अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 4, 20

72 of 120 · 72 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः । (१।१)

athātaḥ śvitrakṛmicikitsitaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

कुष्ठाद् अपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम् । (१।३)

kuṣṭhād api bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam |

1.4१.४

श्वित्रम् अतस् तच्छान्त्यै यतेत दीप्ते यथा भवने ॥ (१।४)

śvitram atas tacchāntyai yateta dīpte yathā bhavane ||

2.1२.१

संशोधनं विशेषात् प्रयोजयेत् पूर्वम् एव देहस्य । (२।१)

saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya |

2.2२.२

श्वित्रे स्रंसनम् अग्र्यं मलयूरस इष्यते सगुडः ॥ (२।२)

śvitre sraṃsanam agryaṃ malayūrasa iṣyate saguḍaḥ ||

3.1३.१

तं पीत्वाभ्यक्ततनुर् यथाबलं सूर्यपादसंतापम् । (३।१)

taṃ pītvābhyaktatanur yathābalaṃ sūryapādasaṃtāpam |

3.2३.२

सेवेत विरिक्ततनुस् त्र्यहं पिपासुः पिबेत् पेयाम् ॥ (३।२)

seveta viriktatanus tryahaṃ pipāsuḥ pibet peyām ||

4.1४.१

श्वित्रे ऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात् । (४।१)

śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt |

4.2४.२

स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत् त्रिदिनम् ॥ (४।२)

sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam ||

5.1५.१

मलयूम् असनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य । (५।१)

malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya |

5.2५.२

पालाशं वा क्षारं यथाबलं फाणितोपेतम् ॥ (५।२)

pālāśaṃ vā kṣāraṃ yathābalaṃ phāṇitopetam ||

6.1६.१

फल्ग्वक्षवृक्षवल्कलनिर्यूहेणेन्दुराजिकाकल्कम् । (६।१)

phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam |

6.2६.२

पीत्वोष्णस्थितस्य जाते स्फोटे तक्रेण भोजनं निर्लवणम् ॥ (६।२)

pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam ||

7.1७.१

गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे स्थापितं क्षौद्रमिश्रम् । (७।१)

gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram |

7.2७.२

पक्षाद् ऊर्ध्वं श्वित्रिणा पेयम् एतत् कार्यं चास्मै कुष्ठदिष्टं विधानम् ॥ (७।२)

pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam ||

8.1८.१

मार्कवम् अथवा खादेद् भृष्टं तैलेन लोहपात्रस्थम् । (८।१)

mārkavam athavā khāded bhṛṣṭaṃ tailena lohapātrastham |

8.2८.२

बीजकशृतं च दुग्धं तदनु पिबेच्छ्वित्रनाशाय ॥ (८।२)

bījakaśṛtaṃ ca dugdhaṃ tadanu pibecchvitranāśāya ||

9.1९.१

पूतीकार्कव्याधिघातस्नुहीनां मूत्रे पिष्टाः पल्लवा जातिजाश्च । (९।१)

pūtīkārkavyādhighātasnuhīnāṃ mūtre piṣṭāḥ pallavā jātijāśca |

9.2९.२

घ्नन्त्यालेपाच्छ्वित्रदुर्नामदद्रूपामाकोठान् दुष्टनाडीव्रणांश्च ॥ (९।२)

ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca ||

10.1१०.१

द्वैपं दग्धं चर्म मातङ्गजं वा श्वित्रे लेपस् तैलयुक्तो वरिष्ठः । (१०।१)

dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ |

10.2१०.२

पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रम् एको ऽपि हन्ति ॥ (१०।२)

pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti ||

11.1११.१

रात्रौ गोमूत्रे वासितान् जर्जराङ्गान् अह्नि छायायां शोषयेत् स्फोटहेतून् । (११।१)

rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn |

11.2११.२

एवं वारांस् त्रींस् तैस् ततः श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः ॥ (११।२)

evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ ||

12.1१२.१

अक्षतैलद्रुता लेपः कृष्णसर्पोद्भवा मषी । (१२।१)

akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī |

12.2१२.२

शिखिपित्तं तथा दग्धं ह्रीवेरं वा तदाप्लुतम् ॥ (१२।२)

śikhipittaṃ tathā dagdhaṃ hrīveraṃ vā tadāplutam ||

13.1१३.१

कुडवो ऽवल्गुजबीजाद्धरितालचतुर्भागसंमिश्रः । (१३।१)

kuḍavo 'valgujabījāddharitālacaturbhāgasaṃmiśraḥ |

13.2१३.२

मूत्रेण गवां पिष्टः सवर्णकरणं परं श्वित्रे ॥ (१३।२)

mūtreṇa gavāṃ piṣṭaḥ savarṇakaraṇaṃ paraṃ śvitre ||

14.1१४.१

क्षारे सुदग्धे गजलिण्डजे च गजस्य मूत्रेण परिस्रुते च । (१४।१)

kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca |

14.2१४.२

द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद् बीजम् अवल्गुजानाम् ॥ (१४।२)

droṇapramāṇe daśabhāgayuktaṃ dattvā paced bījam avalgujānām ||

15.1१५.१

श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिम्पन् बहुशः प्रघृष्टं । (१५।१)

śvitraṃ jayeccikkaṇatāṃ gatena tena pralimpan bahuśaḥ praghṛṣṭaṃ |

15.2१५.२

कुष्ठं मषं वा तिलकालकं वा यद् वा व्रणे स्याद् अधिमांसजातम् ॥ (१५।२)

kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam ||

16.1१६.१

भल्लातकं द्वीपिसुधार्कमूलं गुञ्जाफलं त्र्यूषणशङ्खचूर्णम् । (१६।१)

bhallātakaṃ dvīpisudhārkamūlaṃ guñjāphalaṃ tryūṣaṇaśaṅkhacūrṇam |

16.2१६.२

तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा ॥ (१६।२)

tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā ||

17.1१७.१

स्नुगर्कदुग्धे घनम् आयसस्थं शलाकया तद् विदधीत लेपम् । (१७।१)

snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam |

17.2१७.२

कुष्ठे किलासे तिलकालकेषु मषेषु दुर्नामसु चर्मकीले ॥ (१७।२)

kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle ||

18.1१८.१

शुद्ध्या शोणितमोक्षैर् विरूक्षणैर् भक्षणैश्च सक्तूनाम् । (१८।१)

śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām |

18.2१८.२

श्वित्रं कस्यचिद् एव प्रशाम्यति क्षीणपापस्य ॥ (१८।२)

śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya ||

19.1१९.१

स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे । (१९।१)

snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare |

19.2१९.२

उत्क्लेशितकृमिकफे शर्वरीं तां सुखोषिते ॥ (१९।२)

utkleśitakṛmikaphe śarvarīṃ tāṃ sukhoṣite ||

20.1२०.१

सुरसादिगणं मूत्रे क्वाथयित्वार्धवारिणि । (२०।१)

surasādigaṇaṃ mūtre kvāthayitvārdhavāriṇi |

20.2२०.२

तं कषायं कणागालकृमिजित्कल्कयोजितम् ॥ (२०।२)

taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam ||

21.1२१.१

सतैलस्वर्जिकाक्षारं युञ्ज्याद् वस्तिं ततो ऽहनि । (२१।१)

satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani |

21.2२१.२

तस्मिन्न् एव निरूढं तं पाययेत विरेचनम् ॥ (२१।२)

tasminn eva nirūḍhaṃ taṃ pāyayeta virecanam ||

22.1२२.१

त्रिवृत्कल्कं फलकणाकषायालोडितं ततः । (२२।१)

trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ |

22.2२२.२

ऊर्ध्वाधःशोधिते कुर्यात् पञ्चकोलयुतं क्रमम् ॥ (२२।२)

ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam ||

23.1२३.१

कटुतिक्तकषायाणां कषायैः परिषेचनम् । (२३।१)

kaṭutiktakaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam |

23.2२३.२

काले विडङ्गतैलेन ततस् तम् अनुवासयेत् ॥ (२३।२)

kāle viḍaṅgatailena tatas tam anuvāsayet ||

24.1२४.१

शिरोरोगनिषेधोक्तम् आचरेन् मूर्धगेष्वनु । (२४।१)

śiroroganiṣedhoktam ācaren mūrdhageṣvanu |

24.2२४.२

उद्रिक्ततिक्तकटुकम् अल्पस्नेहं च भोजनम् ॥ (२४।२)

udriktatiktakaṭukam alpasnehaṃ ca bhojanam ||

25.1२५.१

विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः । (२५।१)

viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ |

25.2२५.२

पिबेत् सस्वर्जिकाक्षारैर् यवागूं तक्रसाधिताम् ॥ (२५।२)

pibet sasvarjikākṣārair yavāgūṃ takrasādhitām ||

26.1२६.१

रसं शिरीषकिणिहीपारिभद्रककेम्बुकात् । (२६।१)

rasaṃ śirīṣakiṇihīpāribhadrakakembukāt |

26.2२६.२

पलाशबीजपत्तूरपूतिकाद् वा पृथक् पिबेत् ॥ (२६।२)

palāśabījapattūrapūtikād vā pṛthak pibet ||

27.1२७.१

सक्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्रयुतान् पृथक् । (२७।१)

sakṣaudraṃ surasādīn vā lihyāt kṣaudrayutān pṛthak |

27.2२७.२

शतकृत्वो ऽश्वविट्चूर्णं विडङ्गक्वाथभावितम् ॥ (२७।२)

śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam ||

28.1२८.१

कृमिमान् मधुना लिह्याद् भावितं वा वरारसैः । (२८।१)

kṛmimān madhunā lihyād bhāvitaṃ vā varārasaiḥ |

28.2२८.२

शिरोगतेषु कृमिषु चूर्णं प्रधमनं च तत् ॥ (२८।२)

śirogateṣu kṛmiṣu cūrṇaṃ pradhamanaṃ ca tat ||

29.1२९.१

आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः । (२९।१)

ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ |

29.2२९.२

पक्त्वा पूपलिकां खादेद्धान्याम्लं च पिबेद् अनु ॥ (२९।२)

paktvā pūpalikāṃ khādeddhānyāmlaṃ ca pibed anu ||

30.1३०.१

सपञ्चकोललवणम् असान्द्रं तक्रम् एव वा । (३०।१)

sapañcakolalavaṇam asāndraṃ takram eva vā |

30.2३०.२

नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः ॥ (३०।२)

nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ ||

31.1३१.१

विडङ्गचूर्णमिश्रैर् वा पिष्टैर् भक्ष्यान् प्रकल्पयेत् । (३१।१)

viḍaṅgacūrṇamiśrair vā piṣṭair bhakṣyān prakalpayet |

31.2३१.२

विडङ्गतण्डुलैर् युक्तम् अर्धांशैरातपे स्थितम् ॥ (३१।२)

viḍaṅgataṇḍulair yuktam ardhāṃśairātape sthitam ||

32.1३२.१

दिनम् आरुष्करं तैलं पाने वस्तौ च योजयेत् । (३२।१)

dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet |

32.2३२.२

सुराह्वसरलस्नेहं पृथग् एवं च कल्पयेत् ॥ (३२।२)

surāhvasaralasnehaṃ pṛthag evaṃ ca kalpayet ||

33.1३३.१

पुरीषजेषु सुतरां दद्याद् वस्तिविरेचने । (३३।१)

purīṣajeṣu sutarāṃ dadyād vastivirecane |

33.2३३.२

शिरोविरेकं वमनं शमनं कफजन्मसु ॥ (३३।२)

śirovirekaṃ vamanaṃ śamanaṃ kaphajanmasu ||

34.1३४.१

रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सितात् । (३४।१)

raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt |

34.2३४.२

इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु ॥ (३४।२)

indraluptavidhiścātra vidheyo romabhojiṣu ||

35.1३५.१

क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति । (३५।१)

kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti |

35.2३५.२

समासतो ऽम्लान् मधुरान् रसांश्च कृमीञ् जिहासुः परिवर्जयेत ॥ (३५।२)

samāsato 'mlān madhurān rasāṃśca kṛmīñ jihāsuḥ parivarjayeta ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 4, 20

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit