अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 24

24 of 120 · 45 verses

Select a line for its word-by-word analysis.

1.1१.१

नयने ताम्यति स्तब्धे शुष्के रूक्षे ऽभिघातिते । (१।१)

nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite |

1.2१.२

वातपित्तातुरे जिह्मे शीर्णपक्ष्माविलेक्षणे ॥ (१।२)

vātapittāture jihme śīrṇapakṣmāvilekṣaṇe ||

2.1२.१

कृच्छ्रोन्मीलसिराहर्षसिरोत्पाततमोऽर्जुनैः । (२।१)

kṛcchronmīlasirāharṣasirotpātatamo'rjunaiḥ |

2.2२.२

स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः ॥ (२।२)

syandamanthānyatovātavātaparyāyaśukrakaiḥ ||

3.1३.१

आतुरे शान्तरागाश्रुशूलसंरम्भदूषिके । (३।१)

āture śāntarāgāśruśūlasaṃrambhadūṣike |

3.2३.२

निवाते तर्पणं योज्यं शुद्धयोर् मूर्धकाययोः ॥ (३।२)

nivāte tarpaṇaṃ yojyaṃ śuddhayor mūrdhakāyayoḥ ||

4.1४.१

काले साधारणे प्रातः सायं वोत्तानशायिनः । (४।१)

kāle sādhāraṇe prātaḥ sāyaṃ vottānaśāyinaḥ |

4.2४.२

यवमाषमयीं पालीं नेत्रकोशाद् बहिः समाम् ॥ (४।२)

yavamāṣamayīṃ pālīṃ netrakośād bahiḥ samām ||

5.1५.१

द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धम् आवपेत् । (५।१)

dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet |

5.2५.२

सर्पिर् निमीलिते नेत्रे तप्ताम्बुप्रविलायितम् ॥ (५।२)

sarpir nimīlite netre taptāmbupravilāyitam ||

6.1६.१

नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम् । (६।१)

naktāndhyavātatimirakṛcchrabodhādike vasām |

6.2६.२

आ पक्ष्माग्राद् अथोन्मेषं शनकैस् तस्य कुर्वतः ॥ (६।२)

ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ ||

7.1७.१

मात्रा विगणयेत् तत्र वर्त्मसंधिसितासिते । (७।१)

mātrā vigaṇayet tatra vartmasaṃdhisitāsite |

7.2७.२

दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च ॥ (७।२)

dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca ||

8.1८.१

शतानि सप्त चाष्टौ च दश मन्थे दशानिले । (८।१)

śatāni sapta cāṣṭau ca daśa manthe daśānile |

8.2८.२

पित्ते षट् स्वस्थवृत्ते च बलासे पञ्च धारयेत् ॥ (८।२)

pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet ||

9.1९.१

कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत् । (९।१)

kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet |

9.2९.२

पिबेच्च धूमं नेक्षेत व्योम रूपं च भास्वरम् ॥ (९।२)

pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram ||

10.1१०.१

इत्थं प्रतिदिनं वायौ पित्ते त्वेकान्तरं कफे । (१०।१)

itthaṃ pratidinaṃ vāyau pitte tvekāntaraṃ kaphe |

10.2१०.२

स्वस्थे तु द्व्यन्तरं दद्याद् आ तृप्तेर् इति योजयेत् ॥ (१०।२)

svasthe tu dvyantaraṃ dadyād ā tṛpter iti yojayet ||

11.1११.१

प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम् । (११।१)

prakāśakṣamatā svāsthyaṃ viśadaṃ laghu locanam |

11.2११.२

तृप्ते विपर्ययो ऽतृप्ते ऽतितृप्ते श्लेष्मजा रुजः ॥ (११।२)

tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ ||

12.1१२.१

स्नेहपीता तनुर् इव क्लान्ता दृष्टिर् हि सीदति । (१२।१)

snehapītā tanur iva klāntā dṛṣṭir hi sīdati |

12.2१२.२

तर्पणानन्तरं तस्माद् दृग्बलाधानकारिणम् ॥ (१२।२)

tarpaṇānantaraṃ tasmād dṛgbalādhānakāriṇam ||

13.1१३.१

पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव यक्ष्मसु । (१३।१)

puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu |

13.2१३.२

स वाते स्नेहनः श्लेष्मसहिते लेखनो हितः ॥ (१३।२)

sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ ||

14.1१४.१

दृग्दौर्बल्ये ऽनिले पित्ते रक्ते स्वस्थे प्रसादनः । (१४।१)

dṛgdaurbalye 'nile pitte rakte svasthe prasādanaḥ |

14.2१४.२

भूशयप्रसहानूपमेदोमज्जवसामिषैः ॥ (१४।२)

bhūśayaprasahānūpamedomajjavasāmiṣaiḥ ||

15.1१५.१

स्नेहनं पयसा पिष्टैर् जीवनीयैश्च कल्पयेत् । (१५।१)

snehanaṃ payasā piṣṭair jīvanīyaiśca kalpayet |

15.2१५.२

मृगपक्षियकृन्मांसमुक्तायस्ताम्रसैन्धवैः ॥ (१५।२)

mṛgapakṣiyakṛnmāṃsamuktāyastāmrasaindhavaiḥ ||

16.1१६.१

स्रोतोजशङ्खफेनालैर् लेखनं मस्तुकल्कितैः । (१६।१)

srotojaśaṅkhaphenālair lekhanaṃ mastukalkitaiḥ |

16.2१६.२

मृगपक्षियकृन्मज्जवसान्त्रहृदयामिषैः ॥ (१६।२)

mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ ||

17.1१७.१

मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम् । (१७।१)

madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam |

17.2१७.२

बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः ॥ (१७।२)

bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ ||

18.1१८.१

उरुवूकवटाम्भोजपत्त्रैः स्नेहादिषु क्रमात् । (१८।१)

uruvūkavaṭāmbhojapattraiḥ snehādiṣu kramāt |

18.2१८.२

वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः ॥ (१८।२)

veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ ||

19.1१९.१

पचेत् प्रदीप्तैर् अग्न्याभं पक्वं निष्पीड्य तद्रसम् । (१९।१)

pacet pradīptair agnyābhaṃ pakvaṃ niṣpīḍya tadrasam |

19.2१९.२

नेत्रे तर्पणवद् युञ्ज्याच्छतं द्वे त्रीणि धारयेत् ॥ (१९।२)

netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet ||

20.1२०.१

लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ हिमो ऽपरः । (२०।१)

lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ |

20.2२०.२

धूमपो ऽन्ते तयोर् एव योगास् तत्र च तृप्तिवत् ॥ (२०।२)

dhūmapo 'nte tayor eva yogās tatra ca tṛptivat ||

21.1२१.१

तर्पणं पुटपाकं च नस्यानर्हे न योजयेत् । (२१।१)

tarpaṇaṃ puṭapākaṃ ca nasyānarhe na yojayet |

21.2२१.२

यावन्त्यहानि युञ्जीत द्विस्ततो हितभाग्भवेत् ॥ (२१।२)

yāvantyahāni yuñjīta dvistato hitabhāgbhavet ||

22.1२२.१

मालतीमल्लिकापुष्पैर् बद्धाक्षो निवसेन् निशाम् ॥ (२२।१)

mālatīmallikāpuṣpair baddhākṣo nivasen niśām ||

23.1२३.१

सर्वात्मना नेत्रबलाय यत्नं कुर्वीत नस्याञ्जनतर्पणाद्यैः । (२३।१)

sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ |

23.2२३.२

दृष्टिश् च नष्टा विविधं जगच्च तमोमयं जायत एकरूपम् ॥ (२३।२)

dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 24

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit