अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 4, 2
Select a line for its word-by-word analysis.
प्रोग्नोसेऊर्ध्वगं बलिनो ऽवेगम् एकदोषानुगं नवम् । (१।३)
Prognoseūrdhvagaṃ balino 'vegam ekadoṣānugaṃ navam |
रक्तपित्तं सुखे काले साधयेन् निरुपद्रवम् ॥ (१।४)
raktapittaṃ sukhe kāle sādhayen nirupadravam ||
शान्तं शान्तं पुनः कुप्यन् मार्गान् मार्गान्तरं च यत् ॥ (२।२)
śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat ||
अतिप्रवृत्तं मन्दाग्नेस् त्रिदोषं द्विपथं त्यजेत् । (३।१)
atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet |
शमनैर् बृंहणैश्चान्यल् लङ्घ्यबृंह्यान् अवेक्ष्य च । (६।१)
śamanair bṛṃhaṇaiścānyal laṅghyabṛṃhyān avekṣya ca |
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ ॥ (६।२)
ūrdhvaṃ pravṛtte śamanau rasau tiktakaṣāyakau ||
ऊर्ध्वगे तर्पणं योज्यं प्राक् च पेया त्वधोगते । (८।१)
ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate |
अश्नतो बलिनो ऽशुद्धं न धार्यं तद्धि रोगकृत् ॥ (८।२)
aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt ||
धारयेद् अन्यथा शीघ्रम् अग्निवच्छीघ्रकारि तत् । (९।१)
dhārayed anyathā śīghram agnivacchīghrakāri tat |
साधयेद् विधिवल् लेहं लिह्यात् पाणितलं ततः । (१०।१)
sādhayed vidhival lehaṃ lihyāt pāṇitalaṃ tataḥ |
त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु ॥ (१०।२)
trivṛtā triphalā śyāmā pippalī śarkarā madhu ||
त्रिवृत् समसिता तद्वत् पिप्पलीपादसंयुता ॥ (११।२)
trivṛt samasitā tadvat pippalīpādasaṃyutā ||
ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम् ॥ (१२।२)
sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam ||
क्षीरं वा रसम् इक्षोर् वा शुद्धस्यानन्तरो विधिः । (१३।१)
kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ |
यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम् ॥ (१३।२)
yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam ||
मन्थो ज्वरोक्तो द्राक्षादिः पित्तघ्नैर् वा फलैः कृतः । (१४।१)
mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ |
मन्थो वा पञ्चसारेण सघृतैर् लाजसक्तुभिः । (१५।१)
mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ |
दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणाम् ॥ (१५।२)
dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām ||
उशीरं शबरं लोध्रं शृङ्गवेरं कुचन्दनम् ॥ (१६।२)
uśīraṃ śabaraṃ lodhraṃ śṛṅgaveraṃ kucandanam ||
ह्रीवेरं धातकीपुष्पं बिल्वमध्यं दुरालभा । (१७।१)
hrīveraṃ dhātakīpuṣpaṃ bilvamadhyaṃ durālabhā |
अर्धार्धैर् विहिताः पेया वक्ष्यन्ते पादयौगिकाः ॥ (१७।२)
ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ ||
विदारिगन्धा मुद्गाश्च बला सर्पिर् हरेणुकाः ॥ (१८।२)
vidārigandhā mudgāśca balā sarpir hareṇukāḥ ||
पृथक् पृथग् जले तेषां यवागूः कल्पयेद् रसे ॥ (१९।२)
pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase ||
शीताः सशर्कराक्षौद्रास् तद्वन् मांसरसान् अपि । (२०।१)
śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api |
ईषदम्लान् अनम्लान् वा घृतभृष्टान् सशर्करान् ॥ (२०।२)
īṣadamlān anamlān vā ghṛtabhṛṣṭān saśarkarān ||
शूकशिम्बीभवं धान्यं रक्ते शाकं च शस्यते । (२१।१)
śūkaśimbībhavaṃ dhānyaṃ rakte śākaṃ ca śasyate |
पूर्वोक्तम् अम्बु पानीयं पञ्चमूलेन वा शृतम् । (२२।१)
pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam |
लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा ॥ (२२।२)
laghunā śṛtaśītaṃ vā madhvambho vā phalāmbu vā ||
शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः । (२३।१)
śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ |
उदुम्बरस्य निर्यूहे साधितो मारुते ऽधिके ॥ (२३।२)
udumbarasya niryūhe sādhito mārute 'dhike ||
प्लक्षस्य बर्हिणस् तद्वन् न्यग्रोधस्य च कुक्कुटः । (२४।१)
plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ |
यत् किंचिद् रक्तपित्तस्य निदानं तच्च वर्जयेत् ॥ (२४।२)
yat kiṃcid raktapittasya nidānaṃ tacca varjayet ||
पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात् ॥ (२५।२)
pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt ||
शर्करामधुसंयुक्तः केवलो वा शृतो ऽपि वा । (२६।१)
śarkarāmadhusaṃyuktaḥ kevalo vā śṛto 'pi vā |
वृषः सद्यो जयत्यस्रं स ह्यस्य परम् औषधम् ॥ (२६।२)
vṛṣaḥ sadyo jayatyasraṃ sa hyasya param auṣadham ||
लोध्रो वृषस् तण्डुलीयः कृष्णा मृन् मदयन्तिका ॥ (२७।२)
lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā ||
रक्तपित्तहराः क्वाथास् त्रयः समधुशर्कराः ॥ (२८।२)
raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ ||
लिह्याद् वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम् ॥ (२९।२)
lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam ||
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच्छकृत् । (३०।१)
sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt |
अतिनिःस्रुतरक्तश्च क्षौद्रेण रुधिरं पिबेत् ॥ (३०।२)
atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet ||
जाङ्गलं भक्षयेद् वाजम् आमं पित्तयुतं यकृत् । (३१।१)
jāṅgalaṃ bhakṣayed vājam āmaṃ pittayutaṃ yakṛt |
प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः ॥ (३२।२)
prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ ||
सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित् । (३३।१)
suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit |
आपोथ्य वा नवे कुम्भे प्लावयेद् इक्षुगण्डिकाः ॥ (३३।२)
āpothya vā nave kumbhe plāvayed ikṣugaṇḍikāḥ ||
स्थितं तद् गुप्तम् आकाशे रात्रिं प्रातः स्रुतं जलम् । (३४।१)
sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam |
मधुमद् विकचाम्भोजकृतोत्तंसं च तद्गुणम् ॥ (३४।२)
madhumad vikacāmbhojakṛtottaṃsaṃ ca tadguṇam ||
ये च पित्तज्वरे चोक्ताः कषायास् तांश्च योजयेत् । (३५।१)
ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet |
कषायैर् विविधैरेभिर् दीप्ते ऽग्नौ विजिते कफे ॥ (३५।२)
kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe ||
रक्तपित्तं न चेच्छाम्येत् तत्र वातोल्बणे पयः । (३६।१)
raktapittaṃ na cecchāmyet tatra vātolbaṇe payaḥ |
युञ्ज्याच्छागं शृतं तद्वद् गव्यं पञ्चगुणे ऽम्भसि ॥ (३६।२)
yuñjyācchāgaṃ śṛtaṃ tadvad gavyaṃ pañcaguṇe 'mbhasi ||
पृथक् पृथक् शृतं क्षीरं सघृतं सितयाथवा । (३८।१)
pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā |
हन्त्याशु रक्तं सरुजं विशेषान् मूत्रमार्गगम् । (३९।१)
hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam |
वटप्ररोहैः शुङ्गैर् वा शुण्ठ्युदीच्योत्पलैरपि । (४०।१)
vaṭaprarohaiḥ śuṅgair vā śuṇṭhyudīcyotpalairapi |
रक्तातीसारदुर्नामचिकित्सां चात्र कल्पयेत् ॥ (४०।२)
raktātīsāradurnāmacikitsāṃ cātra kalpayet ||
कषाययोगैरेभिर् वा विपक्वं पाययेद् घृतम् ॥ (४१।२)
kaṣāyayogairebhir vā vipakvaṃ pāyayed ghṛtam ||
समूलमस्तकं क्षुण्णं वृषम् अष्टगुणे ऽम्भसि । (४२।१)
samūlamastakaṃ kṣuṇṇaṃ vṛṣam aṣṭaguṇe 'mbhasi |
पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत् ॥ (४२।२)
paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet ||
तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम् । (४३।१)
tatpuṣpagarbhaṃ tacchītaṃ sakṣaudraṃ pittaśoṇitam |
पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत् ॥ (४४।२)
palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet ||
सक्षौद्रं तच्च रक्तघ्नं तथैव त्रायमाणया । (४५।१)
sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā |
रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे ॥ (४५।२)
rakte sapicche sakaphe grathite kaṇṭhamārgage ||
लिह्यान् माक्षिकसर्पिर्भ्यां क्षारम् उत्पलनालजम् । (४६।१)
lihyān mākṣikasarpirbhyāṃ kṣāram utpalanālajam |
पृथक् पृथक् तथाम्भोजरेणुश्यामामधूकजम् ॥ (४६।२)
pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam ||
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत् ॥ (४७।२)
ghrāṇage rudhire śuddhe nāvanaṃ cānuṣecayet ||
कषाययोगान् पूर्वोक्तान् क्षीरेक्ष्वादिरसाप्लुतान् । (४८।१)
kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān |
क्षीरादीन् ससितांस् तोयं केवलं वा जलं हितं ॥ (४८।२)
kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ ||
रसो दाडिमपुष्पाणाम् आम्रास्थ्नः शाद्वलस्य वा । (४९।१)
raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā |
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु ॥ (४९।२)
kalpayecchītavargaṃ ca pradehābhyañjanādiṣu ||
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम् । (५०।१)
yacca pittajvare proktaṃ bahirantaśca bheṣajam |
रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत् ॥ (५०।२)
raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat ||
Data courtesy of The Digital Corpus of Sanskrit.