अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 8

8 of 120 · 112 verses

Select a line for its word-by-word analysis.

1.1१.१

मात्राशी सर्वकालं स्यान् मात्रा ह्य् अग्नेः प्रवर्तिका । (१।१)

mātrāśī sarvakālaṃ syān mātrā hy agneḥ pravartikā |

1.2१.२

मात्रां द्रव्याण्य् अपेक्षन्ते गुरूण्य् अपि लघून्य् अपि ॥ (१।२)

mātrāṃ dravyāṇy apekṣante gurūṇy api laghūny api ||

2.1२.१

गुरूणाम् अर्धसौहित्यं लघूनां नातितृप्तता । (२।१)

gurūṇām ardhasauhityaṃ laghūnāṃ nātitṛptatā |

2.2२.२

मात्राप्रमाणं निर्दिष्टं सुखं यावद् विजीर्यति ॥ (२।२)

mātrāpramāṇaṃ nirdiṣṭaṃ sukhaṃ yāvad vijīryati ||

3.1३.१

भोजनं हीनमात्रं तु न बलोपचयौजसे । (३।१)

bhojanaṃ hīnamātraṃ tu na balopacayaujase |

3.2३.२

सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते ॥ (३।२)

sarveṣāṃ vātarogāṇāṃ hetutāṃ ca prapadyate ||

4.1४.१

अतिमात्रं पुनः सर्वान् आशु दोषान् प्रकोपयेत् । (४।१)

atimātraṃ punaḥ sarvān āśu doṣān prakopayet |

4.2४.२

पीड्यमाना हि वाताद्या युगपत् तेन कोपिताः ॥ (४।२)

pīḍyamānā hi vātādyā yugapat tena kopitāḥ ||

5.1५.१

आमेनान्नेन दुष्टेन तद् एवाविश्य कुर्वते । (५।१)

āmenānnena duṣṭena tad evāviśya kurvate |

5.2५.२

विष्टम्भयन्तो ऽलसकं च्यावयन्तो विषूचिकाम् ॥ (५।२)

viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām ||

6.1६.१

अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः । (६।१)

adharottaramārgābhyāṃ sahasaivājitātmanaḥ |

6.2६.२

प्रयाति नोर्ध्वं नाधस्ताद् आहारो न च पच्यते ॥ (६।२)

prayāti nordhvaṃ nādhastād āhāro na ca pacyate ||

7.1७.१

आमाशये ऽलसीभूतस् तेन सो ऽलसकः स्मृतः । (७।१)

āmāśaye 'lasībhūtas tena so 'lasakaḥ smṛtaḥ |

7.2७.२

विविधैर् वेदनोद्भेदैर् वाय्वादिभृशकोपतः ॥ (७।२)

vividhair vedanodbhedair vāyvādibhṛśakopataḥ ||

8.1८.१

सूचीभिर् इव गात्राणि विध्यतीति विषूचिका । (८।१)

sūcībhir iva gātrāṇi vidhyatīti viṣūcikā |

8.2८.२

तत्र शूलभ्रमानाहकम्पस्तम्भादयो ऽनिलात् ॥ (८।२)

tatra śūlabhramānāhakampastambhādayo 'nilāt ||

9.1९.१

पित्ताज् ज्वरातिसारान्तर्दाहतृट्प्रलयादयः । (९।१)

pittāj jvarātisārāntardāhatṛṭpralayādayaḥ |

9.2९.२

कफाच् छर्द्यङ्गगुरुतावाक्सङ्गष्ठीवनादयः ॥ (९।२)

kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ ||

10.1१०.१

विशेषाद् दुर्बलस्याल्पवह्नेर् वेगविधारिणः । (१०।१)

viśeṣād durbalasyālpavahner vegavidhāriṇaḥ |

10.2१०.२

पीडितं मारुतेनान्नं श्लेष्मणा रुद्धम् अन्तरा ॥ (१०।२)

pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā ||

11.1११.१

अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम् । (११।१)

alasaṃ kṣobhitaṃ doṣaiḥ śalyatvenaiva saṃsthitam |

11.2११.२

शूलादीन् कुरुते तीव्रांश् छर्द्यतीसारवर्जितान् ॥ (११।२)

śūlādīn kurute tīvrāṃś chardyatīsāravarjitān ||

12.1१२.१

सो ऽलसो ऽत्यर्थदुष्टास् तु दोषा दुष्टामबद्धखाः । (१२।१)

so 'laso 'tyarthaduṣṭās tu doṣā duṣṭāmabaddhakhāḥ |

12.2१२.२

यान्तस् तिर्यक् तनुं सर्वां दण्डवत् स्तम्भयन्ति चेत् ॥ (१२।२)

yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet ||

13.1१३.१

दण्डकालसकं नाम तं त्यजेद् आशुकारिणम् । (१३।१)

daṇḍakālasakaṃ nāma taṃ tyajed āśukāriṇam |

13.2१३.२

विरुद्धाध्यशनाजीर्णशीलिनो विषलक्षणम् ॥ (१३।२)

viruddhādhyaśanājīrṇaśīlino viṣalakṣaṇam ||

14.1१४.१

आमदोषं महाघोरं वर्जयेद् विषसंज्ञकम् । (१४।१)

āmadoṣaṃ mahāghoraṃ varjayed viṣasaṃjñakam |

14.2१४.२

विषरूपाशुकारित्वाद् विरुद्धोपक्रमत्वतः ॥ (१४।२)

viṣarūpāśukāritvād viruddhopakramatvataḥ ||

15.1१५.१

अथामम् अलसीभूतं साध्यं त्वरितम् उल्लिखेत् । (१५।१)

athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet |

15.2१५.२

पीत्वा सोग्रापटुफलं वार्य् उष्णं योजयेत् ततः ॥ (१५।२)

pītvā sogrāpaṭuphalaṃ vāry uṣṇaṃ yojayet tataḥ ||

16.1१६.१

स्वेदनं फलवर्तिं च मलवातानुलोमनीम् । (१६।१)

svedanaṃ phalavartiṃ ca malavātānulomanīm |

16.2१६.२

नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥ (१६।२)

nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet ||

17.1१७.१

विषूच्याम् अतिवृद्धायां पार्ष्ण्योर् दाहः प्रशस्यते । (१७।१)

viṣūcyām ativṛddhāyāṃ pārṣṇyor dāhaḥ praśasyate |

17.2१७.२

तदहश् चोपवास्यैनं विरिक्तवद् उपाचरेत् ॥ (१७।२)

tadahaś copavāsyainaṃ viriktavad upācaret ||

18.1१८.१

तीव्रार्तिर् अपि नाजीर्णी पिबेच् छूलघ्नम् औषधम् । (१८।१)

tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham |

18.2१८.२

आमसन्नो ऽनलो नालं पक्तुं दोषौषधाशनम् ॥ (१८।२)

āmasanno 'nalo nālaṃ paktuṃ doṣauṣadhāśanam ||

19.1१९.१

निहन्याद् अपि चैतेषां विभ्रमः सहसातुरम् । (१९।१)

nihanyād api caiteṣāṃ vibhramaḥ sahasāturam |

19.2१९.२

जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे ॥ (१९।२)

jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare ||

20.1२०.१

दोषशेषस्य पाकार्थम् अग्नेः संधुक्षणाय च । (२०।१)

doṣaśeṣasya pākārtham agneḥ saṃdhukṣaṇāya ca |

20.2२०.२

शान्तिर् आमविकाराणां भवति त्व् अपतर्पणात् ॥ (२०।२)

śāntir āmavikārāṇāṃ bhavati tv apatarpaṇāt ||

21.1२१.१

त्रिविधं त्रिविधे दोषे तत् समीक्ष्य प्रयोजयेत् । (२१।१)

trividhaṃ trividhe doṣe tat samīkṣya prayojayet |

21.2२१.२

तत्राल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम् ॥ (२१।२)

tatrālpe laṅghanaṃ pathyaṃ madhye laṅghanapācanam ||

22.1२२.१

प्रभूते शोधनं तद्धि मूलाद् उन्मूलयेन् मलान् । (२२।१)

prabhūte śodhanaṃ taddhi mūlād unmūlayen malān |

22.2२२.२

एवम् अन्यान् अपि व्याधीन् स्वनिदानविपर्ययात् ॥ (२२।२)

evam anyān api vyādhīn svanidānaviparyayāt ||

23.1२३.१

चिकित्सेद् अनुबन्धे तु सति हेतुविपर्ययम् । (२३।१)

cikitsed anubandhe tu sati hetuviparyayam |

23.2२३.२

त्यक्त्वा यथायथं वैद्यो युञ्ज्याद् व्याधिविपर्ययम् ॥ (२३।२)

tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam ||

24.1२४.१

तदर्थकारि वा पक्वे दोषे त्व् इद्धे च पावके । (२४।१)

tadarthakāri vā pakve doṣe tv iddhe ca pāvake |

24.2२४.२

हितम् अभ्यञ्जनस्नेहपानवस्त्यादि युक्तितः ॥ (२४।२)

hitam abhyañjanasnehapānavastyādi yuktitaḥ ||

25.1२५.१

अजीर्णं च कफाद् आमं तत्र शोफो ऽक्षिगण्डयोः । (२५।१)

ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ |

25.2२५.२

सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम् ॥ (२५।२)

sadyobhukta ivodgāraḥ prasekotkleśagauravam ||

26.1२६.१

विष्टब्धम् अनिलाच् छूलविबन्धाध्मानसादकृत् । (२६।१)

viṣṭabdham anilāc chūlavibandhādhmānasādakṛt |

26.2२६.२

पित्ताद् विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत् ॥ (२६।२)

pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat ||

27.1२७.१

लङ्घनं कार्यम् आमे तु विष्टब्धे स्वेदनं भृशम् । (२७।१)

laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam |

27.2२७.२

विदग्धे वमनं यद् वा यथावस्थं हितं भवेत् ॥ (२७।२)

vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet ||

28.1२८.१

गरीयसो भवेल् लीनाद् आमाद् एव विलम्बिका । (२८।१)

garīyaso bhavel līnād āmād eva vilambikā |

28.2२८.२

कफवातानुबद्धामलिङ्गा तत्समसाधना ॥ (२८।२)

kaphavātānubaddhāmaliṅgā tatsamasādhanā ||

29.1२९.१

अश्रद्धा हृद्व्यथा शुद्धे ऽप्य् उद्गारे रसशेषतः । (२९।१)

aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ |

29.2२९.२

शयीत किंचिद् एवात्र सर्वश् चानाशितो दिवा ॥ (२९।२)

śayīta kiṃcid evātra sarvaś cānāśito divā ||

30.1३०.१

स्वप्याद् अजीर्णी संजातबुभुक्षो ऽद्यान् मितं लघु । (३०।१)

svapyād ajīrṇī saṃjātabubhukṣo 'dyān mitaṃ laghu |

30.2३०.२

विबन्धो ऽतिप्रवृत्तिर् वा ग्लानिर् मारुतमूढता ॥ (३०।२)

vibandho 'tipravṛttir vā glānir mārutamūḍhatā ||

31.1३१.१

अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः । (३१।१)

ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ |

31.2३१.२

न चातिमात्रम् एवान्नम् आमदोषाय केवलम् ॥ (३१।२)

na cātimātram evānnam āmadoṣāya kevalam ||

32.1३२.१

द्विष्टविष्टम्भिदग्धामगुरुरूक्षहिमाशुचि । (३२।१)

dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci |

32.2३२.२

विदाहि शुष्कम् अत्यम्बुप्लुतं चान्नं न जीर्यति ॥ (३२।२)

vidāhi śuṣkam atyambuplutaṃ cānnaṃ na jīryati ||

33.1३३.१

उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः । (३३।१)

upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ |

33.2३३.२

मिश्रं पथ्यम् अपथ्यं च भुक्तं समशनं मतम् ॥ (३३।२)

miśraṃ pathyam apathyaṃ ca bhuktaṃ samaśanaṃ matam ||

34.1३४.१

विद्याद् अध्यशनं भूयो भुक्तस्योपरि भोजनम् । (३४।१)

vidyād adhyaśanaṃ bhūyo bhuktasyopari bhojanam |

34.2३४.२

अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम् ॥ (३४।२)

akāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam ||

35.1३५.१

त्रीण्य् अप्य् एतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा । (३५।१)

trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā |

35.2३५.२

काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्मनाः ॥ (३५।२)

kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tanmanāḥ ||

36.1३६.१

षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम् । (३६।१)

ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam |

36.2३६.२

स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः ॥ (३६।२)

snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ ||

37.1३७.१

तर्पयित्वा पितॄन् देवान् अतिथीन् बालकान् गुरून् । (३७।१)

tarpayitvā pitṝn devān atithīn bālakān gurūn |

37.2३७.२

प्रत्यवेक्ष्य तिरश्चो ऽपि प्रतिपन्नपरिग्रहान् ॥ (३७।२)

pratyavekṣya tiraśco 'pi pratipannaparigrahān ||

38.1३८.१

समीक्ष्य सम्यग् आत्मानम् अनिन्दन्न् अब्रुवन् द्रवम् । (३८।१)

samīkṣya samyag ātmānam anindann abruvan dravam |

38.2३८.२

इष्टम् इष्टैः सहाश्नीयाच् छुचिभक्तजनाहृतम् ॥ (३८।२)

iṣṭam iṣṭaiḥ sahāśnīyāc chucibhaktajanāhṛtam ||

39.1३९.१

भोजनं तृणकेशादिजुष्टम् उष्णीकृतं पुनः । (३९।१)

bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ |

39.2३९.२

शाकावरान्नभूयिष्ठम् अत्युष्णलवणं त्यजेत् ॥ (३९।२)

śākāvarānnabhūyiṣṭham atyuṣṇalavaṇaṃ tyajet ||

40.2४०.२

कृशशुष्कवराहाविगोमत्स्यमहिषामिषम् ॥ (४०।२)

kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam ||

41.1४१.१

माषनिष्पावशालूकबिसपिष्टविरूढकम् । (४१।१)

māṣaniṣpāvaśālūkabisapiṣṭavirūḍhakam |

41.2४१.२

शुष्कशाकानि यवकान् फाणितं च न शीलयेत् ॥ (४१।२)

śuṣkaśākāni yavakān phāṇitaṃ ca na śīlayet ||

42.1४२.१

शीलयेच् छालिगोधूमयवषष्टिकजाङ्गलम् । (४२।१)

śīlayec chāligodhūmayavaṣaṣṭikajāṅgalam |

42.2४२.२

सुनिषण्णकजीवन्तीबालमूलकवास्तुकम् ॥ (४२।२)

suniṣaṇṇakajīvantībālamūlakavāstukam ||

43.1४३.१

पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः । (४३।१)

pathyāmalakamṛdvīkāpaṭolīmudgaśarkarāḥ |

43.2४३.२

घृतदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम् ॥ (४३।२)

ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam ||

44.1४४.१

त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च । (४४।१)

triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca |

44.2४४.२

स्वास्थ्यानुवृत्तिकृद् यच् च रोगोच्छेदकरं च यत् ॥ (४४।२)

svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat ||

45.1४५.१

बिसेक्षुमोचचोचाम्रमोदकोत्कारिकादिकम् । (४५।१)

bisekṣumocacocāmramodakotkārikādikam |

45.2४५.२

अद्याद् द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ॥ (४५।२)

adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ ||

46.1४६.१

विपरीतम् अतश् चान्ते मध्ये ऽम्ललवणोत्कटम् । (४६।१)

viparītam ataś cānte madhye 'mlalavaṇotkaṭam |

46.2४६.२

अन्नेन कुक्षेर् द्वाव् अंशौ पानेनैकं प्रपूरयेत् ॥ (४६।२)

annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet ||

47.1४७.१

आश्रयं पवनादीनां चतुर्थम् अवशेषयेत् । (४७।१)

āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet |

47.2४७.२

अनुपानं हिमं वारि यवगोधूमयोर् हितम् ॥ (४७।२)

anupānaṃ himaṃ vāri yavagodhūmayor hitam ||

48.1४८.१

दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्टमयेषु तु । (४८।१)

dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭamayeṣu tu |

48.2४८.२

शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम् ॥ (४८।२)

śākamudgādivikṛtau mastutakrāmlakāñjikam ||

49.1४९.१

सुरा कृशानां पुष्ट्यर्थं स्थूलानां तु मधूदकम् । (४९।१)

surā kṛśānāṃ puṣṭyarthaṃ sthūlānāṃ tu madhūdakam |

49.2४९.२

शोषे मांसरसो मद्यं मांसे स्वल्पे च पावके ॥ (४९।२)

śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake ||

50.1५०.१

व्याध्यौषधाध्वभाष्यस्त्रीलङ्घनातपकर्मभिः । (५०।१)

vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ |

50.2५०.२

क्षीणे वृद्धे च बाले च पयः पथ्यं यथामृतम् ॥ (५०।२)

kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam ||

51.1५१.१

विपरीतं यद् अन्नस्य गुणैः स्याद् अविरोधि च । (५१।१)

viparītaṃ yad annasya guṇaiḥ syād avirodhi ca |

51.2५१.२

अनुपानं समासेन सर्वदा तत् प्रशस्यते ॥ (५१।२)

anupānaṃ samāsena sarvadā tat praśasyate ||

52.1५२.१

अनुपानं करोत्य् ऊर्जां तृप्तिं व्याप्तिं दृढाङ्गताम् । (५२।१)

anupānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅgatām |

52.2५२.२

अन्नसंघातशैथिल्यविक्लित्तिजरणानि च ॥ (५२।२)

annasaṃghātaśaithilyaviklittijaraṇāni ca ||

53.1५३.१

नोर्ध्वजत्रुगदश्वासकासोरःक्षतपीनसे । (५३।१)

nordhvajatrugadaśvāsakāsoraḥkṣatapīnase |

53.2५३.२

गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम् ॥ (५३।२)

gītabhāṣyaprasaṅge ca svarabhede ca taddhitam ||

54.1५४.१

प्रक्लिन्नदेहमेहाक्षिगलरोगव्रणातुराः । (५४।१)

praklinnadehamehākṣigalarogavraṇāturāḥ |

54.2५४.२

पानं त्यजेयुः सर्वश् च भाष्याध्वशयनं त्यजेत् ॥ (५४।२)

pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet ||

55.1५५.१

पीत्वा भुक्त्वातपं वह्निं यानं प्लवनवाहनम् । (५५।१)

pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam |

55.2५५.२

प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे । (५५।२)

prasṛṣṭe viṇmūtre hṛdi suvimale doṣe svapathage |

55.3५५.३

विशुद्धे चोद्गारे क्षुदुपगमने वाते ऽनुसरति । (५५।३)

viśuddhe codgāre kṣudupagamane vāte 'nusarati |

55.4५५.४

तथाग्नाव् उद्रिक्ते विशदकरणे देहे च सुलघौ ॥ (५५।४)

tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau ||

56.1५६.१

प्रयुञ्जीताहारं विधिनियमितं कालः स हि मतः ॥ (५६।१)

prayuñjītāhāraṃ vidhiniyamitaṃ kālaḥ sa hi mataḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 8

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit