अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 17

97 of 120 · 54 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः कर्णरोगविज्ञानीयं व्याख्यास्यामः । (१।१)

athātaḥ karṇarogavijñānīyaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर् मरुत् । (१।३)

pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut |

1.4१.४

मिथ्यायोगेन शब्दस्य कुपितो ऽन्यैश्च कोपनैः ॥ (१।४)

mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ ||

2.1२.१

प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत् । (२।१)

prāpya śrotrasirāḥ kuryācchūlaṃ srotasi vegavat |

2.2२.२

अर्धावभेदकं स्तम्भं शिशिरानभिनन्दनम् ॥ (२।२)

ardhāvabhedakaṃ stambhaṃ śiśirānabhinandanam ||

3.1३.१

चिराच्च पाकं पक्वं तु लसीकाम् अल्पशः स्रवेत् । (३।१)

cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet |

3.2३.२

श्रोत्रं शून्यम् अकस्माच्च स्यात् संचारविचारवत् ॥ (३।२)

śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat ||

4.1४.१

शूलं पित्तात् सदाहोषाशीतेच्छाश्वयथुज्वरम् । (४।१)

śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram |

4.2४.२

आशुपाकं प्रपक्वं च सपीतलसिकास्रुति ॥ (४।२)

āśupākaṃ prapakvaṃ ca sapītalasikāsruti ||

5.1५.१

सा लसीका स्पृशेद् यद् यत् तत् तत् पाकम् उपैति च । (५।१)

sā lasīkā spṛśed yad yat tat tat pākam upaiti ca |

5.2५.२

कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः ॥ (५।२)

kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ ||

6.1६.१

कण्डूः श्वयथुरुष्णेच्छा पाकाच्छ्वेतघनस्रुतिः । (६।१)

kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ |

6.2६.२

करोति श्रवणे शूलम् अभिघातादिदूषितम् ॥ (६।२)

karoti śravaṇe śūlam abhighātādidūṣitam ||

7.1७.१

रक्तं पित्तसमानार्ति किंचिद् वाधिकलक्षणम् । (७।१)

raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam |

7.2७.२

शूलं समुदितैर् दोषैः सशोफज्वरतीव्ररुक् ॥ (७।२)

śūlaṃ samuditair doṣaiḥ saśophajvaratīvraruk ||

8.1८.१

पर्यायाद् उष्णशीतेच्छं जायते श्रुतिजाड्यवत् । (८।१)

paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat |

8.2८.२

पक्वं सितासितारक्तघनपूयप्रवाहि च ॥ (८।२)

pakvaṃ sitāsitāraktaghanapūyapravāhi ca ||

9.1९.१

शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः । (९।१)

śabdavāhisirāsaṃsthe śṛṇoti pavane muhuḥ |

9.2९.२

नादान् अकस्माद् विविधान् कर्णनादं वदन्ति तम् ॥ (९।२)

nādān akasmād vividhān karṇanādaṃ vadanti tam ||

10.1१०.१

श्लेष्मणानुगतो वायुर् नादो वा समुपेक्षितः । (१०।१)

śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ |

10.2१०.२

उच्चैः कृच्छ्राच्छ्रुतिं कुर्याद् बधिरत्वं क्रमेण च ॥ (१०।२)

uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca ||

11.1११.१

वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत् ततो भवेत् । (११।१)

vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet |

11.2११.२

रुग्गौरवं पिधानं च स प्रतीनाहसंज्ञितः ॥ (११।२)

ruggauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ ||

12.1१२.१

कण्डूशोफौ कफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ । (१२।१)

kaṇḍūśophau kaphācchrotre sthirau tatsaṃjñayā smṛtau |

12.2१२.२

कफो विदग्धः पित्तेन सरुजं नीरुजं त्वपि ॥ (१२।२)

kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi ||

13.1१३.१

घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम् । (१३।१)

ghanapūtibahukledaṃ kurute pūtikarṇakam |

13.2१३.२

वातादिदूषितं श्रोत्रं मांसासृक्क्लेदजा रुजम् ॥ (१३।२)

vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam ||

14.1१४.१

खादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः । (१४।१)

khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ |

14.2१४.२

श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्वलक्षणः ॥ (१४।२)

śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ ||

15.1१५.१

विद्रधिः पूर्ववच्चान्यः शोफो ऽर्शो ऽर्बुदम् ईरितम् । (१५।१)

vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam |

15.2१५.२

तेषु रुक् पूतिकर्णत्वं बधिरत्वं च बाधते ॥ (१५।२)

teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate ||

16.1१६.१

गर्भे ऽनिलात् संकुचिता शष्कुली कुचिकर्णकः । (१६।१)

garbhe 'nilāt saṃkucitā śaṣkulī kucikarṇakaḥ |

16.2१६.२

एको नीरुग् अनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥ (१६।२)

eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ ||

17.1१७.१

पिप्पली पिप्पलीमानः संनिपाताद् विदारिका । (१७।१)

pippalī pippalīmānaḥ saṃnipātād vidārikā |

17.2१७.२

सवर्णः सरुजः स्तब्धः श्वयथुः स उपेक्षितः ॥ (१७।२)

savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ ||

18.1१८.१

कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति । (१८।१)

kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati |

18.2१८.२

संकोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम् ॥ (१८।२)

saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm ||

19.1१९.१

सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम् । (१९।१)

sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam |

19.2१९.२

कृशा दृढा च तन्त्रीवत् पाली वातेन तन्त्रिका ॥ (१९।२)

kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā ||

20.1२०.१

सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते । (२०।१)

sukumāre cirotsargāt sahasaiva pravardhite |

20.2२०.२

कर्णे शोफः सरुक् पाल्याम् अरुणः परिपोटवान् ॥ (२०।२)

karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān ||

21.1२१.१

परिपोटः स पवनाद् उत्पातः पित्तशोणितात् । (२१।१)

paripoṭaḥ sa pavanād utpātaḥ pittaśoṇitāt |

21.2२१.२

गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान् ॥ (२१।२)

gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān ||

22.1२२.१

श्वयथुः स्फोटपिटिकारागोषाक्लेदसंयुतः । (२२।१)

śvayathuḥ sphoṭapiṭikārāgoṣākledasaṃyutaḥ |

22.2२२.२

पाल्यां शोफो ऽनिलकफात् सर्वतो निर्व्यथः स्थिरः ॥ (२२।२)

pālyāṃ śopho 'nilakaphāt sarvato nirvyathaḥ sthiraḥ ||

23.1२३.१

स्तब्धः सवर्णः कण्डूमान् उन्मन्थो गल्लिरश्च सः । (२३।१)

stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ |

23.2२३.२

दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक् ॥ (२३।२)

durviddhe vardhite karṇe sakaṇḍūdāhapākaruk ||

24.1२४.१

श्वयथुः संनिपातोत्थः स नाम्ना दुःखवर्धनः । (२४।१)

śvayathuḥ saṃnipātotthaḥ sa nāmnā duḥkhavardhanaḥ |

24.2२४.२

कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः ॥ (२४।२)

kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ ||

25.1२५.१

लिह्युः पालीम् उपेक्षिताः लेह्याख्याः पिटिकास्ता हि । (२५।१)

lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi |

25.2२५.२

पिप्पली सर्वजं शूलं विदारी कुचिकर्णकः ॥ (२५।२)

pippalī sarvajaṃ śūlaṃ vidārī kucikarṇakaḥ ||

26.1२६.१

एषाम् असाध्या याप्यैका तन्त्रिकान्यांस्तु साधयेत् । (२६।१)

eṣām asādhyā yāpyaikā tantrikānyāṃstu sādhayet |

26.2२६.२

पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः ॥ (२६।२)

pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit