अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 4, 21

73 of 120 · 168 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः । (१।१)

athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

केवलं निरुपस्तम्भम् आदौ स्नेहैरुपाचरेत् । (१।३)

kevalaṃ nirupastambham ādau snehairupācaret |

1.4१.४

वायुं सर्पिर्वसामज्जतैलपानैर् नरं ततः ॥ (१।४)

vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ ||

2.1२.१

स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः । (२।१)

snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ |

2.2२.२

यूषैर् ग्राम्यौदकानूपरसैर् वा स्नेहसंयुतैः ॥ (२।२)

yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ ||

3.1३.१

पायसैः कृसरैः साम्ललवणैः सानुवासनैः । (३।१)

pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ |

3.2३.२

नावनैस् तर्पणैश्चान्नैः सुस्निग्धैः स्वेदयेत् ततः ॥ (३।२)

nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ ||

4.1४.१

स्वभ्यक्तं स्नेहसंयुक्तैः शंकराद्यैः पुनः पुनः । (४।१)

svabhyaktaṃ snehasaṃyuktaiḥ śaṃkarādyaiḥ punaḥ punaḥ |

4.2४.२

स्नेहाक्तं स्विन्नम् अङ्गं तु वक्रं स्तब्धं सवेदनम् ॥ (४।२)

snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam ||

5.1५.१

यथेष्टम् आनामयितुं सुखम् एव हि शक्यते । (५।१)

yatheṣṭam ānāmayituṃ sukham eva hi śakyate |

5.2५.२

शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः ॥ (५।२)

śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ ||

6.1६.१

शक्यं कर्मण्यतां नेतुं किमु गात्राणि जीवताम् । (६।१)

śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām |

6.2६.२

हर्षतोदरुगायामशोफस्तम्भग्रहादयः ॥ (६।२)

harṣatodarugāyāmaśophastambhagrahādayaḥ ||

7.1७.१

स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते । (७।१)

svinnasyāśu praśāmyanti mārdavaṃ copajāyate |

7.2७.२

स्नेहश्च धातून् संशुष्कान् पुष्णात्याशूपयोजितः ॥ (७।२)

snehaśca dhātūn saṃśuṣkān puṣṇātyāśūpayojitaḥ ||

8.1८.१

बलम् अग्निबलं पुष्टिं प्राणांश्चास्याभिवर्धयेत् । (८।१)

balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet |

8.2८.२

असकृत् तं पुनः स्नेहैः स्वेदैश्च प्रतिपादयेत् ॥ (८।२)

asakṛt taṃ punaḥ snehaiḥ svedaiśca pratipādayet ||

9.1९.१

तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः । (९।१)

tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ |

9.2९.२

यद्येतेन सदोषत्वात् कर्मणा न प्रशाम्यति ॥ (९।२)

yadyetena sadoṣatvāt karmaṇā na praśāmyati ||

10.1१०.१

मृदुभिः स्नेहसंयुक्तैर् भेषजैस् तं विशोधयेत् । (१०।१)

mṛdubhiḥ snehasaṃyuktair bheṣajais taṃ viśodhayet |

10.2१०.२

घृतं तिल्वकसिद्धं वा सातलासिद्धम् एव वा ॥ (१०।२)

ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā ||

11.1११.१

पयसैरण्डतैलं वा पिबेद् दोषहरं शिवम् । (११।१)

payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam |

11.2११.२

स्निग्धाम्ललवणोष्णाद्यैराहारैर् हि मलश्चितः ॥ (११।२)

snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ ||

12.1१२.१

स्रोतो बद्ध्वानिलं रुन्ध्यात् तस्मात् तम् अनुलोमयेत् । (१२।१)

sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet |

12.2१२.२

दुर्बलो यो ऽविरेच्यः स्यात् तं निरूहैरुपाचरेत् ॥ (१२।२)

durbalo yo 'virecyaḥ syāt taṃ nirūhairupācaret ||

13.1१३.१

दीपनैः पाचनीयैर् वा भोज्यैर् वा तद्युतैर् नरम् । (१३।१)

dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram |

13.2१३.२

संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर् हितौ ॥ (१३।२)

saṃśuddhasyotthite cāgnau snehasvedau punar hitau ||

14.1१४.१

आमाशयगते वायौ वमितप्रतिभोजिते । (१४।१)

āmāśayagate vāyau vamitapratibhojite |

14.2१४.२

सुखाम्बुना षड्धरणं वचादिं वा प्रयोजयेत् ॥ (१४।२)

sukhāmbunā ṣaḍdharaṇaṃ vacādiṃ vā prayojayet ||

15.1१५.१

संधुक्षिते ऽग्नौ परतो विधिः केवलवातिकः । (१५।१)

saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ |

15.2१५.२

मत्स्यान् नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः ॥ (१५।२)

matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ ||

16.1१६.१

वस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः । (१६।१)

vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ |

16.2१६.२

कोष्ठगे क्षारचूर्णाद्या हिताः पाचनदीपनाः ॥ (१६।२)

koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ ||

17.1१७.१

हृत्स्थे पयः स्थिरासिद्धं शिरोवस्तिः शिरोगते । (१७।१)

hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate |

17.2१७.२

स्नैहिकं नावनं धूमः श्रोत्रादीनां च तर्पणम् ॥ (१७।२)

snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam ||

18.1१८.१

स्वेदाभ्यङ्गनिवातानि हृद्यं चान्नं त्वगाश्रिते । (१८।१)

svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite |

18.2१८.२

शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥ (१८।२)

śītāḥ pradehā raktasthe vireko raktamokṣaṇam ||

19.1१९.१

विरेको मांसमेदःस्थे निरूहः शमनानि च । (१९।१)

vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca |

19.2१९.२

बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ॥ (१९।२)

bāhyābhyantarataḥ snehairasthimajjagataṃ jayet ||

20.1२०.१

प्रहर्षो ऽन्नं च शुक्रस्थे बलशुक्रकरं हितम् । (२०।१)

praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam |

20.2२०.२

विबद्धमार्गं दृष्ट्वा तु शुक्रं दद्याद् विरेचनम् ॥ (२०।२)

vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam ||

21.1२१.१

विरिक्तं प्रतिभुक्तं च पूर्वोक्तां कारयेत् क्रियाम् । (२१।१)

viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām |

21.2२१.२

गर्भे शुष्के तु वातेन बालानां च विशुष्यताम् ॥ (२१।२)

garbhe śuṣke tu vātena bālānāṃ ca viśuṣyatām ||

22.1२२.१

सिताकाश्मर्यमधुकैः सिद्धम् उत्थापने पयः । (२२।१)

sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ |

22.2२२.२

स्नावसंधिसिराप्राप्ते स्नेहदाहोपनाहनम् ॥ (२२।२)

snāvasaṃdhisirāprāpte snehadāhopanāhanam ||

23.1२३.१

तैलं संकुचिते ऽभ्यङ्गो माषसैन्धवसाधितम् । (२३।१)

tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam |

23.2२३.२

आगारधूमलवणतैलैर् लेपः स्रुते ऽसृजि ॥ (२३।२)

āgāradhūmalavaṇatailair lepaḥ srute 'sṛji ||

24.1२४.१

सुप्ते ऽङ्गे वेष्टयुक्ते तु कर्तव्यम् उपनाहनम् । (२४।१)

supte 'ṅge veṣṭayukte tu kartavyam upanāhanam |

24.2२४.२

अथापतानकेनार्तम् अस्रस्ताक्षम् अवेपनम् ॥ (२४।२)

athāpatānakenārtam asrastākṣam avepanam ||

25.1२५.१

अस्तब्धमेढ्रम् अस्वेदं बहिरायामवर्जितम् । (२५।१)

astabdhameḍhram asvedaṃ bahirāyāmavarjitam |

25.2२५.२

अखट्वाघातिनं चैनं त्वरितं समुपाचरेत् ॥ (२५।२)

akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret ||

26.1२६.१

तत्र प्राग् एव सुस्निग्धस्विन्नाङ्गे तीक्ष्णनावनम् । (२६।१)

tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam |

26.2२६.२

स्रोतोविशुद्धये युञ्ज्याद् अच्छपानं ततो घृतम् ॥ (२६।२)

srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam ||

27.1२७.१

विदार्यादिगणक्वाथदधिक्षीररसैः शृतम् । (२७।१)

vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam |

27.2२७.२

नातिमात्रं तथा वायुर् व्याप्नोति सहसैव वा ॥ (२७।२)

nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā ||

28.1२८.१

कुलत्थयवकोलानि भद्रदार्वादिकं गणम् । (२८।१)

kulatthayavakolāni bhadradārvādikaṃ gaṇam |

28.2२८.२

निष्क्वाथ्यानूपमांसं च तेनाम्लैः पयसापि च ॥ (२८।२)

niṣkvāthyānūpamāṃsaṃ ca tenāmlaiḥ payasāpi ca ||

29.1२९.१

स्वादुस्कन्धप्रतीवापं महास्नेहं विपाचयेत् । (२९।१)

svāduskandhapratīvāpaṃ mahāsnehaṃ vipācayet |

29.2२९.२

सेकाभ्यङ्गावगाहान्नपाननस्यानुवासनैः ॥ (२९।२)

sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ ||

30.1३०.१

स हन्ति वातं ते ते च स्नेहस्वेदाः सुयोजिताः । (३०।१)

sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ |

30.2३०.२

वेगान्तरेषु मूर्धानम् असकृच्चास्य रेचयेत् ॥ (३०।२)

vegāntareṣu mūrdhānam asakṛccāsya recayet ||

31.1३१.१

अवपीडैः प्रधमनैस् तीक्ष्णैः श्लेष्मनिबर्हणैः । (३१।१)

avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ |

31.2३१.२

श्वसनासु विमुक्तासु तथा संज्ञां स विन्दति । (३१।२)

śvasanāsu vimuktāsu tathā saṃjñāṃ sa vindati |

31.3३१.३

सौवर्चलाभयाव्योषसिद्धं सर्पिश्चले ऽधिके ॥ (३१।३)

sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike ||

32.1३२.१

पलाष्टकं तिल्वकतो वरायाः प्रस्थं पलांशं गुरुपञ्चमूलम् । (३२।१)

palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam |

32.2३२.२

सैरण्डसिंहीत्रिवृतं घटे ऽपां पक्त्वा पचेत् पादशृतेन तेन ॥ (३२।२)

sairaṇḍasiṃhītrivṛtaṃ ghaṭe 'pāṃ paktvā pacet pādaśṛtena tena ||

33.1३३.१

दध्नः पात्रे यावशूकात् त्रिबिल्वैः सर्पिःप्रस्थं हन्ति तत् सेव्यमानम् । (३३।१)

dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam |

33.2३३.२

दुष्टान् वातान् एकसर्वाङ्गसंस्थान् योनिव्यापद्गुल्मवर्ध्मोदरं च ॥ (३३।२)

duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca ||

34.1३४.१

विधिस् तिल्वकवज् ज्ञेयो रम्यकाशोकयोरपि ॥ (३४।१)

vidhis tilvakavaj jñeyo ramyakāśokayorapi ||

35.1३५.१

चिकित्सितम् इदं कुर्याच्छुद्धवातापतानके । (३५।१)

cikitsitam idaṃ kuryācchuddhavātāpatānake |

35.2३५.२

संसृष्टदोषे संसृष्टं चूर्णयित्वा कफान्विते ॥ (३५।२)

saṃsṛṣṭadoṣe saṃsṛṣṭaṃ cūrṇayitvā kaphānvite ||

36.1३६.१

तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम् । (३६।१)

tumburūṇyabhayā hiṅgu pauṣkaraṃ lavaṇatrayam |

36.2३६.२

यवक्वाथाम्बुना पेयं हृत्पार्श्वार्त्यपतन्त्रके ॥ (३६।२)

yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake ||

37.1३७.१

हिङ्गु सौवर्चलं शुण्ठी दाडिमं साम्लवेतसम् । (३७।१)

hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam |

37.2३७.२

पिबेद् वा श्लेष्मपवनहृद्रोगोक्तं च शस्यते ॥ (३७।२)

pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate ||

38.1३८.१

आयामयोरर्दितवद् बाह्याभ्यन्तरयोः क्रिया । (३८।१)

āyāmayorarditavad bāhyābhyantarayoḥ kriyā |

38.2३८.२

तैलद्रोण्यां च शयनम् आन्तरो ऽत्र सुदुस्तरः ॥ (३८।२)

tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ ||

39.1३९.१

विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः । (३९।१)

vivarṇadantavadanaḥ srastāṅgo naṣṭacetanaḥ |

39.2३९.२

प्रस्विद्यंश्च धनुष्कम्भी दशरात्रं न जीवति ॥ (३९।२)

prasvidyaṃśca dhanuṣkambhī daśarātraṃ na jīvati ||

40.1४०.१

वेगेष्वतो ऽन्यथा जीवेन् मन्देषु विनतो जडः । (४०।१)

vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ |

40.2४०.२

खञ्जः कुणिः पक्षहतः पङ्गुलो विकलो ऽथवा ॥ (४०।२)

khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā ||

41.1४१.१

हनुस्रंसे हनू स्निग्धस्विन्नौ स्वस्थानम् आनयेत् । (४१।१)

hanusraṃse hanū snigdhasvinnau svasthānam ānayet |

41.2४१.२

उन्नामयेच्च कुशलश्चिबुकं विवृत्ते मुखे ॥ (४१।२)

unnāmayecca kuśalaścibukaṃ vivṛtte mukhe ||

42.1४२.१

नामयेत् संवृते शेषम् एकायामवद् आचरेत् । (४२।१)

nāmayet saṃvṛte śeṣam ekāyāmavad ācaret |

42.2४२.२

जिह्वास्तम्भे यथावस्थं कार्यं वातचिकित्सितम् ॥ (४२।२)

jihvāstambhe yathāvasthaṃ kāryaṃ vātacikitsitam ||

43.1४३.१

अर्दिते नावनं मूर्ध्नि तैलं श्रोत्राक्षितर्पणम् । (४३।१)

ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam |

43.2४३.२

सशोफे वमनं दाहरागयुक्ते सिराव्यधः ॥ (४३।२)

saśophe vamanaṃ dāharāgayukte sirāvyadhaḥ ||

44.1४४.१

स्नेहनं स्नेहसंयुक्तं पक्षाघाते विरेचनम् । (४४।१)

snehanaṃ snehasaṃyuktaṃ pakṣāghāte virecanam |

44.2४४.२

अवबाहौ हितं नस्यं स्नेहश्चोत्तरभक्तिकः ॥ (४४।२)

avabāhau hitaṃ nasyaṃ snehaścottarabhaktikaḥ ||

45.1४५.१

ऊरुस्तम्भे तु न स्नेहो न च संशोधनं हितम् । (४५।१)

ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam |

45.2४५.२

श्लेष्माममेदोबाहुल्याद् युक्त्या तत्क्षपणान्यतः ॥ (४५।२)

śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ ||

46.1४६.१

कुर्याद् रूक्षोपचारश्च यवश्यामाककोद्रवाः । (४६।१)

kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ |

46.2४६.२

शाकैरलवणैः शस्ताः किंचित्तैलैर् जलैः शृतैः ॥ (४६।२)

śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ ||

47.1४७.१

जाङ्गलैरघृतैर् मांसैर् मध्वम्भोऽरिष्टपायिनः । (४७।१)

jāṅgalairaghṛtair māṃsair madhvambho'riṣṭapāyinaḥ |

47.2४७.२

वत्सकादिर् हरिद्रादिर् वचादिर् वा ससैन्धवः ॥ (४७।२)

vatsakādir haridrādir vacādir vā sasaindhavaḥ ||

48.1४८.१

आढ्यवाते सुखाम्भोभिः पेयः षड्धरणो ऽथवा । (४८।१)

āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā |

48.2४८.२

लिह्यात् क्षौद्रेण वा श्रेष्ठाचव्यतिक्ताकणाघनात् ॥ (४८।२)

lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt ||

49.1४९.१

कल्कं समधु वा चव्यपथ्याग्निसुरदारुजम् । (४९।१)

kalkaṃ samadhu vā cavyapathyāgnisuradārujam |

49.2४९.२

मूत्रैर् वा शीलयेत् पथ्यां गुग्गुलुं गिरिसंभवम् ॥ (४९।२)

mūtrair vā śīlayet pathyāṃ gugguluṃ girisaṃbhavam ||

50.1५०.१

व्योषाग्निमुस्तत्रिफलाविडङ्गैर् गुग्गुलुं समम् । (५०।१)

vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam |

50.2५०.२

खादन् सर्वाञ् जयेद् व्याधीन् मेदःश्लेष्मामवातजान् ॥ (५०।२)

khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān ||

51.1५१.१

शाम्यत्येवं कफाक्रान्तः समेदस्कः प्रभञ्जनः । (५१।१)

śāmyatyevaṃ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ |

51.2५१.२

क्षारमूत्रान्वितान् स्वेदान् सेकान् उद्वर्तनानि च ॥ (५१।२)

kṣāramūtrānvitān svedān sekān udvartanāni ca ||

52.1५२.१

कुर्याद् दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः । (५२।१)

kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ |

52.2५२.२

मूलैर् वाप्यर्कतर्कारीनिम्बजैः ससुराह्वयैः ॥ (५२।२)

mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ ||

53.1५३.१

सक्षौद्रसर्षपापक्वलोष्टवल्मीकमृत्तिकैः । (५३।१)

sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ |

53.2५३.२

कफक्षयार्थं व्यायामे सह्ये चैनं प्रवर्तयेत् ॥ (५३।२)

kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet ||

54.1५४.१

स्थलान्युल्लङ्घयेन् नारीः शक्तितः परिशीलयेत् । (५४।१)

sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet |

54.2५४.२

स्थिरतोयं सरः क्षेमं प्रतिस्रोतो नदीं तरेत् ॥ (५४।२)

sthiratoyaṃ saraḥ kṣemaṃ pratisroto nadīṃ taret ||

55.1५५.१

श्लेष्ममेदःक्षये चात्र स्नेहादीन् अवचारयेत् । (५५।१)

śleṣmamedaḥkṣaye cātra snehādīn avacārayet |

55.2५५.२

स्थानदूष्यादि चालोच्य कार्या शेषेष्वपि क्रिया ॥ (५५।२)

sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā ||

56.1५६.१

सहचरं सुरदारु सनागरं क्वथितम् अम्भसि तैलविमिश्रितम् । (५६।१)

sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam |

56.2५६.२

पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया ॥ (५६।२)

pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā ||

57.1५७.१

रास्नामहौषधद्वीपिपिप्पलीशठिपौष्करम् । (५७।१)

rāsnāmahauṣadhadvīpipippalīśaṭhipauṣkaram |

57.2५७.२

पिष्ट्वा विपाचयेत् सर्पिर् वातरोगहरं परम् ॥ (५७।२)

piṣṭvā vipācayet sarpir vātarogaharaṃ param ||

58.1५८.१

निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथक् दश पलान् विपचेद् घटे ऽपाम् । (५८।१)

nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām |

58.2५८.२

अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः ॥ (५८।२)

aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ ||

59.1५९.१

पाठाविडङ्गसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिशिचव्यकुष्ठैः । (५९।१)

pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ |

59.2५९.२

तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ (५९।२)

tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ ||

60.1६०.१

मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः । (६०।१)

mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddhaguggulupalairapi pañcasaṃkhyaiḥ |

60.2६०.२

तत् सेवितं विधमति प्रबलं समीरं संध्यस्थिमज्जगतम् अप्यथ कुष्ठम् ईदृक् ॥ (६०।२)

tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk ||

61.1६१.१

नाडीव्रणार्बुदभगन्दरगण्डमालाजत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् । (६१।१)

nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān |

61.2६१.२

यक्ष्मारुचिश्वसनपीनसकासशोफहृत्पाण्डुरोगमदविद्रधिवातरक्तम् ॥ (६१।२)

yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam ||

62.1६२.१

बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत् । (६२।१)

balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet |

62.2६२.२

तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते ॥ (६२।२)

tasya śuktiḥ prakuñco vā nasyaṃ vāte śirogate ||

63.1६३.१

तद्वत् सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा । (६३।१)

tadvat siddhā vasā nakramatsyakūrmaculūkajā |

63.2६३.२

विशेषेण प्रयोक्तव्या केवले मातरिश्वनि ॥ (६३।२)

viśeṣeṇa prayoktavyā kevale mātariśvani ||

64.1६४.१

जीर्णं पिण्याकं पञ्चमूलं पृथक् च क्वाथ्यं क्वाथाभ्याम् एकतस् तैलम् आभ्याम् । (६४।१)

jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām |

64.2६४.२

क्षीराद् अष्टांशं पाचयेत् तेन पानाद् वाता नश्येयुः श्लेष्मयुक्ता विशेषात् ॥ (६४।२)

kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt ||

65.1६५.१

प्रसारिणीतुलाक्वाथे तैलप्रस्थं पयःसमम् । (६५।१)

prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam |

65.2६५.२

द्विमेदामिशिमञ्जिष्ठाकुष्ठरास्नाकुचन्दनैः ॥ (६५।२)

dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ ||

66.1६६.१

जीवकर्षभकाकोलीयुगलामरदारुभिः । (६६।१)

jīvakarṣabhakākolīyugalāmaradārubhiḥ |

66.2६६.२

कल्कितैर् विपचेत् सर्वमारुतामयनाशनम् ॥ (६६।२)

kalkitair vipacet sarvamārutāmayanāśanam ||

67.1६७.१

समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च । (६७।१)

samūlaśākhasya sahācarasya tulāṃ sametāṃ daśamūlataśca |

67.2६७.२

पलानि पञ्चाशद् अभीरुतश्च पादावशेषं विपचेद् वहे ऽपाम् ॥ (६७।२)

palāni pañcāśad abhīrutaśca pādāvaśeṣaṃ vipaced vahe 'pām ||

68.1६८.१

तत्र सेव्यनखकुष्ठहिमैलास्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः । (६८।१)

tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ |

68.2६८.२

लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च ॥ (६८।२)

lohitānaladalohasurāhvaiḥ kopanāmiśituruṣkanataiśca ||

69.1६९.१

तुल्यक्षीरं पालिकैस् तैलपात्रं सिद्धं कृच्छ्राञ्छीलितं हन्ति वातान् । (६९।१)

tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān |

69.2६९.२

कम्पाक्षेपस्तम्भशोषादियुक्तान् गुल्मोन्मादौ पीनसं योनिरोगान् ॥ (६९।२)

kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān ||

70.1७०.१

सहचरतुलायास् तु रसे तैलाढकं पचेत् । (७०।१)

sahacaratulāyās tu rase tailāḍhakaṃ pacet |

70.2७०.२

मूलकल्काद् दशपलं पयो दत्त्वा चतुर्गुणम् ॥ (७०।२)

mūlakalkād daśapalaṃ payo dattvā caturguṇam ||

71.1७१.१

अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात् । (७१।१)

athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt |

71.2७१.२

सैलानलदशैलेयशताह्वारक्तचन्दनात् ॥ (७१।२)

sailānaladaśaileyaśatāhvāraktacandanāt ||

72.1७२.१

सिद्धे ऽस्मिञ्छर्कराचूर्णाद् अष्टादशपलं क्षिपेत् । (७२।१)

siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet |

72.2७२.२

भेडस्य संमतं तैलं तत् कृच्छ्रान् अनिलामयान् ॥ (७२।२)

bheḍasya saṃmataṃ tailaṃ tat kṛcchrān anilāmayān ||

73.1७३.१

वातकुण्डलिकोन्मादगुल्मवर्ध्मादिकाञ् जयेत् । (७३।१)

vātakuṇḍalikonmādagulmavardhmādikāñ jayet |

73.2७३.२

बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम् ॥ (७३।२)

balāśataṃ chinnaruhāpādaṃ rāsnāṣṭabhāgikam ||

74.1७४.१

जलाढकशते पक्त्वा शतभागस्थिते रसे । (७४।१)

jalāḍhakaśate paktvā śatabhāgasthite rase |

74.2७४.२

दधिमस्त्विक्षुनिर्यासशुक्तैस् तैलाढकं समैः ॥ (७४।२)

dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ ||

75.1७५.१

पचेत् साजपयोऽर्धांशं कल्कैरेभिः पलोन्मितैः । (७५।१)

pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ |

75.2७५.२

शठीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः ॥ (७५।२)

śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ ||

76.1७६.१

पद्मकातिबलामुस्ताशूर्पपर्णीहरेणुभिः । (७६।१)

padmakātibalāmustāśūrpaparṇīhareṇubhiḥ |

76.2७६.२

यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः ॥ (७६।२)

yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ ||

77.1७७.१

पलाशरसकस्तूरीनलिकाजातिकोशकैः । (७७।१)

palāśarasakastūrīnalikājātikośakaiḥ |

77.2७७.२

स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः ॥ (७७।२)

spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ ||

78.1७८.१

त्वक्कुन्दुरुककर्पूरतुरुष्कश्रीनिवासकैः । (७८।१)

tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ |

78.2७८.२

लवङ्गनखकङ्कोलकुष्ठमांसीप्रियङ्गुभिः ॥ (७८।२)

lavaṅganakhakaṅkolakuṣṭhamāṃsīpriyaṅgubhiḥ ||

79.1७९.१

स्थौणेयतगरध्यामवचामदनकप्लवैः । (७९।१)

sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ |

79.2७९.२

सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते ॥ (७९।२)

sanāgakesaraiḥ siddhe dadyāccātrāvatārite ||

80.1८०.१

पत्त्रकल्कं ततः पूतं विधिना तत् प्रयोजितम् । (८०।१)

pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam |

80.2८०.२

कासं श्वासं ज्वरं छर्दिं मूर्छां गुल्मक्षतक्षयान् ॥ (८०।२)

kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān ||

81.1८१.१

प्लीहशोषावपस्मारम् अलक्ष्मीं च प्रणाशयेत् । (८१।१)

plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet |

81.2८१.२

बलातैलम् इदं श्रेष्ठं वातव्याधिविनाशनम् ॥ (८१।२)

balātailam idaṃ śreṣṭhaṃ vātavyādhivināśanam ||

82.1८२.१

पाने नस्ये ऽन्वासने ऽभ्यञ्जने च स्नेहाः काले सम्यग् एते प्रयुक्ताः । (८२।१)

pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ |

82.2८२.२

दुष्टान् वातान् आशु शान्तिं नयेयुर् वन्ध्या नारीः पुत्रभाजश्च कुर्युः ॥ (८२।२)

duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ ||

83.1८३.१

स्नेहस्वेदैर् द्रुतः श्लेष्मा यदा पक्वाशये स्थितः । (८३।१)

snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ |

83.2८३.२

पित्तं वा दर्शयेद् रूपं वस्तिभिस् तं विनिर्जयेत् ॥ (८३।२)

pittaṃ vā darśayed rūpaṃ vastibhis taṃ vinirjayet ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 4, 21

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit