अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 12

92 of 120 · 69 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो दृष्टिरोगविज्ञानीयमध्यायं व्याख्यास्यामः । (१।१)

athāto dṛṣṭirogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

तिमिरसिरानुसारिणि मले प्रथमं पटलं श्रिते । (१।३)

timirasirānusāriṇi male prathamaṃ paṭalaṃ śrite |

1.4१.४

अव्यक्तम् ईक्षते रूपं व्यक्तम् अप्यनिमित्ततः ॥ (१।४)

avyaktam īkṣate rūpaṃ vyaktam apyanimittataḥ ||

2.1२.१

प्राप्ते द्वितीयं पटलं अभूतम् अपि पश्यति । (२।१)

prāpte dvitīyaṃ paṭalaṃ abhūtam api paśyati |

2.2२.२

भूतं तु यत्नाद् आसन्नं दूरे सूक्ष्मं च नेक्षते ॥ (२।२)

bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate ||

3.1३.१

दूरान्तिकस्थं रूपं च विपर्यासेन मन्यते । (३।१)

dūrāntikasthaṃ rūpaṃ ca viparyāsena manyate |

3.2३.२

दोषे मण्डलसंस्थाने मण्डलानीव पश्यति ॥ (३।२)

doṣe maṇḍalasaṃsthāne maṇḍalānīva paśyati ||

4.1४.१

द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते । (४।१)

dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite |

4.2४.२

दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्ययम् ॥ (४।२)

dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam ||

5.1५.१

नान्तिकस्थम् अधःसंस्थे दूरगं नोपरि स्थिते । (५।१)

nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite |

5.2५.२

पार्श्वे पश्येन् न पार्श्वस्थे तिमिराख्यो ऽयम् आमयः ॥ (५।२)

pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ ||

6.1६.१

प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते । (६।१)

prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite |

6.2६.२

तेनोर्ध्वम् ईक्षते नाधस् तनुचैलावृतोपमम् ॥ (६।२)

tenordhvam īkṣate nādhas tanucailāvṛtopamam ||

7.1७.१

यथावर्णं च रज्येत दृष्टिर् हीयेत च क्रमात् । (७।१)

yathāvarṇaṃ ca rajyeta dṛṣṭir hīyeta ca kramāt |

7.2७.२

तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ॥ (७।२)

tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ ||

8.1८.१

लिङ्गनाशं मलः कुर्वंश्छादयेद् दृष्टिमण्डलम् । (८।१)

liṅganāśaṃ malaḥ kurvaṃśchādayed dṛṣṭimaṇḍalam |

8.2८.२

तत्र वातेन तिमिरे व्याविद्धम् इव पश्यति ॥ (८।२)

tatra vātena timire vyāviddham iva paśyati ||

9.1९.१

चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः । (९।१)

calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ |

9.2९.२

जालानि केशान् मशकान् रश्मींश्चोपेक्षिते ऽत्र च ॥ (९।२)

jālāni keśān maśakān raśmīṃścopekṣite 'tra ca ||

10.1१०.१

काचीभूते दृग् अरुणा पश्यत्यास्यम् अनासिकम् । (१०।१)

kācībhūte dṛg aruṇā paśyatyāsyam anāsikam |

10.2१०.२

चन्द्रदीपाद्यनेकत्वं वक्रम् ऋज्वपि मन्यते ॥ (१०।२)

candradīpādyanekatvaṃ vakram ṛjvapi manyate ||

11.1११.१

वृद्धः काचो दृशं कुर्याद् रजोधूमावृताम् इव । (११।१)

vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva |

11.2११.२

स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ॥ (११।२)

spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām ||

12.1१२.१

स लिङ्गनाशो वाते तु संकोचयति दृक्सिराः । (१२।१)

sa liṅganāśo vāte tu saṃkocayati dṛksirāḥ |

12.2१२.२

दृङ्मण्डलं विशत्यन्तर् गम्भीरा दृग् असौ स्मृता ॥ (१२।२)

dṛṅmaṇḍalaṃ viśatyantar gambhīrā dṛg asau smṛtā ||

13.1१३.१

पित्तजे तिमिरे विद्युत्खद्योतद्योतदीपितम् । (१३।१)

pittaje timire vidyutkhadyotadyotadīpitam |

13.2१३.२

शिखितित्तिरिपत्त्राभं प्रायो नीलं च पश्यति ॥ (१३।२)

śikhitittiripattrābhaṃ prāyo nīlaṃ ca paśyati ||

14.1१४.१

काचे दृक् काचनीलाभा तादृग् एव च पश्यति । (१४।१)

kāce dṛk kācanīlābhā tādṛg eva ca paśyati |

14.2१४.२

अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च ॥ (१४।२)

arkendupariveṣāgnimarīcīndradhanūṃṣi ca ||

15.1१५.१

भृङ्गनीला निरालोका दृक् स्निग्धा लिङ्गनाशतः । (१५।१)

bhṛṅganīlā nirālokā dṛk snigdhā liṅganāśataḥ |

15.2१५.२

दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शिनी ॥ (१५।२)

dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī ||

16.1१६.१

भवेत् पित्तविदग्धाख्या पीता पीताभदर्शना । (१६।१)

bhavet pittavidagdhākhyā pītā pītābhadarśanā |

16.2१६.२

कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति ॥ (१६।२)

kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati ||

17.1१७.१

शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम् । (१७।१)

śaṅkhendukundakusumaiḥ kumudairiva cācitam |

17.2१७.२

काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम् ॥ (१७।२)

kāce tu niṣprabhendvarkapradīpādyairivācitam ||

18.1१८.१

सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते । (१८।१)

sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate |

18.2१८.२

मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः ॥ (१८।२)

mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ ||

19.1१९.१

बिन्दुर् जलस्येव चलः पद्मिनीपुटसंस्थितः । (१९।१)

bindur jalasyeva calaḥ padminīpuṭasaṃsthitaḥ |

19.2१९.२

उष्णे संकोचम् आयाति छायायां परिसर्पति ॥ (१९।२)

uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati ||

20.1२०.१

शङ्खकुन्देन्दुकुमुदस्फटिकोपमशुक्लिमा । (२०।१)

śaṅkhakundendukumudasphaṭikopamaśuklimā |

20.2२०.२

रक्तेन तिमिरे रक्तं तमोभूतं च पश्यति ॥ (२०।२)

raktena timire raktaṃ tamobhūtaṃ ca paśyati ||

21.1२१.१

काचेन रक्ता कृष्णा वा दृष्टिस् तादृक् च पश्यति । (२१।१)

kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati |

21.2२१.२

लिङ्गनाशे ऽपि तादृग् दृङ्निष्प्रभा हतदर्शना ॥ (२१।२)

liṅganāśe 'pi tādṛg dṛṅniṣprabhā hatadarśanā ||

22.1२२.१

संसर्गसंनिपातेषु विद्यात् संकीर्णलक्षणान् । (२२।१)

saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān |

22.2२२.२

तिमिरादीन् अकस्माच्च तैः स्याद् व्यक्ताकुलेक्षणः ॥ (२२।२)

timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ ||

23.1२३.१

तिमिरे शेषयोर् दृष्टौ चित्रो रागः प्रजायते । (२३।१)

timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate |

23.2२३.२

द्योत्यते नकुलस्येव यस्य दृङ्निचिता मलैः ॥ (२३।२)

dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ ||

24.1२४.१

नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि । (२४।१)

nakulāndhaḥ sa tatrāhni citraṃ paśyati no niśi |

24.2२४.२

अर्के ऽस्तमस्तकन्यस्तगभस्तौ स्तम्भम् आगताः ॥ (२४।२)

arke 'stamastakanyastagabhastau stambham āgatāḥ ||

25.1२५.१

स्थगयन्ति दृशं दोषा दोषान्धः स गदो ऽपरः । (२५।१)

sthagayanti dṛśaṃ doṣā doṣāndhaḥ sa gado 'paraḥ |

25.2२५.२

दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान् मलाः ॥ (२५।२)

divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ ||

26.1२६.१

विलीनलीना यच्छन्ति व्यक्तम् अत्राह्नि दर्शनम् । (२६।१)

vilīnalīnā yacchanti vyaktam atrāhni darśanam |

26.2२६.२

उष्णतप्तस्य सहसा शीतवारिनिमज्जनात् ॥ (२६।२)

uṣṇataptasya sahasā śītavārinimajjanāt ||

27.1२७.१

त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततो ऽक्षिणि । (२७।१)

tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi |

27.2२७.२

दाहोषे मलिनं शुक्लम् अहन्याविलदर्शनम् ॥ (२७।२)

dāhoṣe malinaṃ śuklam ahanyāviladarśanam ||

28.1२८.१

रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता । (२८।१)

rātrāvāndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā |

28.2२८.२

भृशम् अम्लाशनाद् दोषैः सास्रैर् या दृष्टिराचिता ॥ (२८।२)

bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā ||

29.1२९.१

सक्लेदकण्डूकलुषा विदग्धाम्लेन सा स्मृता । (२९।१)

sakledakaṇḍūkaluṣā vidagdhāmlena sā smṛtā |

29.2२९.२

शोकज्वरशिरोरोगसंतप्तस्यानिलादयः ॥ (२९।२)

śokajvaraśirorogasaṃtaptasyānilādayaḥ ||

30.1३०.१

धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः । (३०।१)

dhūmāvilāṃ dhūmadṛśaṃ dṛśaṃ kuryuḥ sa dhūmaraḥ |

30.2३०.२

सहसैवाल्पसत्त्वस्य पश्यतो रूपम् अद्भुतम् ॥ (३०।२)

sahasaivālpasattvasya paśyato rūpam adbhutam ||

31.1३१.१

भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः । (३१।१)

bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ |

31.2३१.२

कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम् ॥ (३१।२)

kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣitadarśanām ||

32.1३२.१

वैडूर्यवर्णां स्तिमितां प्रकृतिस्थाम् इवाव्यथाम् । (३२।१)

vaiḍūryavarṇāṃ stimitāṃ prakṛtisthām ivāvyathām |

32.2३२.२

औपसर्गिक इत्येष लिङ्गनाशो ऽत्र वर्जयेत् ॥ (३२।२)

aupasargika ityeṣa liṅganāśo 'tra varjayet ||

33.1३३.१

विना कफाल्लिङ्गनाशान् गम्भीरां ह्रस्वजाम् अपि । (३३।१)

vinā kaphālliṅganāśān gambhīrāṃ hrasvajām api |

33.2३३.२

षट् काचा नकुलान्धश्च याप्याः शेषांस्तु साधयेत् । (३३।२)

ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṃstu sādhayet |

33.3३३.३

द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः ॥ (३३।३)

dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit