अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 3, 14
Select a line for its word-by-word analysis.
अथातः कुष्ठश्वित्रकृमिनिदानं व्याख्यास्यामः । (१।१)
athātaḥ kuṣṭhaśvitrakṛminidānaṃ vyākhyāsyāmaḥ |
कुष्ठ - एन्त्स्तेहुन्ग्मिथ्याहारविहारेण विशेषेण विरोधिना । (१।३)
kuṣṭha - Entstehungmithyāhāravihāreṇa viśeṣeṇa virodhinā |
पाप्मभिः कर्मभिः सद्यः प्राक्तनैर् वेरिता मलाः । (२।१)
pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ |
सिराः प्रपद्य तिर्यग्गास् त्वग्लसीकासृगामिषम् ॥ (२।२)
sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam ||
दूषयन्ति श्लथीकृत्य निश्चरन्तस् ततो बहिः । (३।१)
dūṣayanti ślathīkṛtya niścarantas tato bahiḥ |
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठम् उशन्ति तत् ॥ (३।२)
tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat ||
कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद् वपुः । (४।१)
kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ |
प्रपद्य धातून् व्याप्यान्तः सर्वान् संक्लेद्य चावहेत् ॥ (४।२)
prapadya dhātūn vyāpyāntaḥ sarvān saṃkledya cāvahet ||
सस्वेदक्लेदसंकोथान् कृमीन् सूक्ष्मान् सुदारुणान् । (५।१)
sasvedakledasaṃkothān kṛmīn sūkṣmān sudāruṇān |
रोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात् ॥ (५।२)
romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt ||
भक्षयेच्छ्वित्रम् अस्माच्च कुष्ठबाह्यम् उदाहृतम् । (६।१)
bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam |
कुष्ठ - उन्तेरर्तेन्कुष्ठानि सप्तधा दोषैः पृथङ् मिश्रैः समागतैः ॥ (६।२)
kuṣṭha - Unterartenkuṣṭhāni saptadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ ||
वातेन कुष्ठं कापालं पित्ताद् औदुम्बरं कफात् ॥ (७।२)
vātena kuṣṭhaṃ kāpālaṃ pittād audumbaraṃ kaphāt ||
मण्डलाख्यं विचर्ची च ऋक्षाख्यं वातपित्तजम् । (८।१)
maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittajam |
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद् दद्रूशतारुषी । (९।१)
vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī |
सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु सकाकणम् । (१०।१)
sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam |
पुण्डरीकर्क्षजिह्वे च महाकुष्ठानि सप्त तु ॥ (१०।२)
puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu ||
दाहः कण्डूस् त्वचि स्वापस् तोदः कोठोन्नतिः श्रमः ॥ (११।२)
dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ ||
व्रणानाम् अधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः । (१२।१)
vraṇānām adhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ |
रूढानाम् अपि रूक्षत्वं निमित्ते ऽल्पे ऽपि कोपनम् ॥ (१२।२)
rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam ||
रोमहर्षो ऽसृजः कार्ष्ण्यम् कुष्ठलक्षणम् अग्रजम् । (१३।१)
romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam |
कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु ॥ (१३।२)
kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu ||
विस्तृतासमपर्यन्तं हृषितैर् रोमभिश्चितम् । (१४।१)
vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam |
तोदाढ्यम् अल्पकण्डूकं कापालं शीघ्रसर्पि च ॥ (१४।२)
todāḍhyam alpakaṇḍūkaṃ kāpālaṃ śīghrasarpi ca ||
स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तम् अनाशुगम् ॥ (१६।२)
sthiraṃ styānaṃ guru snigdhaṃ śvetaraktam anāśugam ||
अन्योन्यसक्तम् उत्सन्नं बहुकण्डूस्रुतिक्रिमि । (१७।१)
anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi |
श्लक्ष्णपीताभपर्यन्तं मण्डलं परिमण्डलम् ॥ (१७।२)
ślakṣṇapītābhaparyantaṃ maṇḍalaṃ parimaṇḍalam ||
परुषं तनु रक्तान्तम् अन्तःश्यावं समुन्नतम् ॥ (१८।२)
paruṣaṃ tanu raktāntam antaḥśyāvaṃ samunnatam ||
सतोददाहरुक्क्लेदं कर्कशैः पिटिकैश्चितम् । (१९।१)
satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam |
ऋक्षजिह्वाकृति प्रोक्तम् ऋक्षजिह्वं बहुक्रिमि ॥ (१९।२)
ṛkṣajihvākṛti proktam ṛkṣajihvaṃ bahukrimi ||
हस्तिचर्मखरस्पर्शं चर्मैकाख्यं महाश्रयम् । (२०।१)
hasticarmakharasparśaṃ carmaikākhyaṃ mahāśrayam |
रूक्षं किणखरस्पर्शं कण्डूमत् परुषासितम् । (२१।१)
rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam |
सिध्मं रूक्षं बहिः स्निग्धम् अन्तर् घृष्टं रजः किरेत् ॥ (२१।२)
sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret ||
श्लक्ष्णस्पर्शं तनु श्वेतताम्रं दौग्धिकपुष्पवत् । (२२।१)
ślakṣṇasparśaṃ tanu śvetatāmraṃ daugdhikapuṣpavat |
प्रायेण चोर्ध्वकाये स्याद् गण्डैः कण्डूयुतैश्चितम् ॥ (२२।२)
prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam ||
तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटिकाचिताः ॥ (२३।२)
tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ ||
उत्सन्नमण्डला दद्रूः कण्डूमत्यनुषङ्गिणी ॥ (२४।२)
utsannamaṇḍalā dadrūḥ kaṇḍūmatyanuṣaṅgiṇī ||
स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम् । (२५।१)
sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam |
शतारुः क्लेदजन्त्वाढ्यं प्रायशः पर्वजन्म च ॥ (२५।२)
śatāruḥ kledajantvāḍhyaṃ prāyaśaḥ parvajanma ca ||
रक्तान्तम् अन्तरा पाण्डु कण्डूदाहरुजान्वितम् । (२६।१)
raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam |
सोत्सेधम् आचितं रक्तैः पद्मपत्त्रम् इवांशुभिः ॥ (२६।२)
sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ ||
पुण्डरीकं तनुत्वग्भिश्चितं स्फोटैः सितारुणैः ॥ (२७।२)
puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ ||
विस्फोटं पिटिकाः पामा कण्डूक्लेदरुजाधिकाः । (२८।१)
visphoṭaṃ piṭikāḥ pāmā kaṇḍūkledarujādhikāḥ |
सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्पाणिकूर्परे ॥ (२८।२)
sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare ||
पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम् । (३०।१)
pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam |
कुष्ठलिङ्गैर् युतं सर्वैर् नैकवर्णं ततो भवेत् ॥ (३०।२)
kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet ||
कुष्ठेषु दोषोल्बणतां सर्वदोषोल्बणं त्यजेत् ॥ (३१।२)
kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet ||
रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम् । (३२।१)
riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam |
याप्यं मेदोगतं कृच्छ्रं पित्तद्वन्द्वास्रमांसगम् ॥ (३२।२)
yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam ||
अकृच्छ्रं कफवाताढ्यं त्वक्स्थम् एकमलं च यत् । (३३।१)
akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat |
तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः ॥ (३३।२)
tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ ||
पाणिपादाश्रिताः स्फोटाः क्लेदः संधिषु चाधिकम् ॥ (३४।२)
pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam ||
कौण्यं गतिक्षयो ऽङ्गानां दलनं स्याच्च मेदसि । (३५।१)
kauṇyaṃ gatikṣayo 'ṅgānāṃ dalanaṃ syācca medasi |
नासाभङ्गो ऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः ॥ (३५।२)
nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ ||
क्षते च कृमयः शुक्रे स्वदारापत्यबाधनम् । (३६।१)
kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam |
यथापूर्वं च सर्वाणि स्युर् लिङ्गान्यसृगादिषु ॥ (३६।२)
yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu ||
कुष्ठैकसंभवं श्वित्रं किलासं दारुणं च तत् । (३७।१)
kuṣṭhaikasaṃbhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat |
निर्दिष्टम् अपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥ (३७।२)
nirdiṣṭam aparisrāvi tridhātūdbhavasaṃśrayam ||
वाताद् रूक्षारुणं पित्तात् ताम्रं कमलपत्त्रवत् । (३८।१)
vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat |
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ॥ (३८।२)
sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru ||
सकण्डु च क्रमाद् रक्तमांसमेदःसु चादिशेत् । (३९।१)
sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet |
वर्णेनैवेदृग् उभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ (३९।२)
varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram ||
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यम् अतो ऽन्यथा ॥ (४०।२)
anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyam ato 'nyathā ||
स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः ॥ (४१।२)
sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ ||
कृमयःकृमयस् तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः ॥ (४२।२)
kṛmayaḥkṛmayas tu dvidhā proktā bāhyābhyantarabhedataḥ ||
नामतो विंशतिविधा बाह्यास् तत्रामृजोद्भवाः ॥ (४३।२)
nāmato viṃśatividhā bāhyās tatrāmṛjodbhavāḥ ||
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ॥ (४४।२)
bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ ||
द्विधा ते कोठपिटिकाकण्डूगण्डान् प्रकुर्वते । (४५।१)
dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate |
कुष्ठैकहेतवो ऽन्तर्जाः श्लेष्मजास् तेषु चाधिकम् ॥ (४५।२)
kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam ||
कफाद् आमाशये जाता वृद्धाः सर्पन्ति सर्वतः । (४७।१)
kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ |
पृथुब्रध्ननिभाः केचित् केचिद् गण्डूपदोपमाः ॥ (४७।२)
pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ ||
रूढधान्याङ्कुराकारास् तनुदीर्घास् तथाणवः । (४८।१)
rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ |
श्वेतास् ताम्रावभासाश्च नामतः सप्तधा तु ते ॥ (४८।२)
śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te ||
कुरवो दर्भकुसुमाः सुगन्धास् ते च कुर्वते ॥ (४९।२)
kuravo darbhakusumāḥ sugandhās te ca kurvate ||
मूर्छाछर्दिज्वरानाहकार्श्यक्षवथुपीनसान् ॥ (५०।२)
mūrchāchardijvarānāhakārśyakṣavathupīnasān ||
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिद् अदर्शनाः ॥ (५१।२)
apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ ||
पक्वाशये पुरीषोत्था जायन्ते ऽधोविसर्पिणः । (५३।१)
pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ |
वृद्धाः सन्तो भवेयुश्च ते यदामाशयोन्मुखाः ॥ (५३।२)
vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ ||
तदास्योद्गारनिःश्वासा विड्गन्धानुविधायिनः । (५४।१)
tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ |
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः । (५६।१)
viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ |
Data courtesy of The Digital Corpus of Sanskrit.