अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 6

6 of 120 · 245 verses

Select a line for its word-by-word analysis.

1.1१.१

रक्तो महान् सकलमस् तूर्णकः शकुनाहृतः । (१।१)

rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ |

1.2१.२

सारामुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥ (१।२)

sārāmukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ ||

2.1२.१

पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ । (२।१)

puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau |

2.2२.२

काञ्चनो महिषः शूकः दूषकः कुसुमाण्डकः ॥ (२।२)

kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ ||

3.1३.१

लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः । (३।१)

lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ |

3.2३.२

पतङ्गास् तपनीयाश् च ये चान्ये शालयः शुभाः ॥ (३।२)

pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ ||

4.1४.१

स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः । (४।१)

svādupākarasāḥ snigdhā vṛṣyā baddhālpavarcasaḥ |

4.2४.२

कषायानुरसाः पथ्या लघवो मूत्रला हिमाः ॥ (४।२)

kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ ||

5.1५.१

शूकजेषु वरस् तत्र रक्तस् तृष्णात्रिदोषहा । (५।१)

śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā |

5.2५.२

महांस् तम् अनु कलमस् तं चाप्य् अनु ततः परे ॥ (५।२)

mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare ||

6.1६.१

यवका हायनाः पांसुबाष्पनैषधकादयः । (६।१)

yavakā hāyanāḥ pāṃsubāṣpanaiṣadhakādayaḥ |

6.2६.२

स्वादूष्णा गुरवः स्निग्धाः पाके ऽम्लाः श्लेष्मपित्तलाः ॥ (६।२)

svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣmapittalāḥ ||

7.1७.१

सृष्टमूत्रपुरीषाश् च पूर्वं पूर्वं च निन्दिताः । (७।१)

sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ |

7.2७.२

स्निग्धो ग्राही लघुः स्वादुस् त्रिदोषघ्नः स्थिरो हिमः ॥ (७।२)

snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ ||

8.1८.१

षष्टिको व्रीहिषु श्रेष्ठो गौरश् चासितगौरतः । (८।१)

ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ |

8.2८.२

ततः क्रमान् महाव्रीहिकृष्णव्रीहिजतूमुखाः ॥ (८।२)

tataḥ kramān mahāvrīhikṛṣṇavrīhijatūmukhāḥ ||

9.2९.२

वरकोद्दालकोज्ज्वालचीनशारददर्दुराः ॥ (९।२)

varakoddālakojjvālacīnaśāradadardurāḥ ||

10.1१०.१

गन्धनाः कुरुविन्दाश् च गुणैर् अल्पान्तराः स्मृताः । (१०।१)

gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ |

10.2१०.२

स्वादुर् अम्लविपाको ऽन्यो व्रीहिः पित्तकरो गुरुः ॥ (१०।२)

svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ ||

11.1११.१

बहुमूत्रपुरीषोष्मा त्रिदोषस् त्व् एव पाटलः । (११।१)

bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ |

11.2११.२

कङ्गुकोद्रवनीवारश्यामाकादि हिमं लघु ॥ (११।२)

kaṅgukodravanīvāraśyāmākādi himaṃ laghu ||

12.1१२.१

तृणधान्यं पवनकृल् लेखनं कफपित्तहृत् । (१२।१)

tṛṇadhānyaṃ pavanakṛl lekhanaṃ kaphapittahṛt |

12.2१२.२

भग्नसंधानकृत् तत्र प्रियङ्गुर् बृंहणी गुरुः ॥ (१२।२)

bhagnasaṃdhānakṛt tatra priyaṅgur bṛṃhaṇī guruḥ ||

13.1१३.१

कोरदूषः परं ग्राही स्पर्शः शीतो विषापहः । (१३।१)

koradūṣaḥ paraṃ grāhī sparśaḥ śīto viṣāpahaḥ |

13.2१३.२

रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद् यवः ॥ (१३।२)

rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ ||

14.1१४.१

वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफाञ् जयेत् । (१४।१)

vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphāñ jayet |

14.2१४.२

पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ॥ (१४।२)

pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān ||

15.1१५.१

न्यूनो यवाद् अनुयवो रूक्षोष्णो वंशजो यवः । (१५।१)

nyūno yavād anuyavo rūkṣoṣṇo vaṃśajo yavaḥ |

15.2१५.२

वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा ॥ (१५।२)

vṛṣyaḥ śīto guruḥ snigdho jīvano vātapittahā ||

16.1१६.१

संधानकारी मधुरो गोधूमः स्थैर्यकृत् सरः । (१६।१)

saṃdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ |

16.2१६.२

पथ्या नन्दीमुखी शीता कषायमधुरा लघुः ॥ (१६।२)

pathyā nandīmukhī śītā kaṣāyamadhurā laghuḥ ||

17.1१७.१

मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत् । (१७।१)

mudgāḍhakīmasūrādi śimbīdhānyaṃ vibandhakṛt |

17.2१७.२

कषायं स्वादु संग्राहि कटुपाकं हिमं लघु ॥ (१७।२)

kaṣāyaṃ svādu saṃgrāhi kaṭupākaṃ himaṃ laghu ||

18.1१८.१

मेदःश्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः । (१८।१)

medaḥśleṣmāsrapitteṣu hitaṃ lepopasekayoḥ |

18.2१८.२

वरो ऽत्र मुद्गो ऽल्पचलः कलायस् त्व् अतिवातलः ॥ (१८।२)

varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ ||

19.1१९.१

राजमाषो ऽनिलकरो रूक्षो बहुशकृद् गुरुः । (१९।१)

rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ |

19.2१९.२

उष्णाः कुलत्थाः पाके ऽम्लाः शुक्राश्मश्वासपीनसान् ॥ (१९।२)

uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān ||

20.1२०.१

कासार्शःकफवातांश् च घ्नन्ति पित्तास्रदाः परम् । (२०।१)

kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param |

20.2२०.२

निष्पावो वातपित्तास्रस्तन्यमूत्रकरो गुरुः ॥ (२०।२)

niṣpāvo vātapittāsrastanyamūtrakaro guruḥ ||

21.1२१.१

सरो विदाही दृक्शुक्रकफशोफविषापहः । (२१।१)

saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ |

21.2२१.२

माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः ॥ (२१।२)

māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ ||

22.1२२.१

गुरूष्णो ऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत् । (२२।१)

gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt |

22.2२२.२

फलानि माषवद् विद्यात् काकाण्डोलात्मगुप्तयोः ॥ (२२।२)

phalāni māṣavad vidyāt kākāṇḍolātmaguptayoḥ ||

23.1२३.१

उष्णस् त्वच्यो हिमः स्पर्शे केश्यो बल्यस् तिलो गुरुः । (२३।१)

uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ |

23.2२३.२

अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत् ॥ (२३।२)

alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt ||

24.1२४.१

स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः । (२४।१)

snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ |

24.2२४.२

दृक्शुक्रहृत् कटुः पाके तद्वद् बीजं कुसुम्भजम् ॥ (२४।२)

dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam ||

25.1२५.१

माषो ऽत्र सर्वेष्व् अवरो यवकः शूकजेषु च । (२५।१)

māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca |

25.2२५.२

नवं धान्यम् अभिष्यन्दि लघु संवत्सरोषितम् ॥ (२५।२)

navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam ||

26.1२६.१

शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम् । (२६।१)

śīghrajanma tathā sūpyaṃ nistuṣaṃ yuktibharjitam |

26.2२६.२

मण्डपेयाविलेपीनाम् ओदनस्य च लाघवम् ॥ (२६।२)

maṇḍapeyāvilepīnām odanasya ca lāghavam ||

27.1२७.१

यथापूर्वं शिवस् तत्र मण्डो वातानुलोमनः । (२७।१)

yathāpūrvaṃ śivas tatra maṇḍo vātānulomanaḥ |

27.2२७.२

तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत् ॥ (२७।२)

tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt ||

28.1२८.१

स्रोतोमार्दवकृत् स्वेदी संधुक्षयति चानलम् । (२८।१)

srotomārdavakṛt svedī saṃdhukṣayati cānalam |

28.2२८.२

क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ॥ (२८।२)

kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā ||

29.1२९.१

मलानुलोमनी पथ्या पेया दीपनपाचनी । (२९।१)

malānulomanī pathyā peyā dīpanapācanī |

29.2२९.२

विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता ॥ (२९।२)

vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā ||

30.2३०.२

सुधौतः प्रस्रुतः स्विन्नो ऽत्यक्तोष्मा चौदनो लघुः ॥ (३०।२)

sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ ||

31.1३१.१

यश् चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः । (३१।१)

yaś cāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ |

31.2३१.२

विपरीतो गुरुः क्षीरमांसाद्यैर् यश् च साधितः ॥ (३१।२)

viparīto guruḥ kṣīramāṃsādyair yaś ca sādhitaḥ ||

32.1३२.१

इति द्रव्यक्रियायोगमानाद्यैः सर्वम् आदिशेत् । (३२।१)

iti dravyakriyāyogamānādyaiḥ sarvam ādiśet |

32.2३२.२

बृंहणः प्रीणनो वृष्यश् चक्षुष्यो व्रणहा रसः ॥ (३२।२)

bṛṃhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇahā rasaḥ ||

33.1३३.१

मौद्गस् तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम् । (३३।१)

maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām |

33.2३३.२

वातानुलोमी कौलत्थो गुल्मतूणीप्रतूणिजित् ॥ (३३।२)

vātānulomī kaulattho gulmatūṇīpratūṇijit ||

34.1३४.१

तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् । (३४।१)

tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam |

34.2३४.२

शाण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु ॥ (३४।२)

śāṇḍākīvaṭakaṃ dṛgghnaṃ doṣalaṃ glapanaṃ guru ||

35.1३५.१

रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा । (३५।१)

rasālā bṛṃhaṇī vṛṣyā snigdhā balyā rucipradā |

35.2३५.२

श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु ॥ (३५।२)

śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru ||

36.1३६.१

विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत् । (३६।१)

viṣṭambhi mūtralaṃ hṛdyaṃ yathādravyaguṇaṃ ca tat |

36.2३६.२

लाजास् तृट्छर्द्यतीसारमेहमेदःकफच्छिदः ॥ (३६।२)

lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ ||

37.1३७.१

कासपित्तोपशमना दीपना लघवो हिमाः । (३७।१)

kāsapittopaśamanā dīpanā laghavo himāḥ |

37.2३७.२

पृथुका गुरवो बल्याः कफविष्टम्भकारिणः ॥ (३७।२)

pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ ||

38.1३८.१

धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः । (३८।१)

dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ |

38.2३८.२

सक्तवो लघवः क्षुत्तृट्श्रमनेत्रामयव्रणान् ॥ (३८।२)

saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān ||

39.1३९.१

घ्नन्ति संतर्पणाः पानात् सद्य एव बलप्रदाः । (३९।१)

ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ |

39.2३९.२

नोदकान्तरितान् न द्विर् न निशायां न केवलान् ॥ (३९।२)

nodakāntaritān na dvir na niśāyāṃ na kevalān ||

40.1४०.१

न भुक्त्वा न द्विजैश् छित्त्वा सक्तून् अद्यान् न वा बहून् । (४०।१)

na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn |

40.2४०.२

पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः ॥ (४०।२)

piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ ||

41.1४१.१

वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः । (४१।१)

vesavāro guruḥ snigdho balopacayavardhanaḥ |

41.2४१.२

मुद्गादिजास् तु गुरवो यथाद्रव्यगुणानुगाः ॥ (४१।२)

mudgādijās tu guravo yathādravyaguṇānugāḥ ||

42.2४२.२

एकयोनीं लघून् विद्याद् अपूपान् उत्तरोत्तरम् ॥ (४२।२)

ekayonīṃ laghūn vidyād apūpān uttarottaram ||

43.1४३.१

हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः । (४३।१)

hariṇaiṇakuraṅgarkṣagokarṇamṛgamātṛkāḥ |

43.2४३.२

शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः ॥ (४३।२)

śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ ||

44.1४४.१

लाववार्तीकवर्तीररक्तवर्त्मककुक्कुभाः । (४४।१)

lāvavārtīkavartīraraktavartmakakukkubhāḥ |

45.1४५.१

वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी । (४५।१)

vartako vartikā caiva tittiriḥ krakaraḥ śikhī |

46.1४६.१

तथा शारपदेन्द्राभवरटाद्याश् च विष्किराः । (४६।१)

tathā śārapadendrābhavaraṭādyāś ca viṣkirāḥ |

46.2४६.२

जीवञ्जीवकदात्यूहभृङ्गाह्वशुकसारिकाः ॥ (४६।२)

jīvañjīvakadātyūhabhṛṅgāhvaśukasārikāḥ ||

47.1४७.१

लट्वाकोकिलहारीतकपोतचटकादयः । (४७।१)

laṭvākokilahārītakapotacaṭakādayaḥ |

47.2४७.२

प्रतुदा भेकगोधाहिश्वाविदाद्या बिलेशयाः ॥ (४७।२)

pratudā bhekagodhāhiśvāvidādyā bileśayāḥ ||

48.2४८.२

मार्जारमूषकव्याघ्रवृकबभ्रुतरक्षवः ॥ (४८।२)

mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ ||

49.1४९.१

लोपाकजम्बुकश्येनचाषवान्तादवायसाः । (४९।१)

lopākajambukaśyenacāṣavāntādavāyasāḥ |

49.2४९.२

शशघ्नीभासकुररगृध्रोलूककुलिङ्गकाः ॥ (४९।२)

śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ ||

50.1५०.१

धूमिका मधुहा चेति प्रसहा मृगपक्षिणः । (५०।१)

dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ |

50.2५०.२

वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ (५०।२)

varāhamahiṣanyaṅkurururohitavāraṇāḥ ||

51.1५१.१

सृमरश् चमरः खड्गो गवयश् च महामृगाः । (५१।१)

sṛmaraś camaraḥ khaḍgo gavayaś ca mahāmṛgāḥ |

52.1५२.१

बलाकोत्क्रोशचक्राह्वमद्गुक्रौञ्चादयो ऽप्चराः । (५२।१)

balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ |

52.2५२.२

मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः ॥ (५२।२)

matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ ||

53.1५३.१

शुक्तिशङ्खोद्रशम्बूकशफरीवर्मिचन्द्रिकाः । (५३।१)

śuktiśaṅkhodraśambūkaśapharīvarmicandrikāḥ |

54.1५४.१

राजीचिलिचिमाद्याश् च मांसम् इत्य् आहुर् अष्टधा । (५४।१)

rājīcilicimādyāś ca māṃsam ity āhur aṣṭadhā |

54.2५४.२

योनिष्व् अजावी व्यामिश्रगोचरत्वाद् अनिश्चिते ॥ (५४।२)

yoniṣv ajāvī vyāmiśragocaratvād aniścite ||

55.1५५.१

आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ । (५५।१)

ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau |

55.2५५.२

तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः ॥ (५५।२)

tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ ||

100.1१००.१

पत्तूरो दीपनस् तिक्तः प्लीहार्शःकफवातजित् । (१००।१)

pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit |

100.2१००.२

कृमिकासकफोत्क्लेदान् कासमर्दो जयेत् सरः ॥ (१००।२)

kṛmikāsakaphotkledān kāsamardo jayet saraḥ ||

101.1१०१.१

रूक्षोष्णम् अम्लं कौसुम्भं गुरु पित्तकरं सरम् । (१०१।१)

rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram |

101.2१०१.२

गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत् ॥ (१०१।२)

gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt ||

102.1१०२.१

यद् बालम् अव्यक्तरसं किंचित् क्षारं सतिक्तकम् । (१०२।१)

yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam |

102.2१०२.२

तन् मूलकं दोषहरं लघु सोष्णं नियच्छति ॥ (१०२।२)

tan mūlakaṃ doṣaharaṃ laghu soṣṇaṃ niyacchati ||

103.1१०३.१

गुल्मकासक्षयश्वासव्रणनेत्रगलामयान् । (१०३।१)

gulmakāsakṣayaśvāsavraṇanetragalāmayān |

103.2१०३.२

स्वराग्निसादोदावर्तपीनसांश् च महत् पुनः ॥ (१०३।२)

svarāgnisādodāvartapīnasāṃś ca mahat punaḥ ||

104.1१०४.१

रसे पाके च कटुकम् उष्णवीर्यं त्रिदोषकृत् । (१०४।१)

rase pāke ca kaṭukam uṣṇavīryaṃ tridoṣakṛt |

104.2१०४.२

गुर्व् अभिष्यन्दि च स्निग्धसिद्धं तद् अपि वातजित् ॥ (१०४।२)

gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit ||

105.1१०५.१

वातश्लेष्महरं शुष्कं सर्वम् आमं तु दोषलम् । (१०५।१)

vātaśleṣmaharaṃ śuṣkaṃ sarvam āmaṃ tu doṣalam |

105.2१०५.२

कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः ॥ (१०५।२)

kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ ||

106.1१०६.१

कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणम् । (१०६।१)

kuṭheraśigrusurasasumukhāsuribhūstṛṇam |

106.2१०६.२

फणिज्जार्जकजम्बीरप्रभृति ग्राहि शालनम् ॥ (१०६।२)

phaṇijjārjakajambīraprabhṛti grāhi śālanam ||

107.1१०७.१

विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम् । (१०७।१)

vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam |

107.2१०७.२

दृक्शुक्रकृमिहृत् तीक्ष्णं दोषोत्क्लेशकरं लघु ॥ (१०७।२)

dṛkśukrakṛmihṛt tīkṣṇaṃ doṣotkleśakaraṃ laghu ||

108.2१०८.२

सुरसः सुमुखो नातिविदाही गरशोफहा ॥ (१०८।२)

surasaḥ sumukho nātividāhī garaśophahā ||

109.1१०९.१

आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत् । (१०९।१)

ārdrikā tiktamadhurā mūtralā na ca pittakṛt |

109.2१०९.२

लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः ॥ (१०९।२)

laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ ||

110.1११०.१

हृद्यः केश्यो गुरुर् वृष्यः स्निग्धो रोचनदीपनः । (११०।१)

hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ |

110.2११०.२

भग्नसंधानकृद् बल्यो रक्तपित्तप्रदूषणः ॥ (११०।२)

bhagnasaṃdhānakṛd balyo raktapittapradūṣaṇaḥ ||

111.1१११.१

किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् । (१११।१)

kilāsakuṣṭhagulmārśomehakṛmikaphānilān |

111.2१११.२

सहिध्मापीनसश्वासकासान् हन्ति रसायनम् ॥ (१११।२)

sahidhmāpīnasaśvāsakāsān hanti rasāyanam ||

112.1११२.१

पलाण्डुस् तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः । (११२।१)

palāṇḍus tadguṇanyūnaḥ śleṣmalo nātipittalaḥ |

112.2११२.२

कफवातार्शसां पथ्यः स्वेदे ऽभ्यवहृतौ तथा ॥ (११२।२)

kaphavātārśasāṃ pathyaḥ svede 'bhyavahṛtau tathā ||

113.1११३.१

तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हितकृन् न सः । (११३।१)

tīkṣṇo gṛñjanako grāhī pittināṃ hitakṛn na saḥ |

113.2११३.२

दीपनः शूरणो रुच्यः कफघ्नो विशदो लघुः ॥ (११३।२)

dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ ||

114.1११४.१

विशेषाद् अर्शसां पथ्यो भूकन्दस् त्व् अतिदोषलः । (११४।१)

viśeṣād arśasāṃ pathyo bhūkandas tv atidoṣalaḥ |

114.2११४.२

पत्त्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात् ॥ (११४।२)

pattre puṣpe phale nāle kande ca gurutā kramāt ||

115.1११५.१

वरा शाकेषु जीवन्ती सार्षपं त्व् अवरं परम् । (११५।१)

varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param |

115.2११५.२

द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट् ॥ (११५।२)

drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ ||

116.1११६.१

स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः । (११६।१)

svādupākarasā snigdhā sakaṣāyā himā guruḥ |

116.2११६.२

निहन्त्य् अनिलपित्तास्रतिक्तास्यत्वमदात्ययान् ॥ (११६।२)

nihanty anilapittāsratiktāsyatvamadātyayān ||

117.1११७.१

तृष्णाकासश्रमश्वासस्वरभेदक्षतक्षयान् । (११७।१)

tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān |

117.2११७.२

उद्रिक्तपित्ताञ् जयति त्रीन् दोषान् स्वादु दाडिमम् ॥ (११७।२)

udriktapittāñ jayati trīn doṣān svādu dāḍimam ||

118.1११८.१

पित्ताविरोधि नात्युष्णम् अम्लं वातकफापहम् । (११८।१)

pittāvirodhi nātyuṣṇam amlaṃ vātakaphāpaham |

118.2११८.२

सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम् ॥ (११८।२)

sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam ||

119.1११९.१

मोचखर्जूरपनसनारिकेलपरूषकम् । (११९।१)

mocakharjūrapanasanārikelaparūṣakam |

120.1१२०.१

सौवीरबदराङ्कोल्लफल्गुश्लेष्मातकोद्भवम् । (१२०।१)

sauvīrabadarāṅkollaphalguśleṣmātakodbhavam |

120.2१२०.२

वातामाभिषुकाक्षोटमुकूलकनिकोचकम् ॥ (१२०।२)

vātāmābhiṣukākṣoṭamukūlakanikocakam ||

121.1१२१.१

उरुमाणं प्रियालं च बृंहणं गुरु शीतलम् । (१२१।१)

urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam |

121.2१२१.२

दाहक्षतक्षयहरं रक्तपित्तप्रसादनम् ॥ (१२१।२)

dāhakṣatakṣayaharaṃ raktapittaprasādanam ||

122.1१२२.१

स्वादुपाकरसं स्निग्धं विष्टम्भि कफशुक्रकृत् । (१२२।१)

svādupākarasaṃ snigdhaṃ viṣṭambhi kaphaśukrakṛt |

122.2१२२.२

फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम् ॥ (१२२।२)

phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam ||

123.1१२३.१

शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम् । (१२३।१)

śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam |

123.2१२३.२

वातामाद्य् उष्णवीर्यं तु कफपित्तकरं सरम् ॥ (१२३।२)

vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram ||

124.1१२४.१

परं वातहरं स्निग्धम् अनुष्णं तु प्रियालजम् । (१२४।१)

paraṃ vātaharaṃ snigdham anuṣṇaṃ tu priyālajam |

124.2१२४.२

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः ॥ (१२४।२)

priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ ||

125.1१२५.१

कोलमज्जा गुणैस् तद्वत् तृट्छर्दिकासजिच् च सः । (१२५।१)

kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ |

125.2१२५.२

पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम् ॥ (१२५।२)

pakvaṃ sudurjaraṃ bilvaṃ doṣalaṃ pūtimārutam ||

126.1१२६.१

दीपनं कफवातघ्नं बालं ग्राह्य् उभयं च तत् । (१२६।१)

dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat |

126.2१२६.२

कपित्थम् आमं कण्ठघ्नं दोषलं दोषघाति तु ॥ (१२६।२)

kapittham āmaṃ kaṇṭhaghnaṃ doṣalaṃ doṣaghāti tu ||

127.1१२७.१

पक्वं हिध्मावमथुजित् सर्वं ग्राहि विषापहम् । (१२७।१)

pakvaṃ hidhmāvamathujit sarvaṃ grāhi viṣāpaham |

127.2१२७.२

जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम् ॥ (१२७।२)

jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśavātalam ||

128.1१२८.१

संग्राहि मूत्रशकृतोर् अकण्ठ्यं कफपित्तजित् । (१२८।१)

saṃgrāhi mūtraśakṛtor akaṇṭhyaṃ kaphapittajit |

128.2१२८.२

वातपित्तास्रकृद् बालं बद्धास्थि कफपित्तकृत् ॥ (१२८।२)

vātapittāsrakṛd bālaṃ baddhāsthi kaphapittakṛt ||

129.1१२९.१

गुर्व् आम्रं वातजित् पक्वं स्वाद्व् अम्लं कफशुक्रकृत् । (१२९।१)

gurv āmraṃ vātajit pakvaṃ svādv amlaṃ kaphaśukrakṛt |

129.2१२९.२

वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु ॥ (१२९।२)

vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu ||

130.1१३०.१

शम्या गुरूष्णं केशघ्नं रूक्षं पीलु तु पित्तलम् । (१३०।१)

śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam |

130.2१३०.२

कफवातहरं भेदि प्लीहार्शःकृमिगुल्मनुत् ॥ (१३०।२)

kaphavātaharaṃ bhedi plīhārśaḥkṛmigulmanut ||

131.1१३१.१

सतिक्तं स्वादु यत् पीलु नात्युष्णं तत् त्रिदोषजित् । (१३१।१)

satiktaṃ svādu yat pīlu nātyuṣṇaṃ tat tridoṣajit |

131.2१३१.२

त्वक् तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित् ॥ (१३१।२)

tvak tiktakaṭukā snigdhā mātuluṅgasya vātajit ||

132.1१३२.१

बृंहणं मधुरं मांसं वातपित्तहरं गुरु । (१३२।१)

bṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru |

132.2१३२.२

लघु तत्केसरं कासश्वासहिध्मामदात्ययान् ॥ (१३२।२)

laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān ||

133.1१३३.१

आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान् । (१३३।१)

āsyaśoṣānilaśleṣmavibandhacchardyarocakān |

133.2१३३.२

गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत् ॥ (१३३।२)

gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet ||

134.1१३४.१

भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम् । (१३४।१)

bhallātakasya tvaṅmāṃsaṃ bṛṃhaṇaṃ svādu śītalam |

134.2१३४.२

तदस्थ्यग्निसमं मेध्यं कफवातहरं परम् ॥ (१३४।२)

tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param ||

135.1१३५.१

स्वाद्व् अम्लं शीतम् उष्णं च द्विधा पालेवतं गुरु । (१३५।१)

svādv amlaṃ śītam uṣṇaṃ ca dvidhā pālevataṃ guru |

135.2१३५.२

रुच्यम् अत्यग्निशमनं रुच्यं मधुरम् आरुकम् ॥ (१३५।२)

rucyam atyagniśamanaṃ rucyaṃ madhuram ārukam ||

136.1१३६.१

पक्वम् आशु जरां याति नात्युष्णगुरुदोषलम् । (१३६।१)

pakvam āśu jarāṃ yāti nātyuṣṇagurudoṣalam |

136.2१३६.२

द्राक्षापरूषकं चार्द्रम् अम्लं पित्तकफप्रदम् ॥ (१३६।२)

drākṣāparūṣakaṃ cārdram amlaṃ pittakaphapradam ||

137.1१३७.१

गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम् । (१३७।१)

gurūṣṇavīryaṃ vātaghnaṃ saraṃ sakaramardakam |

137.2१३७.२

तथाम्लं कोलकर्कन्धुलिकुचाम्रातकारुकम् ॥ (१३७।२)

tathāmlaṃ kolakarkandhulikucāmrātakārukam ||

138.1१३८.१

ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम् । (१३८।१)

airāvataṃ dantaśaṭhaṃ satūdaṃ mṛgaliṇḍikam |

138.2१३८.२

नातिपित्तकरं पक्वं शुष्कं च करमर्दकम् ॥ (१३८।२)

nātipittakaraṃ pakvaṃ śuṣkaṃ ca karamardakam ||

139.1१३९.१

दीपनं भेदनं शुष्कम् अम्लीकाकोलयोः फलम् । (१३९।१)

dīpanaṃ bhedanaṃ śuṣkam amlīkākolayoḥ phalam |

139.2१३९.२

तृष्णाश्रमक्लमच्छेदि लघ्व् इष्टं कफवातयोः ॥ (१३९।२)

tṛṣṇāśramaklamacchedi laghv iṣṭaṃ kaphavātayoḥ ||

140.1१४०.१

फलानाम् अवरं तत्र लिकुचं सर्वदोषकृत् । (१४०।१)

phalānām avaraṃ tatra likucaṃ sarvadoṣakṛt |

140.2१४०.२

हिमानलोष्णदुर्वातव्याललालादिदूषितम् ॥ (१४०।२)

himānaloṣṇadurvātavyālalālādidūṣitam ||

141.1१४१.१

जन्तुजुष्टं जले मग्नम् अभूमिजम् अनार्तवम् । (१४१।१)

jantujuṣṭaṃ jale magnam abhūmijam anārtavam |

141.2१४१.२

अन्यधान्ययुतं हीनवीर्यं जीर्णतयाति च ॥ (१४१।२)

anyadhānyayutaṃ hīnavīryaṃ jīrṇatayāti ca ||

142.1१४२.१

धान्यं त्यजेत् तथा शाकं रूक्षसिद्धम् अकोमलम् । (१४२।१)

dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam |

142.2१४२.२

असंजातरसं तद्वच् छुष्कं चान्यत्र मूलकात् ॥ (१४२।२)

asaṃjātarasaṃ tadvac chuṣkaṃ cānyatra mūlakāt ||

143.1१४३.१

प्रायेण फलम् अप्य् एवं तथामं बिल्ववर्जितम् । (१४३।१)

prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam |

143.2१४३.२

विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं विदुः ॥ (१४३।२)

viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ viduḥ ||

144.1१४४.१

वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत् । (१४४।१)

vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt |

144.2१४४.२

सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत् ॥ (१४४।२)

saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut ||

145.1१४५.१

लघ्व् अनुष्णं दृशः पथ्यम् अविदाह्य् अग्निदीपनम् । (१४५।१)

laghv anuṣṇaṃ dṛśaḥ pathyam avidāhy agnidīpanam |

145.2१४५.२

लघु सौवर्चलं हृद्यं सुगन्ध्य् उद्गारशोधनम् ॥ (१४५।२)

laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam ||

146.1१४६.१

कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम् । (१४६।१)

kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam |

146.2१४६.२

ऊर्ध्वाधःकफवातानुलोमनं दीपनं विडम् ॥ (१४६।२)

ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam ||

147.1१४७.१

विबन्धानाहविष्टम्भशूलगौरवनाशनम् । (१४७।१)

vibandhānāhaviṣṭambhaśūlagauravanāśanam |

147.2१४७.२

विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम् ॥ (१४७।२)

vipāke svādu sāmudraṃ guru śleṣmavivardhanam ||

148.1१४८.१

सतिक्तकटुकक्षारं तीक्ष्णम् उत्क्लेदि चौद्भिदम् । (१४८।१)

satiktakaṭukakṣāraṃ tīkṣṇam utkledi caudbhidam |

148.2१४८.२

कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः ॥ (१४८।२)

kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ ||

149.1१४९.१

रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु । (१४९।१)

romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru |

149.2१४९.२

लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् ॥ (१४९।२)

lavaṇānāṃ prayoge tu saindhavādi prayojayet ||

150.1१५०.१

गुल्महृद्ग्रहणीपाण्डुप्लीहानाहगलामयान् । (१५०।१)

gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān |

150.2१५०.२

श्वासार्शःकफकासांश् च शमयेद् यवशूकजः ॥ (१५०।२)

śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ ||

151.1१५१.१

क्षारः सर्वश् च परमं तीक्ष्णोष्णः कृमिजिल् लघुः । (१५१।१)

kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmijil laghuḥ |

151.2१५१.२

पित्तासृग्दूषणः पाकी छेद्य् अहृद्यो विदारणः ॥ (१५१।२)

pittāsṛgdūṣaṇaḥ pākī chedy ahṛdyo vidāraṇaḥ ||

152.1१५२.१

अपथ्यः कटुलावण्याच् छुक्रौजःकेशचक्षुषाम् । (१५२।१)

apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām |

152.2१५२.२

हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम् ॥ (१५२।२)

hiṅgu vātakaphānāhaśūlaghnaṃ pittakopanam ||

153.1१५३.१

कटुपाकरसं रुच्यं दीपनं पाचनं लघु । (१५३।१)

kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu |

153.2१५३.२

कषाया मधुरा पाके रूक्षा विलवणी लघुः ॥ (१५३।२)

kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ ||

154.1१५४.१

दीपनी पाचनी मेध्या वयसः स्थापनी परम् । (१५४।१)

dīpanī pācanī medhyā vayasaḥ sthāpanī param |

154.2१५४.२

उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा ॥ (१५४।२)

uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā ||

155.1१५५.१

कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् । (१५५।१)

kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān |

155.2१५५.२

शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् ॥ (१५५।२)

śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān ||

156.1१५६.१

सशोषशोफातीसारमेदमोहवमिकृमीन् । (१५६।१)

saśoṣaśophātīsāramedamohavamikṛmīn |

157.1१५७.१

विबन्धं स्रोतसां गुल्मम् ऊरुस्तम्भम् अरोचकम् । (१५७।१)

vibandhaṃ srotasāṃ gulmam ūrustambham arocakam |

157.2१५७.२

हरीतकी जयेद् व्याधींस् तांस् तांश् च कफवातजान् ॥ (१५७।२)

harītakī jayed vyādhīṃs tāṃs tāṃś ca kaphavātajān ||

158.1१५८.१

तद्वद् आमलकं शीतम् अम्लं पित्तकफापहम् । (१५८।१)

tadvad āmalakaṃ śītam amlaṃ pittakaphāpaham |

158.2१५८.२

कटु पाके हिमं केश्यम् अक्षम् ईषच् च तद्गुणम् ॥ (१५८।२)

kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam ||

159.1१५९.१

इयं रसायनवरा त्रिफलाक्ष्यामयापहा । (१५९।१)

iyaṃ rasāyanavarā triphalākṣyāmayāpahā |

159.2१५९.२

रोपणी त्वग् गदक्लेदमेदोमेहकफास्रजित् ॥ (१५९।२)

ropaṇī tvag gadakledamedomehakaphāsrajit ||

160.1१६०.१

सकेसरं चतुर्जातं त्वक्पत्त्रैलं त्रिजातकम् । (१६०।१)

sakesaraṃ caturjātaṃ tvakpattrailaṃ trijātakam |

160.2१६०.२

पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम् ॥ (१६०।२)

pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam ||

161.1१६१.१

रसे पाके च कटुकं कफघ्नं मरिचं लघु । (१६१।१)

rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu |

161.2१६१.२

श्लेष्मला स्वादुशीतार्द्रा गुर्वी स्निग्धा च पिप्पली ॥ (१६१।२)

śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī ||

162.1१६२.१

सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः । (१६२।१)

sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ |

162.2१६२.२

स्वादुपाकानिलश्लेष्मश्वासकासापहा सरा ॥ (१६२।२)

svādupākānilaśleṣmaśvāsakāsāpahā sarā ||

163.1१६३.१

न ताम् अत्य् उपयुञ्जीत रसायनविधिं विना । (१६३।१)

na tām aty upayuñjīta rasāyanavidhiṃ vinā |

163.2१६३.२

नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् ॥ (१६३।२)

nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut ||

164.1१६४.१

रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् । (१६४।१)

rucyaṃ laghu svādupākaṃ snigdhoṣṇaṃ kaphavātajit |

164.2१६४.२

तद्वद् आर्द्रकम् एतच् च त्रयं त्रिकटुकं जयेत् ॥ (१६४।२)

tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet ||

165.1१६५.१

स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान् । (१६५।१)

sthaulyāgnisadanaśvāsakāsaślīpadapīnasān |

165.2१६५.२

चविकापिप्पलीमूलं मरिचाल्पान्तरं गुणैः ॥ (१६५।२)

cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ ||

166.1१६६.१

चित्रको ऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा । (१६६।१)

citrako 'gnisamaḥ pāke śophārśaḥkṛmikuṣṭhahā |

166.2१६६.२

पञ्चकोलकम् एतच् च मरिचेन विना स्मृतम् ॥ (१६६।२)

pañcakolakam etac ca maricena vinā smṛtam ||

167.1१६७.१

गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम् । (१६७।१)

gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param |

167.2१६७.२

बिल्वकाश्मर्यतर्कारीपाटलीटुण्टुकैर् महत् ॥ (१६७।२)

bilvakāśmaryatarkārīpāṭalīṭuṇṭukair mahat ||

168.1१६८.१

जयेत् कषायतिक्तोष्णं पञ्चमूलं कफानिलौ । (१६८।१)

jayet kaṣāyatiktoṣṇaṃ pañcamūlaṃ kaphānilau |

168.2१६८.२

ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम् ॥ (१६८।२)

hrasvaṃ bṛhatyaṃśumatīdvayagokṣurakaiḥ smṛtam ||

169.1१६९.१

स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित् । (१६९।१)

svādupākarasaṃ nātiśītoṣṇaṃ sarvadoṣajit |

169.2१६९.२

बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन तु ॥ (१६९।२)

balāpunarnavairaṇḍaśūrpaparṇīdvayena tu ||

170.1१७०.१

मध्यमं कफवातघ्नं नातिपित्तकरं सरम् । (१७०।१)

madhyamaṃ kaphavātaghnaṃ nātipittakaraṃ saram |

170.2१७०.२

अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम् ॥ (१७०।२)

abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam ||

171.1१७१.१

जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम् । (१७१।१)

jīvanākhyaṃ tu cakṣuṣyaṃ vṛṣyaṃ pittānilāpaham |

171.2१७१.२

तृणाख्यं पित्तजिद् दर्भकाशेक्षुशरशालिभिः ॥ (१७१।२)

tṛṇākhyaṃ pittajid darbhakāśekṣuśaraśālibhiḥ ||

172.1१७२.१

शूकशिम्बीजपक्वान्नमांसशाकफलौषधैः । (१७२।१)

śūkaśimbījapakvānnamāṃsaśākaphalauṣadhaiḥ |

172.2१७२.२

वर्गितैर् अन्नलेशो ऽयम् उक्तो नित्योपयोगिकः ॥ (१७२।२)

vargitair annaleśo 'yam ukto nityopayogikaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit