अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 3, 11

47 of 120 · 128 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो विद्रधिवृद्धिगुल्मनिदानं व्याख्यास्यामः । (१।१)

athāto vidradhivṛddhigulmanidānaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

विद्रधि - एन्त्स्तेहुन्ग्भुक्तैः पर्युषितात्युष्णरूक्षशुष्कविदाहिभिः । (१।३)

vidradhi - Entstehungbhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ |

1.4१.४

जिह्मशय्याविचेष्टाभिस् तैस् तैश्चासृक्प्रदूषणैः ॥ (१।४)

jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ ||

2.1२.१

दुष्टत्वङ्मांसमेदोऽस्थिस्नाय्वसृक्कण्डराश्रयः । (२।१)

duṣṭatvaṅmāṃsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ |

2.2२.२

यः शोफो बहिरन्तर् वा महामूलो महारुजः ॥ (२।२)

yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ ||

3.1३.१

वृत्तः स्याद् आयतो यो वा स्मृतः षोढा स विद्रधिः । (३।१)

vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ |

3.2३.२

दोषैः पृथक् समुदितैः शोणितेन क्षतेन च ॥ (३।२)

doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca ||

4.1४.१

बाह्यो ऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः । (४।१)

bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ |

4.2४.२

आन्तरो दारुणतरो गम्भीरो गुल्मवद् घनः ॥ (४।२)

āntaro dāruṇataro gambhīro gulmavad ghanaḥ ||

5.1५.१

वल्मीकवत् समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत् । (५।१)

valmīkavat samucchrāyī śīghraghātyagniśastravat |

5.2५.२

नाभिवस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणे ॥ (५।२)

nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe ||

6.1६.१

स्याद् वृक्कयोरपाने च वातात् तत्रातितीव्ररुक् । (६।१)

syād vṛkkayorapāne ca vātāt tatrātitīvraruk |

6.2६.२

विद्रधि - स्य्म्प्तोमे नछ् दोषश्यावारुणश्चिरोत्थानपाको विषमसंस्थितिः ॥ (६।२)

vidradhi - symptome nach doṣaśyāvāruṇaścirotthānapāko viṣamasaṃsthitiḥ ||

7.1७.१

व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान् । (७।१)

vyadhacchedabhramānāhaspandasarpaṇaśabdavān |

7.2७.२

रक्तताम्रासितः पित्तात् तृण्मोहज्वरदाहवान् ॥ (७।२)

raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān ||

8.1८.१

क्षिप्रोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात् । (८।१)

kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt |

8.2८.२

सोत्क्लेशशीतकस्तम्भजृम्भारोचकगौरवः ॥ (८।२)

sotkleśaśītakastambhajṛmbhārocakagauravaḥ ||

9.1९.१

चिरोत्थानविपाकश्च संकीर्णः संनिपाततः । (९।१)

cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ |

9.2९.२

सामर्थ्याच्चात्र विभजेद् बाह्याभ्यन्तरलक्षणम् ॥ (९।२)

sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam ||

10.1१०.१

कृष्णस्फोटावृतः श्यावस् तीव्रदाहरुजाज्वरः । (१०।१)

kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ |

10.2१०.२

पित्तलिङ्गो ऽसृजा बाह्यः स्त्रीणाम् एव तथान्तरः ॥ (१०।२)

pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ ||

11.1११.१

शस्त्राद्यैरभिघातेन क्षते वापथ्यकारिणः । (११।१)

śastrādyairabhighātena kṣate vāpathyakāriṇaḥ |

11.2११.२

क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तम् ईरयन् ॥ (११।२)

kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan ||

12.1१२.१

पित्तासृग्लक्षणं कुर्याद् विद्रधिं भूर्युपद्रवम् । (१२।१)

pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam |

12.2१२.२

तेषूपद्रवभेदश्च स्मृतो ऽधिष्ठानभेदतः ॥ (१२।२)

teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ ||

13.1१३.१

नाभ्यां हिध्मा भवेद् वस्तौ मूत्रं कृच्छ्रेण पूति च । (१३।१)

nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca |

13.2१३.२

श्वासो यकृति रोधस् तु प्लीह्न्युच्छ्वासस्य तृट् पुनः ॥ (१३।२)

śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ ||

14.1१४.१

गलग्रहश्च क्लोम्नि स्यात् सर्वाङ्गप्रग्रहो हृदि । (१४।१)

galagrahaśca klomni syāt sarvāṅgapragraho hṛdi |

14.2१४.२

प्रमोहस् तमकः कासो हृदये घट्टनं व्यथा ॥ (१४।२)

pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṃ vyathā ||

15.1१५.१

कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च । (१५।१)

kukṣipārśvāntarāṃsārtiḥ kukṣāvāṭopajanma ca |

15.2१५.२

सक्थ्नोर् ग्रहो वङ्क्षणयोर् वृक्कयोः कटिपृष्ठयोः ॥ (१५।२)

sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭipṛṣṭhayoḥ ||

16.1१६.१

पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम् । (१६।१)

pārśvayośca vyathā pāyau pavanasya nirodhanam |

16.2१६.२

आमपक्वविदग्धत्वं तेषां शोफवद् आदिशेत् ॥ (१६।२)

āmapakvavidagdhatvaṃ teṣāṃ śophavad ādiśet ||

17.1१७.१

नाभेरूर्ध्वं मुखात् पक्वाः प्रस्रवन्त्यधरे गुदात् । (१७।१)

nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt |

17.2१७.२

गुदास्यान् नाभिजो विद्याद् दोषं क्लेदाच्च विद्रधौ ॥ (१७।२)

gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau ||

18.1१८.१

विद्रधि - प्रोग्नोसेयथास्वं व्रणवत् तत्र विवर्ज्यः संनिपातजः । (१८।१)

vidradhi - Prognoseyathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ |

18.2१८.२

पक्वो हृन्नाभिवस्तिस्थो भिन्नो ऽन्तर् बहिरेव वा ॥ (१८।२)

pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā ||

19.1१९.१

पक्वश्चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः । (१९।१)

pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ |

19.2१९.२

एवम् एव स्तनसिरा विवृताः प्राप्य योषिताम् ॥ (१९।२)

evam eva stanasirā vivṛtāḥ prāpya yoṣitām ||

20.1२०.१

विद्रधि - अन् देर् ब्रुस्त् वोन् स्छ्wअन्गेरेन्सूतानां गर्भिणीनां वा सम्भवेच्छ्वयथुर् घनः । (२०।१)

vidradhi - an der Brust von schwangerensūtānāṃ garbhiṇīnāṃ vā sambhavecchvayathur ghanaḥ |

20.2२०.२

स्तने सदुग्धे ऽदुग्धे वा बाह्यविद्रधिलक्षणः ॥ (२०।२)

stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ ||

21.1२१.१

नाडीनां सूक्ष्मवक्त्रत्वात् कन्यानां न स जायते । (२१।१)

nāḍīnāṃ sūkṣmavaktratvāt kanyānāṃ na sa jāyate |

21.2२१.२

वृद्धि - एन्त्स्तेहुन्ग्क्रुद्धो रुद्धगतिर् वायुः शोफशूलकरश्चरन् ॥ (२१।२)

vṛddhi - Entstehungkruddho ruddhagatir vāyuḥ śophaśūlakaraścaran ||

22.1२२.१

मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः । (२२।१)

muṣkau vaṅkṣaṇataḥ prāpya phalakośābhivāhinīḥ |

22.2२२.२

प्रपीड्य धमनीर् वृद्धिं करोति फलकोशयोः ॥ (२२।२)

prapīḍya dhamanīr vṛddhiṃ karoti phalakośayoḥ ||

23.1२३.१

दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः । (२३।१)

doṣāsramedomūtrāntraiḥ sa vṛddhiḥ saptadhā gadaḥ |

23.2२३.२

मूत्रान्त्रजावप्यनिलाद्धेतुभेदस् तु केवलम् ॥ (२३।२)

mūtrāntrajāvapyanilāddhetubhedas tu kevalam ||

24.1२४.१

वृद्धि - स्य्म्प्तोमेवातपूर्णदृतिस्पर्शो रूक्षो वाताद् अहेतुरुक् । (२४।१)

vṛddhi - symptomevātapūrṇadṛtisparśo rūkṣo vātād aheturuk |

24.2२४.२

पक्वोदुम्बरसंकाशः पित्ताद् दाहोष्मपाकवान् ॥ (२४।२)

pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān ||

25.1२५.१

कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनो ऽल्परुक् । (२५।१)

kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk |

25.2२५.२

कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः ॥ (२५।२)

kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ ||

26.1२६.१

कफवन् मेदसा वृद्धिर् मृदुस् तालफलोपमः । (२६।१)

kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ |

26.2२६.२

मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः ॥ (२६।२)

mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ ||

27.1२७.१

अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ् मृदुः । (२७।१)

ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅ mṛduḥ |

27.2२७.२

मूत्रकृच्छ्रम् अधस्ताच्च वलयं फलकोशयोः ॥ (२७।२)

mūtrakṛcchram adhastācca valayaṃ phalakośayoḥ ||

28.1२८.१

वातकोपिभिराहारैः शीततोयावगाहनैः । (२८।१)

vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ |

28.2२८.२

अन्त्रवृद्धिधारणेरणभाराध्वविषमाङ्गप्रवर्तनैः ॥ (२८।२)

antravṛddhidhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ ||

29.1२९.१

क्षोभणैः क्षुभितो ऽन्यैश्च क्षुद्रान्त्रावयवं यदा । (२९।१)

kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṃ yadā |

29.2२९.२

पवनो विगुणीकृत्य स्वनिवेशाद् अधो नयेत् ॥ (२९।२)

pavano viguṇīkṛtya svaniveśād adho nayet ||

30.1३०.१

कुर्याद् वङ्क्षणसंधिस्थो ग्रन्थ्याभं श्वयथुं तदा । (३०।१)

kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā |

30.2३०.२

उपेक्ष्यमाणस्य च मुष्कवृद्धिम् आध्मानरुक्स्तम्भवतीं स वायुः । (३०।२)

upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṃ sa vāyuḥ |

30.3३०.३

प्रपीडितो ऽन्तः स्वनवान् प्रयाति प्रध्मापयन्न् एति पुनश्च मुक्तः ॥ (३०।३)

prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ ||

31.1३१.१

अन्त्रवृद्धिरसाध्यो ऽयं वातवृद्धिसमाकृतिः ॥ (३१।१)

antravṛddhirasādhyo 'yaṃ vātavṛddhisamākṛtiḥ ||

32.1३२.१

गुल्म - एन्त्स्तेहुन्ग्रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः । (३२।१)

gulma - Entstehungrūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ |

32.2३२.२

गुल्मो ऽष्टधा पृथग् दोषैः संसृष्टैर् निचयं गतैः ॥ (३२।२)

gulmo 'ṣṭadhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ ||

33.1३३.१

आर्तवस्य च दोषेण नारीणां जायते ऽष्टमः । (३३।१)

ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ |

33.2३३.२

ज्वरच्छर्द्यतिसाराद्यैर् वमनाद्यैश्च कर्मभिः ॥ (३३।२)

jvaracchardyatisārādyair vamanādyaiśca karmabhiḥ ||

34.1३४.१

कर्शितो वातलान्यत्ति शीतं वाम्बु बुभुक्षितः । (३४।१)

karśito vātalānyatti śītaṃ vāmbu bubhukṣitaḥ |

34.2३४.२

यः पिबत्यनु चान्नानि लङ्घनप्लवनादिकम् ॥ (३४।२)

yaḥ pibatyanu cānnāni laṅghanaplavanādikam ||

35.1३५.१

सेवते देहसंक्षोभि छर्दिं वा समुदीरयेत् । (३५।१)

sevate dehasaṃkṣobhi chardiṃ vā samudīrayet |

35.2३५.२

अनुदीर्णाम् उदीर्णान् वा वातादीन् न विमुञ्चति ॥ (३५।२)

anudīrṇām udīrṇān vā vātādīn na vimuñcati ||

36.1३६.१

स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवते । (३६।१)

snehasvedāvanabhyasya śodhanaṃ vā niṣevate |

36.2३६.२

शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा ॥ (३६।२)

śuddho vāśu vidāhīni bhajate syandanāni vā ||

37.1३७.१

वातोल्बणास् तस्य मलाः पृथक् क्रुद्धा द्विशो ऽथवा । (३७।१)

vātolbaṇās tasya malāḥ pṛthak kruddhā dviśo 'thavā |

37.2३७.२

सर्वे वा रक्तयुक्ता वा महास्रोतोऽनुशायिनः ॥ (३७।२)

sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ ||

38.1३८.१

ऊर्ध्वाधोमार्गम् आवृत्य कुर्वते शूलपूर्वकम् । (३८।१)

ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam |

38.2३८.२

स्पर्शोपलभ्यं गुल्माख्यम् उत्प्लुतं ग्रन्थिरूपिणम् ॥ (३८।२)

sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam ||

39.1३९.१

गुल्मकर्शनात् कफविट्पित्तैर् मार्गस्यावरणेन वा । (३९।१)

gulmakarśanāt kaphaviṭpittair mārgasyāvaraṇena vā |

39.2३९.२

वायुः कृताश्रयः कोष्ठे रौक्ष्यात् काठिन्यम् आगतः ॥ (३९।२)

vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ ||

40.1४०.१

स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये । (४०।१)

svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye |

40.2४०.२

पिण्डितत्वाद् अमूर्तो ऽपि मूर्तत्वम् इव संश्रितः ॥ (४०।२)

piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ ||

41.1४१.१

गुल्म इत्युच्यते वस्तिनाभिहृत्पार्श्वसंश्रयः । (४१।१)

gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ |

41.2४१.२

वातगुल्मवातान् मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम् ॥ (४१।२)

vātagulmavātān manyāśiraḥśūlaṃ jvaraplīhāntrakūjanam ||

42.1४२.१

व्यधः सूच्येव विट्सङ्गः कृच्छ्राद् उच्छ्वसनं मुहुः । (४२।१)

vyadhaḥ sūcyeva viṭsaṅgaḥ kṛcchrād ucchvasanaṃ muhuḥ |

42.2४२.२

स्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता ॥ (४२।२)

stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā ||

43.1४३.१

रूक्षकृष्णत्वगादित्वं चलत्वाद् अनिलस्य च । (४३।१)

rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca |

43.2४३.२

अनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः ॥ (४३।२)

anirūpitasaṃsthānasthānavṛddhikṣayavyathaḥ ||

44.1४४.१

पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यते । (४४।१)

pipīlikāvyāpta iva gulmaḥ sphurati tudyate |

44.2४४.२

पित्तगुल्मपित्ताद् दाहो ऽम्लको मूर्छाविड्भेदस्वेदतृड्ज्वराः ॥ (४४।२)

pittagulmapittād dāho 'mlako mūrchāviḍbhedasvedatṛḍjvarāḥ ||

45.1४५.१

हारिद्रत्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहः । (४५।१)

hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ |

45.2४५.२

दूयते दीप्यते सोष्मा स्वस्थानं दहतीव च ॥ (४५।२)

dūyate dīpyate soṣmā svasthānaṃ dahatīva ca ||

46.1४६.१

कफात् स्तैमित्यम् अरुचिः सदनं शिशिरज्वरः । (४६।१)

kaphāt staimityam aruciḥ sadanaṃ śiśirajvaraḥ |

46.2४६.२

पीनसालस्यहृल्लासकासशुक्लत्वगादिताः ॥ (४६।२)

pīnasālasyahṛllāsakāsaśuklatvagāditāḥ ||

47.1४७.१

गुल्मो ऽवगाढः कठिनो गुरुः सुप्तः स्थिरो ऽल्परुक् । (४७।१)

gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk |

47.2४७.२

स्वदोषस्थानधामानः स्वे स्वे काले च रुक्कराः ॥ (४७।२)

svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ ||

48.1४८.१

प्रायस् त्रयस् तु द्वन्द्वोत्था गुल्माः संसृष्टलक्षणाः । (४८।१)

prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ |

48.2४८.२

सर्वजस् तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः ॥ (४८।२)

sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ ||

49.1४९.१

गुल्म - बेइ ड़्रौएन्सो ऽसाध्यो रक्तगुल्मस् तु स्त्रिया एव प्रजायते । (४९।१)

gulma - bei Frauenso 'sādhyo raktagulmas tu striyā eva prajāyate |

49.2४९.२

ऋतौ वा नवसूता वा यदि वा योनिरोगिणी ॥ (४९।२)

ṛtau vā navasūtā vā yadi vā yonirogiṇī ||

50.1५०.१

सेवते वातलानि स्त्री क्रुद्धस् तस्याः समीरणः । (५०।१)

sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ |

50.2५०.२

निरुणद्ध्यार्तवं योन्यां प्रतिमासम् अवस्थितम् ॥ (५०।२)

niruṇaddhyārtavaṃ yonyāṃ pratimāsam avasthitam ||

51.1५१.१

कुक्षिं करोति तद्गर्भलिङ्गम् आविष्करोति च । (५१।१)

kukṣiṃ karoti tadgarbhaliṅgam āviṣkaroti ca |

51.2५१.२

हृल्लासदौर्हृदस्तन्यदर्शनक्षामतादिकम् ॥ (५१।२)

hṛllāsadaurhṛdastanyadarśanakṣāmatādikam ||

52.1५२.१

क्रमेण वायुसंसर्गात् पित्तयोनितया च तत् । (५२।१)

krameṇa vāyusaṃsargāt pittayonitayā ca tat |

52.2५२.२

शोणितं कुरुते तस्या वातपित्तोत्थगुल्मजान् ॥ (५२।२)

śoṇitaṃ kurute tasyā vātapittotthagulmajān ||

53.1५३.१

रुक्स्तम्भदाहातीसारतृड्ज्वरादीन् उपद्रवान् । (५३।१)

rukstambhadāhātīsāratṛḍjvarādīn upadravān |

53.2५३.२

गर्भाशये च सुतरां शूलं दुष्टासृगाश्रये ॥ (५३।२)

garbhāśaye ca sutarāṃ śūlaṃ duṣṭāsṛgāśraye ||

54.1५४.१

योन्याश्च स्रावदौर्गन्ध्यतोदस्पन्दनवेदनाः । (५४।१)

yonyāśca srāvadaurgandhyatodaspandanavedanāḥ |

54.2५४.२

न चाङ्गैर् गर्भवद् गुल्मः स्फुरत्यपि तु शूलवान् ॥ (५४।२)

na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān ||

55.1५५.१

पिण्डीभूतः स एवास्याः कदाचित् स्पन्दते चिरात् । (५५।१)

piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt |

55.2५५.२

न चास्या वर्धते कुक्षिर् गुल्म एव तु वर्धते ॥ (५५।२)

na cāsyā vardhate kukṣir gulma eva tu vardhate ||

56.1५६.१

स्वदोषसंश्रयो गुल्मः सर्वो भवति तेन सः । (५६।१)

svadoṣasaṃśrayo gulmaḥ sarvo bhavati tena saḥ |

56.2५६.२

पाकं चिरेण भजते नैव वा विद्रधिः पुनः ॥ (५६।२)

pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ ||

57.1५७.१

पच्यते शीघ्रम् अत्यर्थं दुष्टरक्ताश्रयत्वतः । (५७।१)

pacyate śīghram atyarthaṃ duṣṭaraktāśrayatvataḥ |

57.2५७.२

अतः शीघ्रविदाहित्वाद् विद्रधिः सो ऽभिधीयते ॥ (५७।२)

ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate ||

58.1५८.१

गुल्मे ऽन्तराश्रये वस्तिकुक्षिहृत्प्लीहवेदनाः । (५८।१)

gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ |

58.2५८.२

अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम् ॥ (५८।२)

agnivarṇabalabhraṃśo vegānāṃ cāpravartanam ||

59.1५९.१

अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक् । (५९।१)

ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk |

59.2५९.२

वैवर्ण्यम् अवकाशस्य बहिरुन्नतताधिकम् ॥ (५९।२)

vaivarṇyam avakāśasya bahirunnatatādhikam ||

60.1६०.१

आनाहसाटोपम् अत्युग्ररुजम् आध्मानम् उदरे भृशम् । (६०।१)

ānāhasāṭopam atyugrarujam ādhmānam udare bhṛśam |

60.2६०.२

ऊर्ध्वाधोवातरोधेन तम् आनाहं प्रचक्षते ॥ (६०।२)

ūrdhvādhovātarodhena tam ānāhaṃ pracakṣate ||

61.1६१.१

अष्ठीलाघनो ऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः । (६१।१)

aṣṭhīlāghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṃ samunnataḥ |

61.2६१.२

प्रत्यष्ठीलाआनाहलिङ्गस् तिर्यक् तु प्रत्यष्ठीला तदाकृतिः ॥ (६१।२)

pratyaṣṭhīlāānāhaliṅgas tiryak tu pratyaṣṭhīlā tadākṛtiḥ ||

62.1६२.१

पक्वाशयाद् गुदोपस्थं वायुस् तीव्ररुजः प्रयान् । (६२।१)

pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān |

62.2६२.२

तूणी प्रतूणी तु भवेत् स एवातो विपर्यये ॥ (६२।२)

tūṇī pratūṇī tu bhavet sa evāto viparyaye ||

63.1६३.१

उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि । (६३।१)

udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni |

63.2६३.२

आटोपम् आध्मानम् अपक्तिशक्तिम् आसन्नगुल्मस्य वदन्ति चिह्नम् ॥ (६३।२)

āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 3, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit