अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 17
Select a line for its word-by-word analysis.
धान्यैः समस्तैर् गन्धैश् च रास्नैरण्डजटामिषैः ॥ (२।२)
dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ ||
पित्तेन पद्मकाद्यैस् तु शाल्वणाख्यैः पुनः पुनः । (४।१)
pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ |
स्निग्धोष्णवीर्यैर् मृदुभिश् चर्मपट्टैर् अपूतिभिः ॥ (४।२)
snigdhoṣṇavīryair mṛdubhiś carmapaṭṭair apūtibhiḥ ||
बद्धं रात्रौ दिवा मुञ्चेन् मुञ्चेद् रात्रौ दिवाकृतम् ॥ (५।२)
baddhaṃ rātrau divā muñcen muñced rātrau divākṛtam ||
पत्त्रभङ्गैर् वचाद्यैश् च मांसैश् चानूपवारिजैः ॥ (८।२)
pattrabhaṅgair vacādyaiś ca māṃsaiś cānūpavārijaiḥ ||
कुम्भीर् गलन्तीर् नाडीर् वा पूरयित्वा रुजार्दितम् । (१०।१)
kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam |
वाससाच्छादितं गात्रं स्निग्धं सिञ्चेद् यथासुखम् ॥ (१०।२)
vāsasācchāditaṃ gātraṃ snigdhaṃ siñced yathāsukham ||
तैर् एव वा द्रवैः पूर्णं कुण्डं सर्वाङ्गगे ऽनिले । (११।१)
tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile |
अवगाह्यातुरस् तिष्ठेद् अर्शःकृच्छ्रादिरुक्षु च ॥ (११।२)
avagāhyāturas tiṣṭhed arśaḥkṛcchrādirukṣu ca ||
निवाते ऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदम् आचरेत् । (१२।१)
nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret |
कफार्तो रूक्षणं रूक्षो रूक्षः स्निग्धं कफानिले । (१३।१)
kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile |
रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः । (१४।१)
rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ |
अल्पं वङ्क्षणयोः स्वल्पं दृङ्मुष्कहृदये न वा ॥ (१४।२)
alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅmuṣkahṛdaye na vā ||
शीतशूलक्षये स्विन्नो जाते ऽङ्गानां च मार्दवे । (१५।१)
śītaśūlakṣaye svinno jāte 'ṅgānāṃ ca mārdave |
स्याच् छनैर् मृदितः स्नातस् ततः स्नेहविधिं भजेत् ॥ (१५।२)
syāc chanair mṛditaḥ snātas tataḥ snehavidhiṃ bhajet ||
पित्तास्रकोपतृण्मूर्छास्वराङ्गसदनभ्रमाः । (१६।१)
pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ |
स्वेदातियोगाच् छर्दिश् च तत्र स्तम्भनम् औषधम् । (१७।१)
svedātiyogāc chardiś ca tatra stambhanam auṣadham |
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनम् अन्यथा । (१८।१)
svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā |
द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम् ॥ (१८।२)
dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam ||
स्वेदनं स्तम्भनं श्लक्ष्णं रूक्षसूक्ष्मसरद्रवम् । (१९।१)
svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣasūkṣmasaradravam |
प्रायस् तिक्तं कषायं च मधुरं च समासतः ॥ (१९।२)
prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ ||
स्तम्भितः स्याद् बले लब्धे यथोक्तामयसंक्षयात् । (२०।१)
stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt |
स्तम्भत्वक्स्नायुसंकोचकम्पहृद्वाग्घनुग्रहैः ॥ (२०।२)
stambhatvaksnāyusaṃkocakampahṛdvāgghanugrahaiḥ ||
पादौष्ठत्वक्करैः श्यावैर् अतिस्तम्भितम् आदिशेत् । (२१।१)
pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet |
न स्वेदयेद् अतिस्थूलरूक्षदुर्बलमूर्छितान् ॥ (२१।२)
na svedayed atisthūlarūkṣadurbalamūrchitān ||
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान् ॥ (२३।२)
bhraṣṭadagdhagudaglānikrodhaśokabhayārditān ||
क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान् । (२४।१)
kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān |
गर्भिणीं पुष्पितां सूतां मृदु चात्ययिके गदे ॥ (२४।२)
garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu cātyayike gade ||
महत्त्वे मुष्कयोः खल्याम् आयामे वातकण्टके ॥ (२६।२)
mahattve muṣkayoḥ khalyām āyāme vātakaṇṭake ||
मूत्रकृच्छ्रार्बुदग्रन्थिशुक्राघाताढ्यमारुते । (२७।१)
mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute |
स्वेदं यथायथं कुर्यात् तदौषधविभागतः ॥ (२७।२)
svedaṃ yathāyathaṃ kuryāt tadauṣadhavibhāgataḥ ||
स्वेदो हितस् त्व् अनाग्नेयो वाते मेदःकफावृते । (२८।१)
svedo hitas tv anāgneyo vāte medaḥkaphāvṛte |
स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः । (२९।१)
snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ |
दोषाः स्वेदैस् ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर् निर्ह्रियन्ते ॥ (२९।२)
doṣāḥ svedais te dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante ||
Data courtesy of The Digital Corpus of Sanskrit.