अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 10
Select a line for its word-by-word analysis.
अथातः संधिसितासितरोगविज्ञानीयं व्याख्यास्यामः । (१।१)
athātaḥ saṃdhisitāsitarogavijñānīyaṃ vyākhyāsyāmaḥ |
वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः । (१।३)
vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ |
अश्रु स्रावयते वर्त्मशुक्लसंधेः कनीनकात् ॥ (१।४)
aśru srāvayate vartmaśuklasaṃdheḥ kanīnakāt ||
तेन नेत्रं सरुग्रागशोफं स्यात् स जलास्रवः । (२।१)
tena netraṃ sarugrāgaśophaṃ syāt sa jalāsravaḥ |
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् ॥ (२।२)
kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet ||
कफेन शोफस् तीक्ष्णाग्रः क्षारबुद्बुदकोपमः । (३।१)
kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ |
पृथुमूलबलः स्निग्धः सवर्णो मृदुपिच्छिलः ॥ (३।२)
pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ ||
रक्ताद् रक्तास्रावे ताम्रं बहूष्णं चाश्रु संस्रवेत् ॥ (४।२)
raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet ||
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ॥ (५।२)
tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī ||
पूयास्रवे मलाः सास्रा वर्त्मसंधेः कनीनकात् । (६।१)
pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt |
स्रावयन्ति मुहुः पूयं सास्रं त्वङ्मांसपाकतः ॥ (६।२)
srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅmāṃsapākataḥ ||
पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः । (७।१)
pūyālaso vraṇaḥ sūkṣmaḥ śophasaṃrambhapūrvakaḥ |
पूयास्रावी कृमिग्रन्थिर् ग्रन्थिः कृमियुतो ऽर्तिमान् । (९।१)
pūyāsrāvī kṛmigranthir granthiḥ kṛmiyuto 'rtimān |
शस्त्रेण साधयेत् पञ्च सालजीन् आस्रवांस् त्यजेत् । (१०।१)
śastreṇa sādhayet pañca sālajīn āsravāṃs tyajet |
पित्तं कुर्यात् सिते बिन्दून् असितश्यावपीतकान् ॥ (१०।२)
pittaṃ kuryāt site bindūn asitaśyāvapītakān ||
मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक् । (११।१)
malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk |
रोगो ऽयं शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः ॥ (११।२)
rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ ||
कफाच्छुक्ले समं श्वेतं चिरवृद्ध्यधिमांसकम् । (१२।१)
kaphācchukle samaṃ śvetaṃ ciravṛddhyadhimāṃsakam |
शुक्लार्म शोफस् त्वरुजः सवर्णो बहलो ऽमृदुः ॥ (१२।२)
śuklārma śophas tvarujaḥ savarṇo bahalo 'mṛduḥ ||
गुरुः स्निग्धो ऽम्बुबिन्द्वाभो बलासग्रथितं स्मृतं । (१३।१)
guruḥ snigdho 'mbubindvābho balāsagrathitaṃ smṛtaṃ |
बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत् ॥ (१३।२)
bindubhiḥ piṣṭadhavalairutsannaiḥ piṣṭakaṃ vadet ||
उपेक्षितः सिरोत्पातो राजीस् ता एव वर्धयन् । (१५।१)
upekṣitaḥ sirotpāto rājīs tā eva vardhayan |
कुर्यात् सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम् ॥ (१५।२)
kuryāt sāsraṃ sirāharṣaṃ tenākṣyudvīkṣaṇākṣamam ||
सिराजाले सिराजालं बृहद् रक्तं घनोन्नतम् । (१६।१)
sirājāle sirājālaṃ bṛhad raktaṃ ghanonnatam |
शोणितार्म समं श्लक्ष्णं पद्माभम् अधिमांसकम् ॥ (१६।२)
śoṇitārma samaṃ ślakṣṇaṃ padmābham adhimāṃsakam ||
नीरुक् श्लक्ष्णो ऽर्जुनं बिन्दुः शशलोहितलोहितः । (१७।१)
nīruk ślakṣṇo 'rjunaṃ binduḥ śaśalohitalohitaḥ |
मृद्वाशुवृद्ध्यरुङ्मांसं प्रस्तारि श्यावलोहितम् ॥ (१७।२)
mṛdvāśuvṛddhyaruṅmāṃsaṃ prastāri śyāvalohitam ||
प्रस्तार्यर्म मलैः सास्रैः स्नावार्म स्नावसंनिभम् । (१८।१)
prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṃnibham |
शुष्कासृक्पिण्डवच्छ्यावं यन् मांसं बहलं पृथु ॥ (१८।२)
śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu ||
अधिमांसार्म तद् दाहघर्षवत्यः सिरावृताः । (१९।१)
adhimāṃsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ |
कृष्णासन्नाः सिरासंज्ञाः पिटिकाः सर्षपोपमाः ॥ (१९।२)
kṛṣṇāsannāḥ sirāsaṃjñāḥ piṭikāḥ sarṣapopamāḥ ||
साधयेद् औषधैः षट्कं शेषं शस्त्रेण सप्तकम् ॥ (२०।२)
sādhayed auṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam ||
नवोत्थं तद् अपि द्रव्यैरर्मोक्तं यच्च पञ्चधा । (२१।१)
navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā |
तच्छेद्यम् असितप्राप्तं मांसस्नावसिरावृतम् ॥ (२१।२)
tacchedyam asitaprāptaṃ māṃsasnāvasirāvṛtam ||
चर्मोद्दालवद् उच्छ्रायि दृष्टिप्राप्तं च वर्जयेत् । (२२।१)
carmoddālavad ucchrāyi dṛṣṭiprāptaṃ ca varjayet |
पित्तं कृष्णे ऽथवा दृष्टौ शुक्रं तोदाश्रुरागवत् ॥ (२२।२)
pittaṃ kṛṣṇe 'thavā dṛṣṭau śukraṃ todāśrurāgavat ||
छित्त्वा त्वचं जनयति तेन स्यात् कृष्णमण्डलम् । (२३।१)
chittvā tvacaṃ janayati tena syāt kṛṣṇamaṇḍalam |
पक्वजम्बूनिभं किंचिन् निम्नं च क्षतशुक्रकम् ॥ (२३।२)
pakvajambūnibhaṃ kiṃcin nimnaṃ ca kṣataśukrakam ||
तत् कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात् । (२४।१)
tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt |
तृतीयपटलच्छेदाद् असाध्यं निचितं व्रणैः । (२५।१)
tṛtīyapaṭalacchedād asādhyaṃ nicitaṃ vraṇaiḥ |
शङ्खशुक्लं कफात् साध्यं नातिरुक् शुद्धशुक्रकम् ॥ (२५।२)
śaṅkhaśuklaṃ kaphāt sādhyaṃ nātiruk śuddhaśukrakam ||
आताम्रपिच्छिलास्रस्रुद् आताम्रपिटिकातिरुक् । (२६।१)
ātāmrapicchilāsrasrud ātāmrapiṭikātiruk |
अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्यासृजाजका ॥ (२६।२)
ajāviṭsadṛśocchrāyakārṣṇyā varjyāsṛjājakā ||
सिराशुक्रं मलैः सास्रैस् तज्जुष्टं कृष्णमण्डलम् । (२७।१)
sirāśukraṃ malaiḥ sāsrais tajjuṣṭaṃ kṛṣṇamaṇḍalam |
अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत् त्यजेत् । (२८।१)
animittoṣṇaśītācchaghanāsrasrucca tat tyajet |
दोषैः सास्रैः सकृत् कृष्णं नीयते शुक्लरूपताम् ॥ (२८।२)
doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śuklarūpatām ||
पाकात्ययेन तच्छुक्रं वर्जयेत् तीव्रवेदनम् । (३०।१)
pākātyayena tacchukraṃ varjayet tīvravedanam |
यस्य वा लिङ्गनाशो ऽन्तः श्यावं यद् वा सलोहितम् ॥ (३०।२)
yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam ||
अत्युत्सेधावगाढं वा साश्रु नाडीव्रणावृतम् । (३१।१)
atyutsedhāvagāḍhaṃ vā sāśru nāḍīvraṇāvṛtam |
पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम् । (३१।२)
purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam |
पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः ॥ (३१।३)
pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.