotthā vā madhukenānvitā pṛthak ||
प्रत्यञ्जने च स्रोतोजं रसक्षीरघृते क्रमात् । (५७।१)
pratyañjane ca srotojaṃ rasakṣīraghṛte kramāt |
निषिक्तं पूर्ववद् योज्यं तिमिरघ्नम् अनुत्तमम् ॥ (५७।२)
niṣiktaṃ pūrvavad yojyaṃ timiraghnam anuttamam ||
न चेद् एवं शमं याति ततस्तर्पणम् आचरेत् । (५८।१)
na ced evaṃ śamaṃ yāti tatastarpaṇam ācaret |
सर्पिरष्टगुणक्षीरं पक्वं तर्पणम् उत्तमम् ॥ (५९।२)
sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇam uttamam ||
मेदसस्तद्वद् ऐणेयाद् दुग्धसिद्धात् खजाहतात् । (६०।१)
medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt |
श्वाविच्छल्यकगोधानां दक्षतित्तिरिबर्हिणाम् । (६१।१)
śvāvicchalyakagodhānāṃ dakṣatittiribarhiṇām |
पृथक् पृथग् अनेनैव विधिना कल्पयेद् वसाम् ॥ (६१।२)
pṛthak pṛthag anenaiva vidhinā kalpayed vasām ||
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत् सिराम् ॥ (६३।२)
vipācitaṃ pāyayitvā snigdhasya vyadhayet sirām ||
शर्करैलात्रिवृच्चूर्णैर् मधुयुक्तैर् विरेचयेत् । (६४।१)
śarkarailātrivṛccūrṇair madhuyuktair virecayet |
सुशीतान् सेकलेपादीन् युञ्ज्यान् नेत्रास्यमूर्धसु ॥ (६४।२)
suśītān sekalepādīn yuñjyān netrāsyamūrdhasu ||
वर्तिः शस्ताञ्जने चूर्णस्तथा पत्त्रोत्पलाञ्जनैः ॥ (६५।२)
vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ ||
सौवीराञ्जनतुत्थकशृङ्गीधात्रीफलस्फटिककर्पूरम् ॥ (६६।२)
sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram ||
पञ्चांशं पञ्चांशं त्र्यंशम् अथैकांशम् अञ्जनं तिमिरघ्नम् । (६७।१)
pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam |
नस्यं चाज्यं शृतं क्षीरजीवनीयसितोत्पलैः ॥ (६७।२)
nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ ||
श्लेष्मोद्भवे ऽमृताक्वाथवराकणशृतं घृतम् । (६८।१)
śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam |
विध्येत् सिरां पीतवतो दद्याच्चानु विरेचनम् ॥ (६८।२)
vidhyet sirāṃ pītavato dadyāccānu virecanam ||
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम् । (६९।१)
kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam |
ह्रीवेरदारुद्विनिशाकृष्णाकल्कैः पयोऽन्वितैः ॥ (६९।२)
hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ ||
द्विपञ्चमूलनिर्यूहे तैलं पक्वं च नावनम् । (७०।१)
dvipañcamūlaniryūhe tailaṃ pakvaṃ ca nāvanam |
दृग्वैमल्याय विमला वर्तिः स्यात् कोकिला पुनः । (७१।१)
dṛgvaimalyāya vimalā vartiḥ syāt kokilā punaḥ |
पिष्टं स्तन्याज्यदुग्धाभ्यां वर्तिस्तिमिरशुक्रजित् । (७३।१)
piṣṭaṃ stanyājyadugdhābhyāṃ vartistimiraśukrajit |
रक्तजे पित्तवत् सिद्धिः शीतैश्चास्रं प्रसादयेत् ॥ (७३।२)
raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet ||
द्राक्षया नलदलोध्रयष्टिभिः शङ्खताम्रहिमपद्मपद्मकैः । (७४।१)
drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ |
सोत्पलैश्छगलदुग्धवर्तितैर् अस्रजं तिमिरम् आशु नश्यति ॥ (७४।२)
sotpalaiśchagaladugdhavartitair asrajaṃ timiram āśu naśyati ||
सक्षीरं नावनं तैलं पिष्टैर् लेपो मुखस्य च । (७६।१)
sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca |
दद्याद् उशीरनिर्यूहे चूर्णितं कणसैन्धवम् ॥ (७७।२)
dadyād uśīraniryūhe cūrṇitaṃ kaṇasaindhavam ||
तत् स्रुतं सघृतं भूयः पचेत् क्षौद्रं घने क्षिपेत् । (७८।१)
tat srutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet |
शीते चास्मिन् हितम् इदं सर्वजे तिमिरे ऽञ्जनम् ॥ (७८।२)
śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam ||
अस्थीनि मज्जपूर्णानि सत्त्वानां रात्रिचारिणाम् । (७९।१)
asthīni majjapūrṇāni sattvānāṃ rātricāriṇām |
स्रोतोजाञ्जनयुक्तानि वहत्यम्भसि वासयेत् ॥ (७९।२)
srotojāñjanayuktāni vahatyambhasi vāsayet ||
मासं विंशतिरात्रं वा ततश्चोद्धृत्य शोषयेत् । (८०।१)
māsaṃ viṃśatirātraṃ vā tataścoddhṛtya śoṣayet |
समेषशृङ्गीपुष्पाणि सयष्ट्याह्वानि तान्यनु ॥ (८०।२)
sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu ||
चूर्णितान्यञ्जनं श्रेष्ठं तिमिरे सांनिपातिके । (८१।१)
cūrṇitānyañjanaṃ śreṣṭhaṃ timire sāṃnipātike |
काचे ऽप्येषा क्रिया मुक्त्वा सिरां यन्त्रनिपीडिताः ॥ (८१।२)
kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ ||
आन्ध्याय स्युर् मला दद्यात् स्राव्ये त्वस्रे जलौकसः । (८२।१)
āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ |
गुडः फेनो ऽञ्जनं कृष्णा मरिचं कुङ्कुमाद् रजः ॥ (८२।२)
guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ ||
नकुलान्धे त्रिदोषोत्थे तैमिर्यविहितो विधिः ॥ (८३।२)
nakulāndhe tridoṣotthe taimiryavihito vidhiḥ ||
तार्क्ष्यगैरिकतालीशैर् निशान्धे हितम् अञ्जनम् ॥ (८४।२)
tārkṣyagairikatālīśair niśāndhe hitam añjanam ||
दध्ना विघृष्टं मरिचं रात्र्यन्धे ऽञ्जनम् उत्तमम् । (८५।१)
dadhnā vighṛṣṭaṃ maricaṃ rātryandhe 'ñjanam uttamam |
पिष्टैर् गोमयतोयेन वर्तिर् दोषान्धनाशिनी । (८६।१)
piṣṭair gomayatoyena vartir doṣāndhanāśinī |
अजामूत्रेण वा कौन्तीकृष्णास्रोतोजसैन्धवैः ॥ (८६।२)
ajāmūtreṇa vā kauntīkṛṣṇāsrotojasaindhavaiḥ ||
सफेनाश्छागदुग्धेन रात्र्यन्धे वर्तयो हिताः ॥ (८७।२)
saphenāśchāgadugdhena rātryandhe vartayo hitāḥ ||
संनिवेश्य यकृन्मध्ये पिप्पलीरदहन् पचेत् । (८८।१)
saṃniveśya yakṛnmadhye pippalīradahan pacet |
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठम् अञ्जनम् ॥ (८८।२)
tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam ||
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ॥ (८९।२)
ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet ||
भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम् ॥ (९०।२)
bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ pattraiḥ pāne ca pūjitam ||
धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा । (९१।१)
dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā |
स्निग्धं विरेचयेच्छीतैः शीतैर् दिह्याच्च सर्वतः ॥ (९१।२)
snigdhaṃ virecayecchītaiḥ śītair dihyācca sarvataḥ ||
गोशकृद्रसदुग्धाज्यैर् विपक्वं शस्यते ऽञ्जनम् । (९२।१)
gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam |
क्षीराष्टांशं घृतं पक्वं सतैलं नावनं हितम् ॥ (९३।२)
kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam ||
तर्पणं क्षीरसर्पिः स्याद् अशाम्यति सिराव्यधः । (९४।१)
tarpaṇaṃ kṣīrasarpiḥ syād aśāmyati sirāvyadhaḥ |
चिन्ताभिघातभीशोकरौक्ष्यात् सोत्कटकासनात् ॥ (९४।२)
cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt ||
विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात् ॥ (९५।२)
vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt ||
यथास्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ॥ (९६।२)
yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam ||
सूर्योपरागानलविद्युदादिविलोकनेनोपहतेक्षणस्य । (९७।१)
sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya |
संतर्पणं स्निग्धहिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम् ॥ (९७।२)
saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam ||
चक्षूरक्षायां सर्वकालं मनुष्यैर् यत्नः कर्तव्यो जीविते यावद् इच्छा । (९८।१)
cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā |
व्यर्थो लोको ऽयं तुल्यरात्रिंदिवानां पुंसाम् अन्धानां विद्यमाने ऽपि वित्ते ॥ (९८।२)
vyartho loko 'yaṃ tulyarātriṃdivānāṃ puṃsām andhānāṃ vidyamāne 'pi vitte ||
त्रिफला रुधिरस्रुतिर् विशुद्धिर् मनसो निर्वृतिरञ्जनं सनस्यम् । (९९।१)
triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam |
शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा ॥ (९९।२)
śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā ||
अहिताद् अशनात् सदा निवृत्तिर् भृशभास्वच्चलसूक्ष्मवीक्षणाच्च । (१००।१)
ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca |
मुनिना निमिनोपदिष्टम् एतत् परमं रक्षणम् ईक्षणस्य पुंसाम् ॥ (१००।२)
muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām ||
Data courtesy of The Digital Corpus of Sanskrit.