अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 20

20 of 120 · 80 verses

Select a line for its word-by-word analysis.

1.1१.१

ऊर्ध्वजत्रुविकारेषु विशेषान् नस्यम् इष्यते । (१।१)

ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate |

1.2१.२

नासा हि शिरसो द्वारं तेन तद् व्याप्य हन्ति तान् ॥ (१।२)

nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān ||

2.1२.१

विरेचनं बृंहणं च शमनं च त्रिधापि तत् । (२।१)

virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat |

2.2२.२

विरेचनं शिरःशूलजाड्यस्यन्दगलामये ॥ (२।२)

virecanaṃ śiraḥśūlajāḍyasyandagalāmaye ||

3.1३.१

शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे । (३।१)

śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase |

3.2३.२

बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये ॥ (३।२)

bṛṃhaṇaṃ vātaje śūle sūryāvarte svarakṣaye ||

4.1४.१

नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधे ऽवबाहुके । (४।१)

nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke |

4.2४.२

शमनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु ॥ (४।२)

śamanaṃ nīlikāvyaṅgakeśadoṣākṣirājiṣu ||

5.1५.१

यथास्वं यौगिकैः स्नेहैर् यथास्वं च प्रसाधितैः । (५।१)

yathāsvaṃ yaugikaiḥ snehair yathāsvaṃ ca prasādhitaiḥ |

5.2५.२

कल्कक्वाथादिभिश् चाद्यं मधुपट्वासवैर् अपि ॥ (५।२)

kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api ||

6.1६.१

बृंहणं धन्वमांसोत्थरसासृक्खपुरैर् अपि । (६।१)

bṛṃhaṇaṃ dhanvamāṃsottharasāsṛkkhapurair api |

6.2६.२

शमनं योजयेत् पूर्वैः क्षीरेण सलिलेन वा ॥ (६।२)

śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā ||

7.1७.१

मर्शश् च प्रतिमर्शश् च द्विधा स्नेहो ऽत्र मात्रया । (७।१)

marśaś ca pratimarśaś ca dvidhā sneho 'tra mātrayā |

7.2७.२

कल्काद्यैर् अवपीडस् तु स तीक्ष्णैर् मूर्धरेचनः ॥ (७।२)

kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ ||

8.1८.१

ध्मानं विरेचनश्चूर्णो युञ्ज्यात् तं मुखवायुना । (८।१)

dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā |

8.2८.२

षडङ्गुलद्विमुखया नाड्या भेषजगर्भया ॥ (८।२)

ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā ||

9.1९.१

स हि भूरितरं दोषं चूर्णत्वाद् अपकर्षति । (९।१)

sa hi bhūritaraṃ doṣaṃ cūrṇatvād apakarṣati |

9.2९.२

प्रदेशिन्यङ्गुलीपर्वद्वयान् मग्नसमुद्धृतात् ॥ (९।२)

pradeśinyaṅgulīparvadvayān magnasamuddhṛtāt ||

10.1१०.१

यावत् पतत्यसौ बिन्दुर् दशाष्टौ षट् क्रमेण ते । (१०।१)

yāvat patatyasau bindur daśāṣṭau ṣaṭ krameṇa te |

10.2१०.२

मर्शस्योत्कृष्टमध्योना मात्रास् ता एव च क्रमात् ॥ (१०।२)

marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt ||

11.1११.१

बिन्दुद्वयोनाः कल्कादेर् योजयेन् न तु नावनम् । (११।१)

bindudvayonāḥ kalkāder yojayen na tu nāvanam |

11.2११.२

तोयमद्यगरस्नेहपीतानां पातुम् इच्छताम् ॥ (११।२)

toyamadyagarasnehapītānāṃ pātum icchatām ||

12.2१२.२

नवपीनसवेगार्तसूतिकाश्वासकासिनाम् ॥ (१२।२)

navapīnasavegārtasūtikāśvāsakāsinām ||

13.1१३.१

शुद्धानां दत्तवस्तीनां तथानार्तवदुर्दिने । (१३।१)

śuddhānāṃ dattavastīnāṃ tathānārtavadurdine |

13.2१३.२

अन्यत्रात्ययिकाद् व्याधेर् अथ नस्यं प्रयोजयेत् ॥ (१३।२)

anyatrātyayikād vyādher atha nasyaṃ prayojayet ||

14.1१४.१

प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं निशोश्चले । (१४।१)

prātaḥ śleṣmaṇi madhyāhne pitte sāyaṃ niśoścale |

14.2१४.२

स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः ॥ (१४।२)

svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ ||

15.1१५.१

शीते मध्यंदिने ग्रीष्मे सायं वर्षासु सातपे । (१५।१)

śīte madhyaṃdine grīṣme sāyaṃ varṣāsu sātape |

15.2१५.२

वाताभिभूते शिरसि हिध्मायाम् अपतानके ॥ (१५।२)

vātābhibhūte śirasi hidhmāyām apatānake ||

16.1१६.१

मन्यास्तम्भे स्वरभ्रंशे सायं प्रातर् दिने दिने । (१६।१)

manyāstambhe svarabhraṃśe sāyaṃ prātar dine dine |

16.2१६.२

एकाहान्तरम् अन्यत्र सप्ताहं च तद् आचरेत् ॥ (१६।२)

ekāhāntaram anyatra saptāhaṃ ca tad ācaret ||

17.1१७.१

स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च । (१७।१)

snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca |

17.2१७.२

निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः ॥ (१७।२)

nivātaśayanasthasya jatrūrdhvaṃ svedayet punaḥ ||

18.1१८.१

अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते । (१८।१)

athottānarjudehasya pāṇipāde prasārite |

18.2१८.२

किंचिदुन्नतपादस्य किंचिन्मूर्धनि नामिते ॥ (१८।२)

kiṃcidunnatapādasya kiṃcinmūrdhani nāmite ||

19.1१९.१

नासापुटं पिधायैकं पर्यायेण निषेचयेत् । (१९।१)

nāsāpuṭaṃ pidhāyaikaṃ paryāyeṇa niṣecayet |

19.2१९.२

उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुनाथवा ॥ (१९।२)

uṣṇāmbutaptaṃ bhaiṣajyaṃ praṇāḍyā picunāthavā ||

20.1२०.१

दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत् । (२०।१)

datte pādatalaskandhahastakarṇādi mardayet |

20.2२०.२

शनैर् उच्छिद्य निष्ठीवेत् पार्श्वयोर् उभयोस् ततः ॥ (२०।२)

śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ ||

21.1२१.१

आ भेषजक्षयाद् एवं द्विस् त्रिर् वा नस्यम् आचरेत् । (२१।१)

ā bheṣajakṣayād evaṃ dvis trir vā nasyam ācaret |

21.2२१.२

मूर्छायां शीततोयेन सिञ्चेत् परिहरन् शिरः ॥ (२१।२)

mūrchāyāṃ śītatoyena siñcet pariharan śiraḥ ||

22.1२२.१

स्नेहं विरेचनस्यान्ते दद्याद् दोषाद्यपेक्षया । (२२।१)

snehaṃ virecanasyānte dadyād doṣādyapekṣayā |

22.2२२.२

नस्यान्ते वाक्शतं तिष्ठेद् उत्तानो धारयेत् ततः ॥ (२२।२)

nasyānte vākśataṃ tiṣṭhed uttāno dhārayet tataḥ ||

23.1२३.१

धूमं पीत्वा कवोष्णाम्बुकवडान् कण्ठशुद्धये । (२३।१)

dhūmaṃ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye |

23.2२३.२

सम्यक्स्निग्धे सुखोच्छ्वासस्वप्नबोधाक्षपाटवम् ॥ (२३।२)

samyaksnigdhe sukhocchvāsasvapnabodhākṣapāṭavam ||

24.1२४.१

रूक्षे ऽक्षिस्तब्धता शोषो नासास्ये मूर्धशून्यता । (२४।१)

rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā |

24.2२४.२

स्निग्धे ऽति कण्डूगुरुताप्रसेकारुचिपीनसाः ॥ (२४।२)

snigdhe 'ti kaṇḍūgurutāprasekārucipīnasāḥ ||

25.1२५.१

सुविरिक्ते ऽक्षिलघुतावक्त्रस्वरविशुद्धयः । (२५।१)

suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ |

25.2२५.२

दुर्विरिक्ते गदोद्रेकः क्षामतातिविरेचिते ॥ (२५।२)

durvirikte gadodrekaḥ kṣāmatātivirecite ||

26.1२६.१

प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु । (२६।१)

pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu |

26.2२६.२

प्रयोज्यो ऽकालवर्षे ऽपि न त्विष्टो दुष्टपीनसे ॥ (२६।२)

prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase ||

27.1२७.१

मद्यपीते ऽबलश्रोत्रे कृमिदूषितमूर्धनि । (२७।१)

madyapīte 'balaśrotre kṛmidūṣitamūrdhani |

27.2२७.२

उत्कृष्टोत्क्लिष्टदोषे च हीनमात्रतया हि सः ॥ (२७।२)

utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ ||

28.2२८.२

शिरोऽभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम् ॥ (२८।२)

śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām ||

29.1२९.१

दन्तकाष्ठस्य हासस्य योज्यो ऽन्ते ऽसौ द्विबिन्दुकः । (२९।१)

dantakāṣṭhasya hāsasya yojyo 'nte 'sau dvibindukaḥ |

29.2२९.२

पञ्चसु स्रोतसां शुद्धिः क्लमनाशस् त्रिषु क्रमात् ॥ (२९।२)

pañcasu srotasāṃ śuddhiḥ klamanāśas triṣu kramāt ||

30.1३०.१

दृग्बलं पञ्चसु ततो दन्तदार्ढ्यं मरुच्छमः । (३०।१)

dṛgbalaṃ pañcasu tato dantadārḍhyaṃ marucchamaḥ |

30.2३०.२

न नस्यम् ऊनसप्ताब्दे नातीताशीतिवत्सरे ॥ (३०।२)

na nasyam ūnasaptābde nātītāśītivatsare ||

31.1३१.१

न चोनाष्टादशे धूमः कवडो नोनपञ्चमे । (३१।१)

na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame |

31.2३१.२

न शुद्धिर् ऊनदशमे न चातिक्रान्तसप्ततौ ॥ (३१।२)

na śuddhir ūnadaśame na cātikrāntasaptatau ||

32.1३२.१

आजन्ममरणं शस्तः प्रतिमर्शस् तु वस्तिवत् । (३२।१)

ājanmamaraṇaṃ śastaḥ pratimarśas tu vastivat |

32.2३२.२

मर्शवच्च गुणान् कुर्यात् स हि नित्योपसेवनात् ॥ (३२।२)

marśavacca guṇān kuryāt sa hi nityopasevanāt ||

33.1३३.१

न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद् भयम् । (३३।१)

na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam |

33.2३३.२

तैलम् एव च नस्यार्थे नित्याभ्यासेन शस्यते ॥ (३३।२)

tailam eva ca nasyārthe nityābhyāsena śasyate ||

34.1३४.१

शिरसः श्लेष्मधामत्वात् स्नेहाः स्वस्थस्य नेतरे । (३४।१)

śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare |

34.2३४.२

आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता ॥ (३४।२)

āśukṛccirakāritvaṃ guṇotkarṣāpakṛṣṭatā ||

35.1३५.१

मर्शे च प्रतिमर्शे च विशेषो न भवेद् यदि । (३५।१)

marśe ca pratimarśe ca viśeṣo na bhaved yadi |

35.2३५.२

को मर्शं सपरीहारं सापदं च भजेत् ततः ॥ (३५।२)

ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajet tataḥ ||

36.1३६.१

अच्छपानविचाराख्यौ कुटीवातातपस्थिती । (३६।१)

acchapānavicārākhyau kuṭīvātātapasthitī |

36.2३६.२

अन्वासमात्रावस्ती च तद्वद् एव विनिर्दिशेत् ॥ (३६।२)

anvāsamātrāvastī ca tadvad eva vinirdiśet ||

37.1३७.१

पटोलमुद्गवार्ताकह्रस्वमूलकजाङ्गलैः । (३७।१)

paṭolamudgavārtākahrasvamūlakajāṅgalaiḥ |

37.2३७.२

रसैः शालियवान् अद्यान् नस्यकर्मणि षड्विधे ॥ (३७।२)

rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe ||

38.1३८.१

जीवन्तीजलदेवदारुजलदत्वक्सेव्यगोपीहिमम् । (३८।१)

jīvantījaladevadārujaladatvaksevyagopīhimam |

38.2३८.२

दार्वीत्वङ्मधुकप्लवागुरुवरीपुण्ड्राह्वबिल्वोत्पलम् । (३८।२)

dārvītvaṅmadhukaplavāguruvarīpuṇḍrāhvabilvotpalam |

38.3३८.३

धावन्यौ सुरभिं स्थिरे कृमिहरं पत्त्रं त्रुटीं रेणुकाम् । (३८।३)

dhāvanyau surabhiṃ sthire kṛmiharaṃ pattraṃ truṭīṃ reṇukām |

38.4३८.४

किञ्जल्कं कमलाद् बलां शतगुणे दिव्ये ऽम्भसि क्वाथयेत् ॥ (३८।४)

kiñjalkaṃ kamalād balāṃ śataguṇe divye 'mbhasi kvāthayet ||

39.1३९.१

तैलाद् रसं दशगुणं परिशेष्य तेन तैलं पचेत सलिलेन दशैव वारान् । (३९।१)

tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān |

39.2३९.२

पाके क्षिपेच्च दशमे समम् आजदुग्धं नस्यं महागुणम् उशन्त्यणुतैलम् एतत् ॥ (३९।२)

pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat ||

40.1४०.१

घनोन्नतप्रसन्नत्वक्स्कन्धग्रीवास्यवक्षसः । (४०।१)

ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ |

40.2४०.२

दृढेन्द्रियास्तपलिता भवेयुर् नस्यशीलिनः ॥ (४०।२)

dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 20

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit