अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 4, 3

55 of 120 · 362 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः कासचिकित्सितं व्याख्यास्यामः । (१।१)

athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

केवलानिलजं कासं स्नेहैरादावुपाचरेत् । (१।३)

kevalānilajaṃ kāsaṃ snehairādāvupācaret |

1.4१.४

वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः ॥ (१।४)

vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ ||

2.1२.१

लेहैर् धूमैस् तथाभ्यङ्गस्वेदसेकावगाहनैः । (२।१)

lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ |

2.2२.२

वस्तिभिर् बद्धविड्वातं सपित्तं तूर्ध्वभक्तिकैः ॥ (२।२)

vastibhir baddhaviḍvātaṃ sapittaṃ tūrdhvabhaktikaiḥ ||

3.1३.१

घृतैः क्षीरैश्च सकफं जयेत् स्नेहविरेचनैः । (३।१)

ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ |

3.2३.२

गुडूचीकण्टकारीभ्यां पृथक् त्रिंशत्पलाद् रसे ॥ (३।२)

guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalād rase ||

4.1४.१

प्रस्थः सिद्धो घृताद् वातकासनुद् वह्निदीपनः । (४।१)

prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ |

4.2४.२

क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः ॥ (४।२)

kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ ||

5.1५.१

द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत् । (५।१)

dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet |

5.2५.२

दशमूलस्य निर्यूहे पीतो मण्डानुपायिना ॥ (५।२)

daśamūlasya niryūhe pīto maṇḍānupāyinā ||

6.1६.१

स कासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत् । (६।१)

sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut |

6.2६.२

द्रोणे ऽपां साधयेद् रास्नादशमूलशतावरीः ॥ (६।२)

droṇe 'pāṃ sādhayed rāsnādaśamūlaśatāvarīḥ ||

7.1७.१

पलोन्मिता द्विकुडवं कुलत्थं बदरं यवं । (७।१)

palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavaṃ |

7.2७.२

तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम् ॥ (७।२)

tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam ||

8.1८.१

समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत् । (८।१)

samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat |

8.2८.२

प्रयुक्तं वातरोगेषु पाननावनवस्तिभिः ॥ (८।२)

prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ ||

9.1९.१

पञ्चकासाञ्छिरःकम्पं योनिवङ्क्षणवेदनाम् । (९।१)

pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām |

9.2९.२

सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ् जयेत् ॥ (९।२)

sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet ||

10.1१०.१

विदार्यादिगणक्वाथकल्कसिद्धं च कासजित् । (१०।१)

vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit |

10.2१०.२

अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः ॥ (१०।२)

aśokabījakṣavakajantughnāñjanapadmakaiḥ ||

11.1११.१

सविडैश्च घृतं सिद्धं तच्चूर्णं वा घृतप्लुतम् । (११।१)

saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam |

11.2११.२

लिह्यात् पयश्चानुपिबेद् आजं कासातिपीडितः ॥ (११।२)

lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ ||

12.1१२.१

विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् । (१२।१)

viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam |

12.2१२.२

भार्गी क्षारश्च तच्चूर्णं पिबेद् वा घृतमात्रया ॥ (१२।२)

bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā ||

13.1१३.१

सकफे ऽनिलजे कासे श्वासहिध्माहताग्निषु । (१३।१)

sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu |

13.2१३.२

दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ॥ (१३।२)

durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām ||

14.1१४.१

लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे । (१४।१)

lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje |

14.2१४.२

दुःस्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकीं शठीम् ॥ (१४।२)

duḥsparśāṃ pippalīṃ mustāṃ bhārgīṃ karkaṭakīṃ śaṭhīm ||

15.1१५.१

पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत् । (१५।१)

purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet |

15.2१५.२

तद्वत् सकृष्णां शुण्ठीं च सभार्गीं तद्वद् एव च ॥ (१५।२)

tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca ||

16.1१६.१

पिबेच्च कृष्णां कोष्णेन सलिलेन ससैन्धवाम् । (१६।१)

pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām |

16.2१६.२

मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम् ॥ (१६।२)

mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām ||

17.1१७.१

पिबेद् बदरमज्ज्ञो वा मदिरादधिमस्तुभिः । (१७।१)

pibed badaramajjño vā madirādadhimastubhiḥ |

17.2१७.२

अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ॥ (१७।२)

athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam ||

18.1१८.१

कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत् । (१८।१)

kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet |

18.2१८.२

हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः ॥ (१८।२)

hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ ||

19.1१९.१

ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान् । (१९।१)

grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān |

19.2१९.२

रसैर् माषात्मगुप्तानां यूषैर् वा भोजयेद्धितान् ॥ (१९।२)

rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān ||

20.1२०.१

यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः । (२०।१)

yavānīpippalībilvamadhyanāgaracitrakaiḥ |

20.2२०.२

रास्नाजाजीपृथक्पर्णीपलाशशठिपौष्करैः ॥ (२०।२)

rāsnājājīpṛthakparṇīpalāśaśaṭhipauṣkaraiḥ ||

21.1२१.१

सिद्धां स्निग्धाम्ललवणां पेयाम् अनिलजे पिबेत् । (२१।१)

siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet |

21.2२१.२

कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशनीम् ॥ (२१।२)

kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm ||

22.1२२.१

दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम् । (२२।१)

daśamūlarase tadvat pañcakolaguḍānvitām |

22.2२२.२

पिबेत् पेयां समतिलां क्षैरेयीं वा ससैन्धवाम् ॥ (२२।२)

pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām ||

23.1२३.१

मात्स्यकौक्कुटवाराहैर् मांसैर् वा साज्यसैन्धवाम् । (२३।१)

mātsyakaukkuṭavārāhair māṃsair vā sājyasaindhavām |

23.2२३.२

वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः ॥ (२३।२)

vāstuko vāyasīśākaṃ kāsaghnaḥ suniṣaṇṇakaḥ ||

24.1२४.१

कण्टकार्याः फलं पत्त्रं बालं शुष्कं च मूलकम् । (२४।१)

kaṇṭakāryāḥ phalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam |

24.2२४.२

स्नेहास् तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ॥ (२४।२)

snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ ||

25.1२५.१

दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत् । (२५।१)

dadhimastvāranālāmlaphalāmbumadirāḥ pibet |

25.2२५.२

पित्तकासे तु सकफे वमनं सर्पिषा हितम् ॥ (२५।२)

pittakāse tu sakaphe vamanaṃ sarpiṣā hitam ||

26.1२६.१

तथा मदनकाश्मर्यमधुकक्वथितैर् जलैः । (२६।१)

tathā madanakāśmaryamadhukakvathitair jalaiḥ |

26.2२६.२

फलयष्ट्याह्वकल्कैर् वा विदारीक्षुरसाप्लुतैः ॥ (२६।२)

phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ ||

27.1२७.१

पित्तकासे तनुकफे त्रिवृतां मधुरैर् युताम् । (२७।१)

pittakāse tanukaphe trivṛtāṃ madhurair yutām |

27.2२७.२

युञ्ज्याद् विरेकाय युतां घनश्लेष्मणि तिक्तकैः ॥ (२७।२)

yuñjyād virekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ ||

28.1२८.१

हृतदोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत् । (२८।१)

hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet |

28.2२८.२

घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् ॥ (२८।२)

ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam ||

29.1२९.१

लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः । (२९।१)

lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ |

29.2२९.२

सघृतः सानिले हितः सकफे साब्दमरिचः ॥ (२९।२)

saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ ||

30.1३०.१

मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम् । (३०।१)

mṛdvīkārdhaśataṃ triṃśatpippalīḥ śarkarāpalam |

30.2३०.२

लेहयेन् मधुना गोर् वा क्षीरपस्य शकृद्रसम् ॥ (३०।२)

lehayen madhunā gor vā kṣīrapasya śakṛdrasam ||

31.1३१.१

त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः । (३१।१)

tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ |

31.2३१.२

लाजमुस्ताशठीरास्नाधात्रीफलविभीतकैः ॥ (३१।२)

lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ ||

32.1३२.१

शर्कराक्षौद्रसर्पिर्भिर् लेहो हृद्रोगकासहा । (३२।१)

śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā |

32.2३२.२

मधुरैर् जाङ्गलरसैर् यवश्यामाककोद्रवाः ॥ (३२।२)

madhurair jāṅgalarasair yavaśyāmākakodravāḥ ||

33.1३३.१

मुद्गादियूषैः शाकैश्च तिक्तकैर् मात्रया हिताः । (३३।१)

mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ |

33.2३३.२

घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः ॥ (३३।२)

ghanaśleṣmaṇi lehāśca tiktakā madhusaṃyutāḥ ||

34.1३४.१

शालयः स्युस् तनुकफे षष्टिकाश्च रसादिभिः । (३४।१)

śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ |

34.2३४.२

शर्कराम्भो ऽनुपानार्थं द्राक्षेक्षुस्वरसाः पयः ॥ (३४।२)

śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ ||

35.1३५.१

काकोलीबृहतीमेदाद्वयैः सवृषनागरैः । (३५।१)

kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ |

35.2३५.२

पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत् ॥ (३५।२)

pittakāse rasakṣīrapeyāyūṣān prakalpayet ||

36.1३६.१

द्राक्षां कणां पञ्चमूलं तृणाख्यं च पचेज्जले । (३६।१)

drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale |

36.2३६.२

तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम् ॥ (३६।२)

tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram ||

37.1३७.१

साधितां तेन पेयां वा सुशीतां मधुनान्विताम् । (३७।१)

sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām |

37.2३७.२

शठीह्रीवेरबृहतीशर्कराविश्वभेषजम् ॥ (३७।२)

śaṭhīhrīverabṛhatīśarkarāviśvabheṣajam ||

38.1३८.१

पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृतमूर्छितम् । (३८।१)

piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam |

38.2३८.२

मेदां विदारीं काकोलीं स्वयङ्गुप्ताफलं बलाम् ॥ (३८।२)

medāṃ vidārīṃ kākolīṃ svayaṅguptāphalaṃ balām ||

39.1३९.१

शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम् । (३९।१)

śarkarāṃ jīvakaṃ mudgamāṣaparṇyau durālabhām |

39.2३९.२

कल्कीकृत्य पचेत् सर्पिः क्षीरेणाष्टगुणेन तत् ॥ (३९।२)

kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat ||

40.1४०.१

पानभोजनलेहेषु प्रयुक्तं पित्तकासजित् । (४०।१)

pānabhojanaleheṣu prayuktaṃ pittakāsajit |

40.2४०.२

लिह्याद् वा चूर्णम् एतेषां कषायम् अथवा पिबेत् ॥ (४०।२)

lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet ||

41.1४१.१

कफकासी पिबेद् आदौ सुरकाष्ठात् प्रदीपितात् । (४१।१)

kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt |

41.2४१.२

स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम् ॥ (४१।२)

snehaṃ parisrutaṃ vyoṣayavakṣārāvacūrṇitam ||

42.1४२.१

स्निग्धं विरेचयेद् ऊर्ध्वम् अधो मूर्ध्नि च युक्तितः । (४२।१)

snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ |

42.2४२.२

तीक्ष्णैर् विरेकैर् बलिनं संसर्गीं चास्य योजयेत् ॥ (४२।२)

tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet ||

43.1४३.१

यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः । (४३।१)

yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ |

43.2४३.२

कासमर्दकवार्ताकव्याघ्रीक्षारकणान्वितैः ॥ (४३।२)

kāsamardakavārtākavyāghrīkṣārakaṇānvitaiḥ ||

44.1४४.१

धान्वबैलरसैः स्नेहैस् तिलसर्षपनिम्बजैः । (४४।१)

dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ |

44.2४४.२

दशमूलाम्बु घर्माम्बु मद्यं मध्वम्बु वा पिबेत् ॥ (४४।२)

daśamūlāmbu gharmāmbu madyaṃ madhvambu vā pibet ||

45.1४५.१

मूलैः पौष्करशम्याकपटोलैः संस्थितं निशाम् । (४५।१)

mūlaiḥ pauṣkaraśamyākapaṭolaiḥ saṃsthitaṃ niśām |

45.2४५.२

पिबेद् वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु ॥ (४५।२)

pibed vāri sahakṣaudraṃ kāleṣvannasya vā triṣu ||

46.1४६.१

पिप्पली पिप्पलीमूलं शृङ्गवेरं विभीतकम् । (४६।१)

pippalī pippalīmūlaṃ śṛṅgaveraṃ vibhītakam |

46.2४६.२

शिखिकुक्कुटपिच्छानां मषी क्षारो यवोद्भवः ॥ (४६।२)

śikhikukkuṭapicchānāṃ maṣī kṣāro yavodbhavaḥ ||

47.1४७.१

विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः । (४७।१)

viśālā pippalīmūlaṃ trivṛtā ca madhudravāḥ |

47.2४७.२

कफकासहरा लेहास् त्रयः श्लोकार्धयोजिताः ॥ (४७।२)

kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ ||

48.1४८.१

मधुना मरिचं लिह्यान् मधुनैव च जोङ्गकम् । (४८।१)

madhunā maricaṃ lihyān madhunaiva ca joṅgakam |

48.2४८.२

पृथग् रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान् ॥ (४८।२)

pṛthag rasāṃśca madhunā vyāghrīvārtākabhṛṅgajān ||

49.1४९.१

कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च । (४९।१)

kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca |

49.2४९.२

देवदारुशठीरास्नाकर्कटाख्यादुरालभाः ॥ (४९।२)

devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ ||

50.1५०.१

पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला । (५०।१)

pippalī nāgaraṃ mustaṃ pathyā dhātrī sitopalā |

50.2५०.२

लाजाः सितोपला सर्पिः शृङ्गी धात्रीफलोद्भवा ॥ (५०।२)

lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā ||

51.1५१.१

मधुतैलयुता लेहास् त्रयो वातानुगे कफे । (५१।१)

madhutailayutā lehās trayo vātānuge kaphe |

51.2५१.२

द्वे पले दाडिमाद् अष्टौ गुडाद् व्योषात् पलत्रयम् ॥ (५१।२)

dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam ||

52.1५२.१

रोचनं दीपनं स्वर्यं पीनसश्वासकासजित् । (५२।१)

rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit |

52.2५२.२

गुडक्षारोषणकणादाडिमं श्वासकासजित् ॥ (५२।२)

guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit ||

53.1५३.१

क्रमात् पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम् । (५३।१)

kramāt paladvayārdhākṣakarṣārdhākṣapalonmitam |

53.2५३.२

पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम् ॥ (५३।२)

pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam ||

54.1५४.१

अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम् । (५४।१)

athavā dīpyakatrivṛdviśālāghanapauṣkaram |

54.2५४.२

सकणं क्वथितं मूत्रे कफकासी जले ऽपि वा ॥ (५४।२)

sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā ||

55.1५५.१

तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम् । (५५।१)

tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam |

55.2५५.२

पाययेत् कफकासघ्नं कुलत्थसलिलाप्लुतम् ॥ (५५।२)

pāyayet kaphakāsaghnaṃ kulatthasalilāplutam ||

56.1५६.१

दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् । (५६।१)

daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet |

56.2५६.२

पुष्कराह्वशठीबिल्वसुरसाव्योषहिङ्गुभिः ॥ (५६।२)

puṣkarāhvaśaṭhībilvasurasāvyoṣahiṅgubhiḥ ||

57.1५७.१

पेयानुपानं तत् सर्ववातश्लेष्मामयापहम् । (५७।१)

peyānupānaṃ tat sarvavātaśleṣmāmayāpaham |

57.2५७.२

निर्गुण्डीपत्त्रनिर्याससाधितं कासजिद् घृतम् । (५७।२)

nirguṇḍīpattraniryāsasādhitaṃ kāsajid ghṛtam |

57.3५७.३

घृतं रसे विडङ्गानां व्योषगर्भं च साधितम् ॥ (५७।३)

ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam ||

58.1५८.१

पुनर्नवशिवाटिकासरलकासमर्दामृतापटोलबृहतीफणिज्जकरसैः पयःसंयुतैः । (५८।१)

punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ |

58.2५८.२

घृतं त्रिकटुना च सिद्धम् उपयुज्य संजायते न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम् ॥ (५८।२)

ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam ||

59.1५९.१

समूलफलपत्त्रायाः कण्टकार्या रसाढके ॥ (५९।१)

samūlaphalapattrāyāḥ kaṇṭakāryā rasāḍhake ||

60.1६०.१

घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः । (६०।१)

ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ |

60.2६०.२

सौवर्चलयवक्षारमूलामलकपौष्करैः ॥ (६०।२)

sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ ||

61.1६१.१

वृश्चीवबृहतीपथ्यायवानीचित्रकर्द्धिभिः । (६१।१)

vṛścīvabṛhatīpathyāyavānīcitrakarddhibhiḥ |

61.2६१.२

मृद्वीकाचव्यवर्षाभूदुरालभाम्लवेतसैः ॥ (६१।२)

mṛdvīkācavyavarṣābhūdurālabhāmlavetasaiḥ ||

62.1६२.१

शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् । (६२।१)

śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet |

62.2६२.२

कल्कैस् तत् सर्वकासेषु श्वासहिध्मासु चेष्यते ॥ (६२।२)

kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate ||

63.1६३.१

कण्टकारीघृतं चैतत् कफव्याधिविनाशनम् । (६३।१)

kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam |

63.2६३.२

पचेद् व्याघ्रीतुलां क्षुण्णां वहे ऽपाम् आढकस्थिते ॥ (६३।२)

paced vyāghrītulāṃ kṣuṇṇāṃ vahe 'pām āḍhakasthite ||

64.1६४.१

क्षिपेत् पूते तु संचूर्ण्य व्योषरास्नामृताग्निकान् । (६४।१)

kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān |

64.2६४.२

शृङ्गीभार्गीघनग्रन्थिधन्वयासान् पलार्धकान् ॥ (६४।२)

śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān ||

65.1६५.१

सर्पिषः षोडशपलं चत्वारिंशत् पलानि च । (६५।१)

sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśat palāni ca |

65.2६५.२

मत्स्यण्डिकायाः शुद्धायाः पुनश्च तद् अधिश्रयेत् ॥ (६५।२)

matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tad adhiśrayet ||

66.1६६.१

दर्वीलेपिनि शीते च पृथग् द्विकुडवं क्षिपेत् । (६६।१)

darvīlepini śīte ca pṛthag dvikuḍavaṃ kṣipet |

66.2६६.२

पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च ॥ (६६।२)

pippalīnāṃ tavakṣīryā mākṣikasyānavasya ca ||

67.1६७.१

लेहो ऽयं गुल्महृद्रोगदुर्नामश्वासकासजित् । (६७।१)

leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit |

67.2६७.२

शमनं च पिबेद्धूमं शोधनं बहले कफे ॥ (६७।२)

śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe ||

68.1६८.१

मनःशिलालमधुकमांसीमुस्तेङ्गुदीत्वचः । (६८।१)

manaḥśilālamadhukamāṃsīmusteṅgudītvacaḥ |

68.2६८.२

धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेद् अनु ॥ (६८।२)

dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu ||

69.1६९.१

निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः । (६९।१)

niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ |

69.2६९.२

वातश्लेष्मोत्तरान् कासान् अचिरेण चिरन्तनान् ॥ (६९।२)

vātaśleṣmottarān kāsān acireṇa cirantanān ||

70.1७०.१

तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः । (७०।१)

tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ |

70.2७०.२

पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत् ॥ (७०।२)

pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet ||

71.1७१.१

कफानुबन्धे पवने कुर्यात् कफहरां क्रियाम् । (७१।१)

kaphānubandhe pavane kuryāt kaphaharāṃ kriyām |

71.2७१.२

पित्तानुबन्धयोर् वातकफयोः पित्तनाशिनीम् ॥ (७१।२)

pittānubandhayor vātakaphayoḥ pittanāśinīm ||

72.1७२.१

वातश्लेष्मात्मके शुष्के स्निग्धम् आर्द्रे विरूक्षणम् । (७२।१)

vātaśleṣmātmake śuṣke snigdham ārdre virūkṣaṇam |

72.2७२.२

कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम् ॥ (७२।२)

kāse karma sapitte tu kaphaje tiktasaṃyutam ||

73.1७३.१

उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत् । (७३।१)

urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet |

73.2७३.२

क्षीरेण शालीन् जीर्णे ऽद्यात् क्षीरेणैव सशर्करान् ॥ (७३।२)

kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān ||

74.1७४.१

पार्श्ववस्तिसरुक् चाल्पपित्ताग्निस् तां सुरायुताम् । (७४।१)

pārśvavastisaruk cālpapittāgnis tāṃ surāyutām |

74.2७४.२

भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम् ॥ (७४।२)

bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām ||

75.1७५.१

लाक्षां सर्पिर् मधूच्छिष्टं जीवनीयं गणं सिताम् । (७५।१)

lākṣāṃ sarpir madhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām |

75.2७५.२

त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ (७५।२)

tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet ||

76.1७६.१

इक्ष्वारिकाबिसग्रन्थिपद्मकेसरचन्दनैः । (७६।१)

ikṣvārikābisagranthipadmakesaracandanaiḥ |

76.2७६.२

शृतं पयो मधुयुतं संधानार्थं पिबेत् क्षती ॥ (७६।२)

śṛtaṃ payo madhuyutaṃ saṃdhānārthaṃ pibet kṣatī ||

77.1७७.१

यवानां चूर्णम् आमानां क्षीरे सिद्धं घृतान्वितम् । (७७।१)

yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam |

77.2७७.२

ज्वरदाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत् ॥ (७७।२)

jvaradāhe sitākṣaudrasaktūn vā payasā pibet ||

78.1७८.१

कासवांस्तु पिबेत् सर्पिर् मधुरौषधसाधितम् । (७८।१)

kāsavāṃstu pibet sarpir madhurauṣadhasādhitam |

78.2७८.२

गुडोदकं वा क्वथितं सक्षौद्रमरिचं हितम् ॥ (७८।२)

guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ hitam ||

79.1७९.१

चूर्णम् आमलकानां वा क्षीरे पक्वं घृतान्वितम् । (७९।१)

cūrṇam āmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam |

79.2७९.२

रसायनविधानेन पिप्पलीर् वा प्रयोजयेत् ॥ (७९।२)

rasāyanavidhānena pippalīr vā prayojayet ||

80.1८०.१

कासी पर्वास्थिशूली च लिह्यात् सघृतमाक्षिकाः । (८०।१)

kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ |

80.2८०.२

मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः ॥ (८०।२)

madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ ||

81.1८१.१

त्रिजातम् अर्धकर्षांशं पिप्पल्यर्धपलं सिता । (८१।१)

trijātam ardhakarṣāṃśaṃ pippalyardhapalaṃ sitā |

81.2८१.२

द्राक्षा मधूकं खर्जूरं पलाशं श्लक्ष्णचूर्णितम् ॥ (८१।२)

drākṣā madhūkaṃ kharjūraṃ palāśaṃ ślakṣṇacūrṇitam ||

82.1८२.१

मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम् । (८२।१)

madhunā guṭikā ghnanti tā vṛṣyāḥ pittaśoṇitam |

82.2८२.२

कासश्वासारुचिच्छर्दिमूर्छाहिध्मामदभ्रमान् ॥ (८२।२)

kāsaśvāsārucicchardimūrchāhidhmāmadabhramān ||

83.1८३.१

क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान् । (८३।१)

kṣatakṣayasvarabhraṃśaplīhaśoṣāḍhyamārutān |

83.2८३.२

रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरान् अपि ॥ (८३।२)

raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api ||

84.1८४.१

वर्षाभूशर्करारक्तशालितण्डुलजं रजः । (८४।१)

varṣābhūśarkarāraktaśālitaṇḍulajaṃ rajaḥ |

84.2८४.२

रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः ॥ (८४।२)

raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ ||

85.1८५.१

मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम् । (८५।१)

madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam |

85.2८५.२

यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम् ॥ (८५।२)

yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam ||

86.1८६.१

मूढवातस् त्वजामेदः सुराभृष्टं ससैन्धवम् । (८६।१)

mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam |

86.2८६.२

क्षामः क्षीणः क्षतोरस्को मन्दनिद्रो ऽग्निदीप्तिमान् ॥ (८६।२)

kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān ||

87.1८७.१

शृतक्षीरसरेणाद्यात् सघृतक्षौद्रशर्करम् । (८७।१)

śṛtakṣīrasareṇādyāt saghṛtakṣaudraśarkaram |

87.2८७.२

शर्करायवगोधूमं जीवकर्षभकौ मधु ॥ (८७।२)

śarkarāyavagodhūmaṃ jīvakarṣabhakau madhu ||

88.1८८.१

शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षतः कृशः । (८८।१)

śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ |

88.2८८.२

क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः ॥ (८८।२)

kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ ||

89.1८९.१

पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम् । (८९।१)

pippalīkṣaudrasaṃyuktaṃ māṃsaśoṇitavardhanam |

89.2८९.२

न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः ॥ (८९।२)

nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ ||

90.1९०.१

तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः । (९०।१)

tālamastakajambūtvakpriyālaiśca sapadmakaiḥ |

90.2९०.२

साश्वकर्णैः शृतात् क्षीराद् अद्याज् जातेन सर्पिषा ॥ (९०।२)

sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā ||

91.1९१.१

शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः । (९१।१)

śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ |

91.2९१.२

वातपित्तार्दिते ऽभ्यङ्गो गात्रभेदे घृतैर् मतः ॥ (९१।२)

vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ ||

92.1९२.१

तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना । (९२।१)

tailaiścānilarogaghnaiḥ pīḍite mātariśvanā |

92.2९२.२

हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः ॥ (९२।२)

hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ ||

93.1९३.१

कुर्याद् वा वातरोगघ्नं पित्तरक्ताविरोधि यत् । (९३।१)

kuryād vā vātarogaghnaṃ pittaraktāvirodhi yat |

93.2९३.२

यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमे घृतम् ॥ (९३।२)

yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam ||

94.1९४.१

पयस्यापिप्पलीवांशीकल्कैः सिद्धं क्षते हितम् । (९४।१)

payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam |

94.2९४.२

जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा ॥ (९४।२)

jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā ||

95.1९५.१

बलाभार्गीस्वगुप्तर्द्धिशठीतामलकीकणाः । (९५।१)

balābhārgīsvaguptarddhiśaṭhītāmalakīkaṇāḥ |

95.2९५.२

शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु ॥ (९५।२)

śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu ||

96.1९६.१

द्राक्षाक्षोटादि च फलं मधुरस्निग्धबृंहणम् । (९६।१)

drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam |

96.2९६.२

तैः पचेत् सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्णकल्कितैः ॥ (९६।२)

taiḥ pacet sarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇakalkitaiḥ ||

97.1९७.१

क्षीरधात्रीविदारीक्षुछागमांसरसान्वितम् । (९७।१)

kṣīradhātrīvidārīkṣuchāgamāṃsarasānvitam |

97.2९७.२

प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः ॥ (९७।२)

prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ ||

98.1९८.१

पलार्धकं च मरिचत्वगेलापत्त्रकेसरम् । (९८।१)

palārdhakaṃ ca maricatvagelāpattrakesaram |

98.2९८.२

विनीय प्रसृतं तस्माल्लिह्यान् मात्रां यथाबलम् ॥ (९८।२)

vinīya prasṛtaṃ tasmāllihyān mātrāṃ yathābalam ||

99.1९९.१

अमृतप्राशम् इत्येतन् नराणाम् अमृतं घृतम् । (९९।१)

amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam |

99.2९९.२

सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना ॥ (९९।२)

sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā ||

100.1१००.१

नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान् । (१००।१)

naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān |

100.2१००.२

स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत् ॥ (१००।२)

strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet ||

101.1१०१.१

कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत् । (१०१।१)

kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut |

101.2१०१.२

पुत्रदं छर्दिमूर्छाहृद्योनिमूत्रामयापहम् ॥ (१०१।२)

putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham ||

102.1१०२.१

रेज़ेप्त्श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकट्तृणम् । (१०२।१)

Rezeptśvadaṃṣṭrośīramañjiṣṭhābalākāśmaryakaṭtṛṇam |

102.2१०२.२

दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ॥ (१०२।२)

darbhamūlaṃ pṛthakparṇīṃ palāśarṣabhakau sthirām ||

103.1१०३.१

पालिकानि पचेत् तेषां रसे क्षीरचतुर्गुणे । (१०३।१)

pālikāni pacet teṣāṃ rase kṣīracaturguṇe |

103.2१०३.२

कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः ॥ (१०३।२)

kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ ||

104.1१०४.१

शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः । (१०४।१)

śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ |

104.2१०४.२

प्रस्थः सिद्धो घृताद् वातपित्तहृद्रोगशूलनुत् ॥ (१०४।२)

prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut ||

105.1१०५.१

मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः । (१०५।१)

mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ |

105.2१०५.२

धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः ॥ (१०५।२)

dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ ||

106.1१०६.१

मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद् घृतम् । (१०६।१)

madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam |

106.2१०६.२

पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले ॥ (१०६।२)

pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale ||

107.1१०७.१

पृथग् अष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत् । (१०७।१)

pṛthag aṣṭapalaṃ kṣaudraśarkarābhyāṃ vimiśrayet |

107.2१०७.२

समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम् ॥ (१०७।२)

samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam ||

108.1१०८.१

रेज़ेप्त्धात्रीफलविदारीक्षुजीवनीयरसाद् घृतात् । (१०८।१)

Rezeptdhātrīphalavidārīkṣujīvanīyarasād ghṛtāt |

108.2१०८.२

गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत् ॥ (१०८।२)

gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet ||

109.1१०९.१

सिद्धशीते सिताक्षौद्रं द्विप्रस्थं विनयेत् ततः । (१०९।१)

siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ |

109.2१०९.२

यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम् ॥ (१०९।२)

yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham ||

110.1११०.१

वयःस्थापनम् आयुष्यं मांसशुक्रबलप्रदम् । (११०।१)

vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam |

110.2११०.२

घृतं तु पित्ते ऽभ्यधिके लिह्याद् वाते ऽधिके पिबेत् ॥ (११०।२)

ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet ||

111.1१११.१

लीढं निर्वापयेत् पित्तम् अल्पत्वाद्धन्ति नानलम् । (१११।१)

līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam |

111.2१११.२

आक्रामत्यनिलं पीतम् ऊष्माणं निरुणद्धि च ॥ (१११।२)

ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca ||

112.1११२.१

क्षामक्षीणकृशाङ्गानाम् एतान्येव घृतानि तु । (११२।१)

kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu |

112.2११२.२

त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत् ॥ (११२।२)

tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet ||

113.1११३.१

सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात् पयो ऽनु च । (११३।१)

sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca |

113.2११३.२

रेतो वीर्यं बलं पुष्टिं तैराशुतरम् आप्नुयात् ॥ (११३।२)

reto vīryaṃ balaṃ puṣṭiṃ tairāśutaram āpnuyāt ||

114.1११४.१

वीतत्वगस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत् । (११४।१)

vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet |

114.2११४.२

घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णे ऽत्र च क्षिपेत् ॥ (११४।२)

ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet ||

115.1११५.१

खण्डाच्छतं कणाशुण्ठ्योर् द्विपलं जीरकाद् अपि । (११५।१)

khaṇḍācchataṃ kaṇāśuṇṭhyor dvipalaṃ jīrakād api |

115.2११५.२

त्रिजातधान्यमरिचं पृथग् अर्धपलांशकम् ॥ (११५।२)

trijātadhānyamaricaṃ pṛthag ardhapalāṃśakam ||

116.1११६.१

अवतारितशीते च दत्त्वा क्षौद्रं घृतार्धकम् । (११६।१)

avatāritaśīte ca dattvā kṣaudraṃ ghṛtārdhakam |

116.2११६.२

खजेनामथ्य च स्थाप्यं तन् निहन्त्युपयोजितम् ॥ (११६।२)

khajenāmathya ca sthāpyaṃ tan nihantyupayojitam ||

117.1११७.१

कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान् । (११७।१)

kāsahidhmājvaraśvāsaraktapittakṣatakṣayān |

117.2११७.२

उरःसंधानजननं मेधास्मृतिबलप्रदम् ॥ (११७।२)

uraḥsaṃdhānajananaṃ medhāsmṛtibalapradam ||

118.1११८.१

अश्विभ्यां विहितं हृद्यं कूष्माण्डकरसायनम् । (११८।१)

aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam |

118.2११८.२

पिबेन् नागबलामूलस्यार्धकर्षाभिवर्धितम् ॥ (११८।२)

piben nāgabalāmūlasyārdhakarṣābhivardhitam ||

119.1११९.१

पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक् । (११९।१)

palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk |

119.2११९.२

एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम् ॥ (११९।२)

eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param ||

120.1१२०.१

मण्डूकपर्ण्याः कल्पो ऽयं यष्ट्या विश्वौषधस्य च । (१२०।१)

maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadhasya ca |

120.2१२०.२

रेज़ेप्त्पादशेषं जलद्रोणे पचेन् नागबलातुलाम् ॥ (१२०।२)

Rezeptpādaśeṣaṃ jaladroṇe pacen nāgabalātulām ||

121.1१२१.१

तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् । (१२१।१)

tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet |

121.2१२१.२

पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः ॥ (१२१।२)

palārdhikaiścātibalābalāyaṣṭīpunarnavaiḥ ||

122.1१२२.१

प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः । (१२२।१)

prapauṇḍarīkakāśmaryapriyālakapikacchubhiḥ |

122.2१२२.२

अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः ॥ (१२२।२)

aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ ||

123.1१२३.१

काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः । (१२३।१)

kākolīkṣīrakākolīkṣīraśuklādvijīrakaiḥ |

123.2१२३.२

मृणालबिसखर्जूरशृङ्गाटककसेरुकैः ॥ (१२३।२)

mṛṇālabisakharjūraśṛṅgāṭakakaserukaiḥ ||

124.1१२४.१

एतन् नागबलासर्पिः पित्तरक्तक्षतक्षयान् । (१२४।१)

etan nāgabalāsarpiḥ pittaraktakṣatakṣayān |

124.2१२४.२

जयेत् तृड्भ्रमदाहांश्च बलपुष्टिकरं परम् ॥ (१२४।२)

jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param ||

125.1१२५.१

वर्ण्यम् आयुष्यम् ओजस्यं वलीपलितनाशनम् । (१२५।१)

varṇyam āyuṣyam ojasyaṃ valīpalitanāśanam |

125.2१२५.२

उपयुज्य च षण् मासान् वृद्धो ऽपि तरुणायते ॥ (१२५।२)

upayujya ca ṣaṇ māsān vṛddho 'pi taruṇāyate ||

126.1१२६.१

दीप्ते ऽग्नौ विधिरेष स्यान् मन्दे दीपनपाचनः । (१२६।१)

dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ |

126.2१२६.२

यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे ॥ (१२६।२)

yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave ||

127.1१२७.१

रेज़ेप्त्दशमूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् । (१२७।१)

Rezeptdaśamūlaṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām |

127.2१२७.२

हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥ (१२७।२)

hastipippalyapāmārgapippalīmūlacitrakān ||

128.1१२८.१

भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम् । (१२८।१)

bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam |

128.2१२८.२

हरीतकीशतं चैकं जलपञ्चाढके पचेत् ॥ (१२८।२)

harītakīśataṃ caikaṃ jalapañcāḍhake pacet ||

129.1१२९.१

यवस्वेदे कषायं तं पूतं तच्चाभयाशतम् । (१२९।१)

yavasvede kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam |

129.2१२९.२

पचेद् गुडतुलां दत्त्वा कुडवं च पृथग् घृतात् ॥ (१२९।२)

paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt ||

130.1१३०.१

तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात् । (१३०।१)

tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt |

130.2१३०.२

लेहं द्वे चाभये नित्यम् अतः खादेद् रसायनात् ॥ (१३०।२)

lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt ||

131.1१३१.१

तद् वलीपलितं हन्याद् वर्णायुर्बलवर्धनम् । (१३१।१)

tad valīpalitaṃ hanyād varṇāyurbalavardhanam |

131.2१३१.२

पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम् ॥ (१३१।२)

pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram ||

132.1१३२.१

मेहगुल्मग्रहण्यर्शोहृद्रोगारुचिपीनसान् । (१३२।१)

mehagulmagrahaṇyarśohṛdrogārucipīnasān |

132.2१३२.२

अगस्त्यविहितं धन्यम् इदं श्रेष्ठं रसायनम् ॥ (१३२।२)

agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam ||

133.1१३३.१

रेज़ेप्त्दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम् । (१३३।१)

Rezeptdaśamūlaṃ balāṃ mūrvāṃ haridre pippalīdvayam |

133.2१३३.२

पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः ॥ (१३३।२)

pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ ||

134.1१३४.१

बालबिल्वं त्रिवृद्दन्तीमूलं पत्त्रं च चित्रकात् । (१३४।१)

bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt |

134.2१३४.२

पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् ॥ (१३४।२)

payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt ||

135.1१३५.१

बोटस्थविरभल्लातविकङ्कतशतावरीः । (१३५।१)

boṭasthavirabhallātavikaṅkataśatāvarīḥ |

135.2१३५.२

पूतिकरञ्जशम्याकचन्द्रलेखासहाचरम् ॥ (१३५।२)

pūtikarañjaśamyākacandralekhāsahācaram ||

136.1१३६.१

शौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम् । (१३६।१)

śaubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam |

136.2१३६.२

पथ्यासहस्रं सशतं यवानां चाढकद्वयम् ॥ (१३६।२)

pathyāsahasraṃ saśataṃ yavānāṃ cāḍhakadvayam ||

137.1१३७.१

पचेद् अष्टगुणे तोये यवस्वेदे ऽवतारयेत् । (१३७।१)

paced aṣṭaguṇe toye yavasvede 'vatārayet |

137.2१३७.२

पूते क्षिपेत् सपथ्ये च तत्र जीर्णगुडात् तुलाम् ॥ (१३७।२)

pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām ||

138.1१३८.१

तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः । (१३८।१)

tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ |

138.2१३८.२

अधिश्रयेन् मृदावग्नौ दर्वीलेपे ऽवतार्य च ॥ (१३८।२)

adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca ||

139.1१३९.१

शीते प्रस्थद्वयं क्षौद्रात् पिप्पलीकुडवं क्षिपेत् । (१३९।१)

śīte prasthadvayaṃ kṣaudrāt pippalīkuḍavaṃ kṣipet |

139.2१३९.२

चूर्णीकृतं त्रिजाताच्च त्रिपलं निखनेत् ततः ॥ (१३९।२)

cūrṇīkṛtaṃ trijātācca tripalaṃ nikhanet tataḥ ||

140.1१४०.१

धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत् । (१४०।१)

dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat |

140.2१४०.२

रसायनं वसिष्ठोक्तम् एतत् पूर्वगुणाधिकम् ॥ (१४०।२)

rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam ||

141.1१४१.१

स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते । (१४१।१)

svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate |

141.2१४१.२

रेज़ेप्त्पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले ॥ (१४१।२)

Rezeptpālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale ||

142.1१४२.१

कुडवांशानि वृक्षाम्लं दाडिमं पत्त्रम् आर्जकात् । (१४२।१)

kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt |

142.2१४२.२

एकैकां मरिचाजाज्योर् धान्यकाद् द्वे चतुर्थिके ॥ (१४२।२)

ekaikāṃ maricājājyor dhānyakād dve caturthike ||

143.1१४३.१

शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत् । (१४३।१)

śarkarāyāḥ palānyatra daśa dve ca pradāpayet |

143.2१४३.२

कृत्वा चूर्णम् अतो मात्राम् अन्नपानेषु दापयेत् ॥ (१४३।२)

kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet ||

144.1१४४.१

रुच्यं तद् दीपनं बल्यं पार्श्वार्तिश्वासकासजित् । (१४४।१)

rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit |

144.2१४४.२

रेज़ेप्तेकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात् ॥ (१४४।२)

Rezeptekāṃ ṣoḍaśikāṃ dhānyād dve dve cājājidīpyakāt ||

145.1१४५.१

ताभ्यां दाडिमवृक्षाम्ले द्विर् द्विः सौवर्चलात् पलम् । (१४५।१)

tābhyāṃ dāḍimavṛkṣāmle dvir dviḥ sauvarcalāt palam |

145.2१४५.२

शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च ॥ (१४५।२)

śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca ||

146.1१४६.१

तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत् । (१४६।१)

taccūrṇaṃ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet |

146.2१४६.२

षाडवो ऽयं प्रदेयः स्याद् अन्नपानेषु पूर्ववत् ॥ (१४६।२)

ṣāḍavo 'yaṃ pradeyaḥ syād annapāneṣu pūrvavat ||

147.1१४७.१

विधिश्च यक्ष्मविहितो यथावस्थं क्षते हितः । (१४७।१)

vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ |

147.2१४७.२

निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः ॥ (१४७।२)

nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ ||

148.1१४८.१

दाल्यते कासिनो यस्य स ना धूमान् पिबेद् इमान् । (१४८।१)

dālyate kāsino yasya sa nā dhūmān pibed imān |

148.2१४८.२

द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते ॥ (१४८।२)

dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite ||

149.1१४९.१

वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः । (१४९।१)

vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ |

149.2१४९.२

मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः ॥ (१४९।२)

manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ ||

150.1१५०.१

तद्वद् एवानुपानं तु शर्करेक्षुगुडोदकम् । (१५०।१)

tadvad evānupānaṃ tu śarkarekṣuguḍodakam |

150.2१५०.२

पिष्ट्वा मनःशिलां तुल्याम् आर्द्रया वटशुङ्गया ॥ (१५०।२)

piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭaśuṅgayā ||

151.1१५१.१

ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम् । (१५१।१)

sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam |

151.2१५१.२

रेज़ेप्त्क्षयजे बृंहणं पूर्वं कुर्याद् अग्नेश्च वर्धनम् ॥ (१५१।२)

Rezeptkṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam ||

152.1१५२.१

बहुदोषाय सस्नेहं मृदु दद्याद् विरेचनम् । (१५२।१)

bahudoṣāya sasnehaṃ mṛdu dadyād virecanam |

152.2१५२.२

शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया ॥ (१५२।२)

śamyākena trivṛtayā mṛdvīkārasayuktayā ||

153.1१५३.१

तिल्वकस्य कषायेण विदारीस्वरसेन च । (१५३।१)

tilvakasya kaṣāyeṇa vidārīsvarasena ca |

153.2१५३.२

सर्पिः सिद्धं पिबेद् युक्त्या क्षीणदेहो विशोधनम् ॥ (१५३।२)

sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam ||

154.1१५४.१

पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान् । (१५४।१)

pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān |

154.2१५४.२

घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ॥ (१५४।२)

ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet ||

155.1१५५.१

विदारीभिः कदम्बैर् वा तालसस्यैश्च साधितम् । (१५५।१)

vidārībhiḥ kadambair vā tālasasyaiśca sādhitam |

155.2१५५.२

घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ॥ (१५५।२)

ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame ||

156.1१५६.१

शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे । (१५६।१)

śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe |

156.2१५६.२

घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा ॥ (१५६।२)

ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa vā ||

157.1१५७.१

जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः । (१५७।१)

jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ |

157.2१५७.२

क्रमशः प्रसहास् तद्वत् प्रयोज्याः पिशिताशिनः ॥ (१५७।२)

kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ ||

158.1१५८.१

औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते । (१५८।१)

auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te |

158.2१५८.२

कफं शुद्धैश्च तैः पुष्टिं कुर्यात् सम्यग् वहन् रसः ॥ (१५८।२)

kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ ||

159.1१५९.१

रेज़ेप्त्चविकात्रिफलाभार्गीदशमूलैः सचित्रकैः । (१५९।१)

Rezeptcavikātriphalābhārgīdaśamūlaiḥ sacitrakaiḥ |

159.2१५९.२

कुलत्थपिप्पलीमूलपाठाकोलयवैर् जले ॥ (१५९।२)

kulatthapippalīmūlapāṭhākolayavair jale ||

160.1१६०.१

शृतैर् नागरदुःस्पर्शापिप्पलीशठिपौष्करैः । (१६०।१)

śṛtair nāgaraduḥsparśāpippalīśaṭhipauṣkaraiḥ |

160.2१६०.२

पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर् विपाचयेत् ॥ (१६०।२)

piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet ||

161.1१६१.१

सिद्धे ऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च । (१६१।१)

siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca |

161.2१६१.२

दत्त्वा युक्त्या पिबेन् मात्रां क्षयकासनिपीडितः ॥ (१६१।२)

dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ ||

162.1१६२.१

कासमर्दाभयामुस्तापाठाकट्फलनागरैः । (१६२।१)

kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ |

162.2१६२.२

पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च ॥ (१६२।२)

pippalyā kaṭurohiṇyā kāśmaryā surasena ca ||

163.1१६३.१

अक्षमात्रैर् घृतप्रस्थं क्षीरद्राक्षारसाढके । (१६३।१)

akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake |

163.2१६३.२

पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ॥ (१६३।२)

pacecchoṣajvaraplīhasarvakāsaharaṃ śivam ||

164.1१६४.१

रेज़ेप्त्वृषव्याघ्रीगुडूचीनां पत्त्रमूलफलाङ्कुरात् । (१६४।१)

Rezeptvṛṣavyāghrīguḍūcīnāṃ pattramūlaphalāṅkurāt |

164.2१६४.२

रसकल्कैर् घृतं पक्वं हन्ति कासज्वरारुचीः ॥ (१६४।२)

rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ ||

165.1१६५.१

द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम् । (१६५।१)

dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam |

165.2१६५.२

पिबेद् उपरि भुक्तस्य यवक्षारयुतं नरः ॥ (१६५।२)

pibed upari bhuktasya yavakṣārayutaṃ naraḥ ||

166.1१६६.१

पिप्पलीगुडसिद्धं वा छागक्षीरयुतं घृतम् । (१६६।१)

pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam |

166.2१६६.२

एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम् ॥ (१६६।२)

etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām ||

167.1१६७.१

स्युर् दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये । (१६७।१)

syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye |

167.2१६७.२

प्रस्थोन्मिते यवक्वाथे विंशतिं विजयाः पचेत् ॥ (१६७।२)

prasthonmite yavakvāthe viṃśatiṃ vijayāḥ pacet ||

168.1१६८.१

स्विन्ना मृदित्वा तास् तस्मिन् पुराणात् षट्पलं गुडात् । (१६८।१)

svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṃ guḍāt |

168.2१६८.२

पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात् ॥ (१६८।२)

pippalyā dvipalaṃ karṣaṃ manohvāyā rasāñjanāt ||

169.1१६९.१

दत्त्वार्धाक्षं पचेद् भूयः स लेहः श्वासकासजित् । (१६९।१)

dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit |

169.2१६९.२

श्वाविधां सूचयो दग्धाः सघृतक्षौद्रशर्कराः ॥ (१६९।२)

śvāvidhāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ ||

170.1१७०.१

श्वासकासहरा बर्हिपादौ वा मधुसर्पिषा । (१७०।१)

śvāsakāsaharā barhipādau vā madhusarpiṣā |

170.2१७०.२

एरण्डपत्त्रक्षारं वा व्योषतैलगुडान्वितम् ॥ (१७०।२)

eraṇḍapattrakṣāraṃ vā vyoṣatailaguḍānvitam ||

171.1१७१.१

लेहयेत् क्षारम् एवं वा सुरसैरण्डपत्त्रजम् । (१७१।१)

lehayet kṣāram evaṃ vā surasairaṇḍapattrajam |

171.2१७१.२

लिह्यात् त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा ॥ (१७१।२)

lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā ||

172.1१७२.१

पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च । (१७२।१)

padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca |

172.2१७२.२

बला रास्ना च तच्चूर्णं समस्तं समशर्करम् ॥ (१७२।२)

balā rāsnā ca taccūrṇaṃ samastaṃ samaśarkaram ||

173.1१७३.१

खादेन् मधुघृताभ्यां वा लिह्यात् कासहरं परम् । (१७३।१)

khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param |

173.2१७३.२

तद्वन्मरिचचूर्णं वा सघृतक्षौद्रशर्करम् ॥ (१७३।२)

tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram ||

174.1१७४.१

पथ्याशुण्ठीघनगुडैर् गुटिकां धारयेन् मुखे । (१७४।१)

pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe |

174.2१७४.२

सर्वेषु श्वासकासेषु केवलं वा विभीतकम् ॥ (१७४।२)

sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam ||

175.1१७५.१

पत्त्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम् । (१७५।१)

pattrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram |

175.2१७५.२

पेया वोत्कारिका छर्दितृट्कासामातिसारजित् ॥ (१७५।२)

peyā votkārikā charditṛṭkāsāmātisārajit ||

176.1१७६.१

कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः । (१७६।१)

kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ |

176.2१७६.२

सगौरामलकः साम्लः सर्वकासभिषग्जितम् ॥ (१७६।२)

sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam ||

177.1१७७.१

वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसान् अपि । (१७७।१)

vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasān api |

177.2१७७.२

वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षयकासिने ॥ (१७७।२)

vaiṣkirān prātudān bailān dāpayet kṣayakāsine ||

178.1१७८.१

क्षतकासे च ये धूमाः सानुपाना निदर्शिताः । (१७८।१)

kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ |

178.2१७८.२

क्षयकासे ऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि ॥ (१७८।२)

kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi ||

179.1१७९.१

बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम् । (१७९।१)

bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam |

179.2१७९.२

व्यत्यासात् क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते ॥ (१७९।२)

vyatyāsāt kṣayakāsibhyo balyaṃ sarvaṃ praśasyate ||

180.1१८०.१

संनिपातोद्भवो घोरः क्षयकासो यतस् ततः । (१८०।१)

saṃnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ |

180.2१८०.२

यथादोषबलं तस्य संनिपातहितं हितम् ॥ (१८०।२)

yathādoṣabalaṃ tasya saṃnipātahitaṃ hitam ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 4, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit