अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 5, 2

76 of 120 · 127 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो विरेचनकल्पं व्याख्यास्यामः । (१।१)

athāto virecanakalpaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

कषायमधुरा रूक्षा विपाके कटुका त्रिवृत् । (१।३)

kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt |

1.4१.४

कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी ॥ (१।४)

kaphapittapraśamanī raukṣyāccānilakopanī ||

2.1२.१

सेदानीम् औषधैर् युक्ता वातपित्तकफापहैः । (२।१)

sedānīm auṣadhair yuktā vātapittakaphāpahaiḥ |

2.2२.२

कल्पवैशेष्यम् आसाद्य जायते सर्वरोगजित् ॥ (२।२)

kalpavaiśeṣyam āsādya jāyate sarvarogajit ||

3.1३.१

द्विधा ख्यातं च तन्मूलं श्यामं श्यामारुणं त्रिवृत् । (३।१)

dvidhā khyātaṃ ca tanmūlaṃ śyāmaṃ śyāmāruṇaṃ trivṛt |

3.2३.२

त्रिवृदाख्यं वरतरं निरपायं सुखं तयोः ॥ (३।२)

trivṛdākhyaṃ varataraṃ nirapāyaṃ sukhaṃ tayoḥ ||

4.1४.१

सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तद्धितम् । (४।१)

sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam |

4.2४.२

मूर्छासम्मोहहृत्कण्ठकषणक्षणनप्रदम् ॥ (४।२)

mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam ||

5.1५.१

श्यामं तीक्ष्णाशुकारित्वाद् अतस्तद् अपि शस्यते । (५।१)

śyāmaṃ tīkṣṇāśukāritvād atastad api śasyate |

5.2५.२

क्रूरे कोष्ठे बहौ दोषे क्लेशक्षमिणि चातुरे ॥ (५।२)

krūre koṣṭhe bahau doṣe kleśakṣamiṇi cāture ||

6.1६.१

गम्भीरानुगतं श्लक्ष्णम् अतिर्यग्विसृतं च यत् । (६।१)

gambhīrānugataṃ ślakṣṇam atiryagvisṛtaṃ ca yat |

6.2६.२

गृहीत्वा विसृजेत् काष्ठं त्वचं शुष्कां निधापयेत् ॥ (६।२)

gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet ||

7.1७.१

अथ काले ततश्चूर्णं किंचिन् नागरसैन्धवम् । (७।१)

atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam |

7.2७.२

वातामये पिबेद् अम्लैः पैत्ते साज्यसितामधु ॥ (७।२)

vātāmaye pibed amlaiḥ paitte sājyasitāmadhu ||

8.1८.१

क्षीरद्राक्षेक्षुकाश्मर्यस्वादुस्कन्धवरारसैः । (८।१)

kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ |

8.2८.२

कफामये पीलुरसमूत्रमद्याम्लकाञ्जिकैः ॥ (८।२)

kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ ||

9.1९.१

पञ्चकोलादिचूर्णैश्च युक्त्या युक्तं कफापहैः । (९।१)

pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ |

9.2९.२

त्रिवृत्कल्ककषायाभ्यां साधितः ससितो हिमः ॥ (९।२)

trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ ||

10.1१०.१

मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम् । (१०।१)

madhutrijātasaṃyukto leho hṛdyaṃ virecanam |

10.2१०.२

अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत् ॥ (१०।२)

ajagandhā tavakṣīrī vidārī śarkarā trivṛt ||

11.1११.१

चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते । (११।१)

cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate |

11.2११.२

संनिपातज्वरस्तम्भपिपासादाहपीडितः ॥ (११।२)

saṃnipātajvarastambhapipāsādāhapīḍitaḥ ||

12.1१२.१

लिम्पेद् अन्तस्त्रिवृतया द्विधा कृत्वेक्षुगण्डिकाम् । (१२।१)

limped antastrivṛtayā dvidhā kṛtvekṣugaṇḍikām |

12.2१२.२

एकीकृत्य च तत् स्विन्नं पुटपाकेन भक्षयेत् ॥ (१२।२)

ekīkṛtya ca tat svinnaṃ puṭapākena bhakṣayet ||

13.1१३.१

भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा । (१३।१)

bhṛṅgailābhyāṃ samā nīlī taistrivṛttaiśca śarkarā |

13.2१३.२

चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत् ॥ (१३।२)

cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet ||

14.1१४.१

वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च । (१४।१)

vātapittakaphottheṣu rogeṣvalpānaleṣu ca |

14.2१४.२

नरेषु सुकुमारेषु निरपायं विरेचनम् ॥ (१४।२)

nareṣu sukumāreṣu nirapāyaṃ virecanam ||

15.1१५.१

विडङ्गतण्डुलवरायावशूककणास्त्रिवृत् । (१५।१)

viḍaṅgataṇḍulavarāyāvaśūkakaṇāstrivṛt |

15.2१५.२

सर्वतो ऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा ॥ (१५।२)

sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena vā ||

16.1१६.१

गुल्मं प्लीहोदरं कासं हलीमकम् अरोचकम् । (१६।१)

gulmaṃ plīhodaraṃ kāsaṃ halīmakam arocakam |

16.2१६.२

कफवातकृतांश्चान्यान् परिमार्ष्टि गदान् बहून् ॥ (१६।२)

kaphavātakṛtāṃścānyān parimārṣṭi gadān bahūn ||

17.1१७.१

विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान् । (१७।१)

viḍaṅgapippalīmūlatriphalādhānyacitrakān |

17.2१७.२

मरीचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः ॥ (१७।२)

marīcendrayavājājīpippalīhastipippalīḥ ||

18.1१८.१

दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक् । (१८।१)

dīpyakaṃ pañcalavaṇaṃ cūrṇitaṃ kārṣikaṃ pṛthak |

18.2१८.२

तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ ॥ (१८।२)

tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau ||

19.1१९.१

धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान् । (१९।१)

dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān |

19.2१९.२

पक्त्वा मृद्वग्निना खादेत् ततो मात्राम् अयन्त्रणः ॥ (१९।२)

paktvā mṛdvagninā khādet tato mātrām ayantraṇaḥ ||

20.1२०.१

कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान् । (२०।१)

kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān |

20.2२०.२

ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः ॥ (२०।२)

grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ ||

21.1२१.१

गुडः कल्याणको नाम सर्वेष्व् ऋतुषु यौगिकः । (२१।१)

guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ |

21.2२१.२

व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत् ॥ (२१।२)

vyoṣatrijātakāmbhodakṛmighnāmalakaistrivṛt ||

22.1२२.१

सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः । (२२।१)

sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ |

22.2२२.२

मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये ॥ (२२।२)

mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye ||

23.1२३.१

तापे पाण्ड्वामये ऽल्पे ऽग्नौ शस्ताः सर्वविषेषु च । (२३।१)

tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca |

23.2२३.२

अविपत्तिर् अयं योगः प्रशस्तः पित्तरोगिणाम् ॥ (२३।२)

avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇām ||

24.1२४.१

त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् । (२४।१)

trivṛtā kauṭajaṃ bījaṃ pippalī viśvabheṣajam |

24.2२४.२

क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम् ॥ (२४।२)

kṣaudradrākṣārasopetaṃ varṣākāle virecanam ||

25.1२५.१

त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् । (२५।१)

trivṛddurālabhāmustaśarkarodīcyacandanam |

25.2२५.२

द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये ॥ (२५।२)

drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye ||

26.1२६.१

त्रिवृतां चित्रकं पाठाम् अजाजीं सरलं वचाम् । (२६।१)

trivṛtāṃ citrakaṃ pāṭhām ajājīṃ saralaṃ vacām |

26.2२६.२

स्वर्णक्षीरीं च हेमन्ते चूर्णम् उष्णाम्बुना पिबेत् ॥ (२६।२)

svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet ||

27.1२७.१

त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम् । (२७।१)

trivṛtā śarkarātulyā grīṣmakāle virecanam |

27.2२७.२

त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः ॥ (२७।२)

trivṛttrāyantihapuṣāsātalākaṭurohiṇīḥ ||

28.1२८.१

स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत् त्र्यहम् । (२८।१)

svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham |

28.2२८.२

एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत् ॥ (२८।२)

eṣa sarvartuko yogaḥ snigdhānāṃ maladoṣahṛt ||

29.1२९.१

श्यामात्रिवृद्दुरालभाहस्तिपिप्पलीवत्सकम् । (२९।१)

śyāmātrivṛddurālabhāhastipippalīvatsakam |

29.2२९.२

नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम् ॥ (२९।२)

nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam ||

30.1३०.१

रसाज्योष्णाम्बुभिः शस्तं रूक्षाणाम् अपि सर्वदा । (३०।१)

rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā |

30.2३०.२

ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु ॥ (३०।२)

jvarahṛdrogavātāsṛgudāvartādirogiṣu ||

31.1३१.१

राजवृक्षो ऽधिकं पथ्यो मृदुर् मधुरशीतलः । (३१।१)

rājavṛkṣo 'dhikaṃ pathyo mṛdur madhuraśītalaḥ |

31.2३१.२

बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे ॥ (३१।२)

bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave ||

32.1३२.१

योज्यो मृद्वनपायित्वाद् विशेषाच्चतुरङ्गुलः । (३२।१)

yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ |

32.2३२.२

फलकाले परिणतं फलं तस्य समाहरेत् ॥ (३२।२)

phalakāle pariṇataṃ phalaṃ tasya samāharet ||

33.1३३.१

तेषां गुणवतां भारं सिकतासु विनिक्षिपेत् । (३३।१)

teṣāṃ guṇavatāṃ bhāraṃ sikatāsu vinikṣipet |

33.2३३.२

सप्तरात्रात् समुद्धृत्य शोषयेद् आतपे ततः ॥ (३३।२)

saptarātrāt samuddhṛtya śoṣayed ātape tataḥ ||

34.1३४.१

ततो मज्जानम् उद्धृत्य शुचौ पात्रे निधापयेत् । (३४।१)

tato majjānam uddhṛtya śucau pātre nidhāpayet |

34.2३४.२

द्राक्षारसेन तं दद्याद् दाहोदावर्तपीडिते ॥ (३४।२)

drākṣārasena taṃ dadyād dāhodāvartapīḍite ||

35.1३५.१

चतुर्वर्षे सुखं बाले यावद् द्वादशवार्षिके । (३५।१)

caturvarṣe sukhaṃ bāle yāvad dvādaśavārṣike |

35.2३५.२

चतुरङ्गुलमज्ज्ञो वा कषायं पाययेद्धिमम् ॥ (३५।२)

caturaṅgulamajjño vā kaṣāyaṃ pāyayeddhimam ||

36.1३६.१

दधिमण्डसुरामण्डधात्रीफलरसैः पृथक् । (३६।१)

dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak |

36.2३६.२

सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा ॥ (३६।२)

sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā ||

37.1३७.१

दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत् । (३७।१)

dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet |

37.2३७.२

तम् अरिष्टं स्थितं मासं पाययेत् पक्षम् एव वा ॥ (३७।२)

tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā ||

38.1३८.१

त्वचं तिल्वकमूलस्य त्यक्त्वाभ्यन्तरवल्कलम् । (३८।१)

tvacaṃ tilvakamūlasya tyaktvābhyantaravalkalam |

38.2३८.२

विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत् ततः ॥ (३८।२)

viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ ||

39.1३९.१

लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् । (३९।१)

lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet |

39.2३९.२

कषाये दशमूलस्य तं भागं भावितं पुनः ॥ (३९।२)

kaṣāye daśamūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ ||

40.1४०.१

शुष्कं चूर्णं पुनः कृत्वा ततः पाणितलं पिबेत् । (४०।१)

śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet |

40.2४०.२

मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः ॥ (४०।२)

mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ ||

41.1४१.१

तिल्वकस्य कषायेण कल्केन च सशर्करः । (४१।१)

tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ |

41.2४१.२

सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ॥ (४१।२)

saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam ||

42.1४२.१

सुधा भिनत्ति दोषाणां महान्तम् अपि संचयम् । (४२।१)

sudhā bhinatti doṣāṇāṃ mahāntam api saṃcayam |

42.2४२.२

आश्वेव कष्टविभ्रंशान्नैव तां कल्पयेद् अतः ॥ (४२।२)

āśveva kaṣṭavibhraṃśānnaiva tāṃ kalpayed ataḥ ||

43.1४३.१

मृदौ कोष्ठे ऽबले बाले स्थविरे दीर्घरोगिणि । (४३।१)

mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi |

43.2४३.२

कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु ॥ (४३।२)

kalpyā gulmodaragaratvagrogamadhumehiṣu ||

44.1४४.१

पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि । (४४।१)

pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi |

44.2४४.२

सा श्रेष्ठा कण्टकैस्तीक्ष्णैर् बहुभिश्च समाचिता ॥ (४४।२)

sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā ||

45.1४५.१

द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः । (४५।१)

dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ |

45.2४५.२

तां पाटयित्वा शस्त्रेण क्षीरम् उद्धारयेत् ततः ॥ (४५।२)

tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ ||

46.1४६.१

बिल्वादीनां बृहत्योर् वा क्वाथेन समम् एकशः । (४६।१)

bilvādīnāṃ bṛhatyor vā kvāthena samam ekaśaḥ |

46.2४६.२

मिश्रयित्वा सुधाक्षीरं ततो ऽङ्गारेषु शोषयेत् ॥ (४६।२)

miśrayitvā sudhākṣīraṃ tato 'ṅgāreṣu śoṣayet ||

47.1४७.१

पिबेत् कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः । (४७।१)

pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ |

47.2४७.२

त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम् ॥ (४७।२)

trivṛtādīnnava varāṃ svarṇakṣīrīṃ sasātalām ||

48.1४८.१

सप्ताहं स्नुक्पयःपीतान् रसेनाज्येन वा पिबेत् । (४८।१)

saptāhaṃ snukpayaḥpītān rasenājyena vā pibet |

48.2४८.२

तद्वद् व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना ॥ (४८।२)

tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā ||

49.1४९.१

नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम् । (४९।१)

nātiśuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nistuṣīkṛtam |

49.2४९.२

सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी ॥ (४९।२)

saptalāyāstathā mūlaṃ te tu tīkṣṇavikāṣiṇī ||

50.1५०.१

श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत् । (५०।१)

śleṣmāmayodaragaraśvayathvādiṣu kalpayet |

50.2५०.२

अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम् ॥ (५०।२)

akṣamātraṃ tayoḥ piṇḍaṃ madirālavaṇānvitam ||

51.1५१.१

हृद्रोगे वातकफजे तद्वद् गुल्मे ऽपि योजयेत् । (५१।१)

hṛdroge vātakaphaje tadvad gulme 'pi yojayet |

51.2५१.२

दन्तिदन्तस्थिरं स्थूलं मूलं दन्तीद्रवन्तिजम् ॥ (५१।२)

dantidantasthiraṃ sthūlaṃ mūlaṃ dantīdravantijam ||

52.1५२.१

आताम्रश्यावतीक्ष्णोष्णम् आशुकारि विकाशि च । (५२।१)

ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca |

52.2५२.२

गुरु प्रकोपि वातस्य पित्तश्लेष्मविलायनम् ॥ (५२।२)

guru prakopi vātasya pittaśleṣmavilāyanam ||

53.1५३.१

तत् क्षौद्रपिप्पलीलिप्तं स्वेद्यं मृद्दर्भवेष्टितम् । (५३।१)

tat kṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam |

53.2५३.२

शोष्यं मन्दातपे ऽग्न्यर्कौ हतो ह्यस्य विकाशिताम् ॥ (५३।२)

śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām ||

54.1५४.१

तत् पिबेन्मस्तुमदिरातक्रपीलुरसासवैः । (५४।१)

tat pibenmastumadirātakrapīlurasāsavaiḥ |

54.2५४.२

अभिष्यण्णतनुर् गुल्मी प्रमेही जठरी गरी ॥ (५४।२)

abhiṣyaṇṇatanur gulmī pramehī jaṭharī garī ||

55.1५५.१

गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगंदरी । (५५।१)

gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṃdarī |

55.2५५.२

सिद्धं तत् क्वाथकल्काभ्यां दशमूलरसेन च ॥ (५५।२)

siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca ||

56.1५६.१

विसर्पविद्रध्यलजीकक्षादाहान् जयेद् घृतम् । (५६।१)

visarpavidradhyalajīkakṣādāhān jayed ghṛtam |

56.2५६.२

तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान् ॥ (५६।२)

tailaṃ tu gulmamehārśovibandhakaphamārutān ||

57.1५७.१

महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः । (५७।१)

mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ |

57.2५७.२

विरेचने मुख्यतमा नवैते त्रिवृतादयः ॥ (५७।२)

virecane mukhyatamā navaite trivṛtādayaḥ ||

58.1५८.१

हरीतकीम् अपि त्रिवृद्विधानेनोपकल्पयेत् । (५८।१)

harītakīm api trivṛdvidhānenopakalpayet |

58.2५८.२

गुडस्याष्टपले पथ्या विंशतिः स्यात् पलं पलम् ॥ (५८।२)

guḍasyāṣṭapale pathyā viṃśatiḥ syāt palaṃ palam ||

59.1५९.१

दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर् दश । (५९।१)

dantīcitrakayoḥ karṣau pippalītrivṛtor daśa |

59.2५९.२

प्रकल्प्य मोदकान् एकं दशमे दशमे ऽहनि ॥ (५९।२)

prakalpya modakān ekaṃ daśame daśame 'hani ||

60.1६०.१

उष्णाम्भो ऽनुपिबेत् खादेत् तान् सर्वान् विधिनामुना । (६०।१)

uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā |

60.2६०.२

एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः ॥ (६०।२)

ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ ||

61.1६१.१

विशेषाद् ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः । (६१।१)

viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ |

61.2६१.२

अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् ॥ (६१।२)

alpasyāpi mahārthatvaṃ prabhūtasyālpakarmatām ||

62.1६२.१

कुर्यात् संश्लेषविश्लेषकालसंस्कारयुक्तिभिः ॥ (६२।१)

kuryāt saṃśleṣaviśleṣakālasaṃskārayuktibhiḥ ||

63.1६३.१

त्वक्केसराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः । (६३।१)

tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ |

63.2६३.२

मद्येन तैस्तैश्च मनोऽनुकूलैर् युक्तानि देयानि विरेचनानि ॥ (६३।२)

madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 5, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit