अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 6
Select a line for its word-by-word analysis.
अन्ज़ह्ल् देर् वरिअन्तेनुन्मादाः षट् पृथग्दोषनिचयाधिविषोद्भवाः । (१।३)
Anzahl der Variantenunmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ |
पथोगेनेसेउन्मादो नाम मनसो दोषैरुन्मार्गगैर् मदः ॥ (१।४)
Pathogeneseunmādo nāma manaso doṣairunmārgagair madaḥ ||
विषण्णस्याल्पसत्त्वस्य व्याधिवेगसमुद्गमात् । (३।१)
viṣaṇṇasyālpasattvasya vyādhivegasamudgamāt |
क्षीणस्य चेष्टावैषम्यात् पूज्यपूजाव्यतिक्रमात् ॥ (३।२)
kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt ||
एभिर् हि हीनसत्त्वस्य हृदि दोषाः प्रदूषिताः ॥ (४।२)
ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ ||
धियो विधाय कालुष्यं हृत्वा मार्गान् मनोवहान् । (५।१)
dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān |
उन्मादं कुर्वते तेन धीविज्ञानस्मृतिभ्रमात् ॥ (५।२)
unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt ||
स्य्म्प्तोमे वातोन्माददेहो दुःखसुखभ्रष्टो भ्रष्टसारथिवद् रथः । (६।१)
Symptome vātonmādadeho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ |
भ्रमत्यचिन्तितारम्भस् तत्र वातात् कृशाङ्गता ॥ (६।२)
bhramatyacintitārambhas tatra vātāt kṛśāṅgatā ||
उत्पिण्डितारुणाक्षित्वं जीर्णे चान्ने गदोद्भवः । (१०।१)
utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ |
स्य्म्प्तोमे: पित्तोन्मादपित्तात् संतर्जनं क्रोधो मुष्टिलोष्टाद्यभिद्रवः ॥ (१०।२)
Symptome: pittonmādapittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ ||
शीतच्छायोदकाकाङ्क्षा नग्नत्वं पीतवर्णता । (११।१)
śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā |
स्य्म्प्तोमे: कफोन्मादकफाद् अरोचकश्छर्दिर् अल्पेहाहारवाक्यता । (१२।१)
Symptome: kaphonmādakaphād arocakaśchardir alpehāhāravākyatā |
स्त्रीकामता रहःप्रीतिर् लालासिङ्घाणकस्रुतिः ॥ (१२।२)
strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ ||
बैभत्स्यं शौचविद्वेषो निद्रा श्वयथुरानने । (१३।१)
baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane |
उन्मादो बलवान् रात्रौ भुक्तमात्रे च जायते ॥ (१३।२)
unmādo balavān rātrau bhuktamātre ca jāyate ||
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत् ॥ (१४।२)
unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet ||
पाण्डुर् दीनो मुहुर् मुह्यन् हाहेति परिदेवते ॥ (१५।२)
pāṇḍur dīno muhur muhyan hāheti paridevate ||
रोदित्यकस्मान् म्रियते तद्गुणान् बहु मन्यते । (१६।१)
rodityakasmān mriyate tadguṇān bahu manyate |
स्य्म्प्तोमे: विषोन्मादविषेण श्याववदनो नष्टच्छायाबलेन्द्रियः । (१७।१)
Symptome: viṣonmādaviṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ |
वेगान्तरे ऽपि संभ्रान्तो रक्ताक्षस् तं विवर्जयेत् ॥ (१७।२)
vegāntare 'pi saṃbhrānto raktākṣas taṃ vivarjayet ||
बेहन्द्लुन्गथानिलज उन्मादे स्नेहपानं प्रयोजयेत् । (१८।१)
Behandlungathānilaja unmāde snehapānaṃ prayojayet |
पूर्वम् आवृतमार्गे तु सस्नेहं मृदु शोधनम् ॥ (१८।२)
pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam ||
स्निग्धस्विन्नस्य वस्तिं च शिरसः सविरेचनम् ॥ (१९।२)
snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam ||
इत्थम् अप्यनुवृत्तौ तु तीक्ष्णं नावनम् अञ्जनम् ॥ (२०।२)
ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam ||
अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः ॥ (२१।२)
abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ ||
युञ्ज्यात् तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः । (२२।१)
yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ |
हिङ्गुसौवर्चलव्योषैर् द्विपलांशैर् घृताढकम् ॥ (२२।२)
hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam ||
सिद्धं समूत्रम् उन्मादभूतापस्मारनुत् परम् । (२३।१)
siddhaṃ samūtram unmādabhūtāpasmāranut param |
द्वौ प्रस्थौ स्वरसाद् ब्राह्म्या घृतप्रस्थं च साधितम् ॥ (२३।२)
dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam ||
व्योषश्यामात्रिवृद्दन्तीशङ्खपुष्पीनृपद्रुमैः । (२४।१)
vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ |
पलवृद्ध्या प्रयुञ्जीत परं मात्रा चतुःपलम् । (२५।१)
palavṛddhyā prayuñjīta paraṃ mātrā catuḥpalam |
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम् ॥ (२५।२)
unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam ||
वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम् । (२६।१)
vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam |
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् ॥ (२८।२)
sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet ||
पाण्डुकण्डूविषे शोषे मोहे मेहे गरे ज्वरे ॥ (२९।२)
pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare ||
बल्यं मङ्गल्यम् आयुष्यं कान्तिसौभाग्यपुष्टिदम् । (३१।१)
balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam |
कल्याणकम् इदं सर्पिः श्रेष्ठं पुंसवनेषु च ॥ (३१।२)
kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca ||
एभ्यो द्विशारिवादीनि जले पक्त्वैकविंशतिम् । (३२।१)
ebhyo dviśārivādīni jale paktvaikaviṃśatim |
रसे तस्मिन् पचेत् सर्पिर् गृष्टिक्षीरचतुर्गुणम् ॥ (३२।२)
rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam ||
महापैशाचकबृंहणं संनिपातघ्नं पूर्वस्माद् अधिकं गुणैः । (३४।१)
mahāpaiśācakabṛṃhaṇaṃ saṃnipātaghnaṃ pūrvasmād adhikaṃ guṇaiḥ |
वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा ॥ (३५।२)
vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā ||
कटम्भरा वृश्चिकाली शालिपर्णी च तैर् घृतम् ॥ (३६।२)
kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam ||
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम् । (३७।१)
siddhaṃ cāturthikonmādagrahāpasmāranāśanam |
बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम् । (३८।१)
buddhimedhāsmṛtikaraṃ bālānāṃ cāṅgavardhanam |
रेज़ेप्त्ब्राह्मीम् ऐन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम् ॥ (३८।२)
Rezeptbrāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām ||
रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् । (३९।१)
rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām |
ज्योतिष्मतीं नागविन्नाम् अनन्तां सहरीतकीम् ॥ (३९।२)
jyotiṣmatīṃ nāgavinnām anantāṃ saharītakīm ||
काङ्क्षीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता । (४०।१)
kāṅkṣīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā |
wएइतेरे रेज़ेप्तेअवपीडाश्च विविधाः सर्षपाः स्नेहसंयुताः । (४१।१)
weitere Rezepteavapīḍāśca vividhāḥ sarṣapāḥ snehasaṃyutāḥ |
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद् रजः ॥ (४१।२)
kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ ||
सहिङ्गुस् तीक्ष्णधूमश्च सूत्रस्थानोदितो हितः । (४२।१)
sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ |
धूपयेत् सततं चैनं श्वगोमत्स्यैः सुपूतिभिः । (४४।१)
dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ |
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥ (४४।२)
vātaśleṣmātmake prāyaḥ paittike tu praśasyate ||
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः । (४५।१)
tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ |
विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा । (४६।१)
vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā |
निवाते शाययेद् एवं मुच्यते मतिविभ्रमात् ॥ (४६।२)
nivāte śāyayed evaṃ mucyate mativibhramāt ||
प्रक्षिप्यासलिले कूपे शोषयेद् वा बुभुक्षया । (४७।१)
prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā |
आश्वासयेत् सुहृत् तं वा वाक्यैर् धर्मार्थसंहितैः ॥ (४७।२)
āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ ||
ब्रूयाद् इष्टविनाशं वा दर्शयेद् अद्भुतानि वा । (४८।१)
brūyād iṣṭavināśaṃ vā darśayed adbhutāni vā |
बद्धं सर्षपतैलाक्तं न्यसेद् वोत्तानम् आतपे ॥ (४८।२)
baddhaṃ sarṣapatailāktaṃ nyased vottānam ātape ||
कपिकच्छ्वाथवा तप्तैर् लोहतैलजलैः स्पृशेत् । (४९।१)
kapikacchvāthavā taptair lohatailajalaiḥ spṛśet |
कशाभिस् ताडयित्वा वा बद्धं श्वभ्रे विनिष्क्षिपेत् ॥ (४९।२)
kaśābhis tāḍayitvā vā baddhaṃ śvabhre viniṣkṣipet ||
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर् गजैश्च तम् ॥ (५०।२)
sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam ||
भापयेयुर् वधेनैनं तर्जयन्तो नृपाज्ञया ॥ (५१।२)
bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā ||
देहदुःखभयेभ्यो हि परं प्राणभयं मतम् । (५२।१)
dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam |
तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥ (५२।२)
tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ ||
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया । (५३।१)
siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā |
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत् । (५४।१)
tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet |
भूतानुबन्धम् ईक्षेत प्रोक्तलिङ्गाधिकाकृतिम् ॥ (५५।२)
bhūtānubandham īkṣeta proktaliṅgādhikākṛtim ||
यद्युन्मादे ततः कुर्याद् भूतनिर्दिष्टम् औषधम् । (५६।१)
yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham |
बलिं च दद्यात् पललं यावकं सक्तुपिण्डिकाम् ॥ (५६।२)
baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām ||
स्निग्धं मधुरम् आहारं तण्डुलान् रुधिरोक्षितान् । (५७।१)
snigdhaṃ madhuram āhāraṃ taṇḍulān rudhirokṣitān |
चतुष्पथे गवां तीर्थे नदीनां संगमेषु च ॥ (५८।२)
catuṣpathe gavāṃ tīrthe nadīnāṃ saṃgameṣu ca ||
निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते ॥ (५९।२)
nijāgantubhirunmādaiḥ sattvavān na sa yujyate ||
ज़ेइछेन् ड़्र् वेर्स्छ्wइन्देन् वोन् उन्मादप्रसाद इन्द्रियार्थानां बुद्ध्यात्ममनसां तथा । (६०।१)
Zeichen fr Verschwinden von unmādaprasāda indriyārthānāṃ buddhyātmamanasāṃ tathā |
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ॥ (६०।२)
dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam ||
Data courtesy of The Digital Corpus of Sanskrit.