अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 5

5 of 120 · 169 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो द्रवद्रव्यविज्ञानीयम् अध्यायं व्याख्यास्यामः । (१।१)

athāto dravadravyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

Wअस्सेर्जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम् । (१।३)

Wasserjīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam |

1.4१.४

तन्व् अव्यक्तरसं मृष्टं शीतं लघ्व् अमृतोपमम् ॥ (१।४)

tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam ||

2.1२.१

गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्व् अर्केन्दुमारुतैः । (२।१)

gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ |

2.2२.२

हिताहितत्वे तद् भूयो देशकालाव् अपेक्षते ॥ (२।२)

hitāhitatve tad bhūyo deśakālāv apekṣate ||

3.1३.१

येनाभिवृष्टम् अमलं शाल्यन्नं राजते स्थितम् । (३।१)

yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam |

3.2३.२

अक्लिन्नम् अविवर्णं च तत् पेयं गाङ्गम् अन्यथा ॥ (३।२)

aklinnam avivarṇaṃ ca tat peyaṃ gāṅgam anyathā ||

4.1४.१

सामुद्रं तन् न पातव्यं मासाद् आश्वयुजाद् विना । (४।१)

sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā |

4.2४.२

ऐन्द्रम् अम्बु सुपात्रस्थम् अविपन्नं सदा पिबेत् ॥ (४।२)

aindram ambu supātrastham avipannaṃ sadā pibet ||

5.1५.१

तदभावे च भूमिष्ठम् आन्तरिक्षानुकारि यत् । (५।१)

tadabhāve ca bhūmiṣṭham āntarikṣānukāri yat |

5.2५.२

शुचिपृथ्वसितश्वेते देशे ऽर्कपवनाहतम् ॥ (५।२)

śucipṛthvasitaśvete deśe 'rkapavanāhatam ||

6.1६.१

न पिबेत् पङ्कशैवालतृणपर्णाविलास्तृतम् । (६।१)

na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam |

6.2६.२

सूर्येन्दुपवनादृष्टम् अभिवृष्टं घनं गुरु ॥ (६।२)

sūryendupavanādṛṣṭam abhivṛṣṭaṃ ghanaṃ guru ||

7.1७.१

फेनिलं जन्तुमत् तप्तं दन्तग्राह्य् अतिशैत्यतः । (७।१)

phenilaṃ jantumat taptaṃ dantagrāhy atiśaityataḥ |

7.2७.२

अनार्तवं च यद् दिव्यम् आर्तवं प्रथमं च यत् ॥ (७।२)

anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat ||

8.1८.१

लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम् । (८।१)

lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam |

8.2८.२

पश्चिमोदधिगाः शीघ्रवहा याश् चामलोदकाः ॥ (८।२)

paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ ||

9.1९.१

पथ्याः समासात् ता नद्यो विपरीतास् त्व् अतो ऽन्यथा । (९।१)

pathyāḥ samāsāt tā nadyo viparītās tv ato 'nyathā |

9.2९.२

उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ॥ (९।२)

upalāsphālanākṣepavicchedaiḥ kheditodakāḥ ||

10.1१०.१

हिमवन्मलयोद्भूताः पथ्यास् ता एव च स्थिराः । (१०।१)

himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ |

10.2१०.२

कृमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते ॥ (१०।२)

kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate ||

11.1११.१

प्राच्यावन्त्यपरान्तोत्था दुर्नामानि महेन्द्रजाः । (११।१)

prācyāvantyaparāntotthā durnāmāni mahendrajāḥ |

11.2११.२

उदरश्लीपदातङ्कान् सह्यविन्ध्योद्भवाः पुनः ॥ (११।२)

udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ ||

12.1१२.१

कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः । (१२।१)

kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ |

12.2१२.२

बलपौरुषकारिण्यः सागराम्भस् त्रिदोषकृत् ॥ (१२।२)

balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt ||

13.1१३.१

विद्यात् कूपतडागादीन् जाङ्गलानूपशैलतः । (१३।१)

vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ |

13.2१३.२

नाम्बु पेयम् अशक्त्या वा स्वल्पम् अल्पाग्निगुल्मिभिः ॥ (१३।२)

nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ ||

14.1१४.१

पाण्डूदरातिसारार्शोग्रहणीशोषशोथिभिः । (१४।१)

pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ |

14.2१४.२

ऋते शरन्निदाघाभ्यां पिबेत् स्वस्थो ऽपि चाल्पशः ॥ (१४।२)

ṛte śarannidāghābhyāṃ pibet svastho 'pi cālpaśaḥ ||

15.1१५.१

समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः । (१५।१)

samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ |

15.2१५.२

शीतं मदात्ययग्लानिमूर्छाछर्दिश्रमभ्रमान् ॥ (१५।२)

śītaṃ madātyayaglānimūrchāchardiśramabhramān ||

16.1१६.१

तृष्णोष्णदाहपित्तास्रविषाण्य् अम्बु नियच्छति । (१६।१)

tṛṣṇoṣṇadāhapittāsraviṣāṇy ambu niyacchati |

16.2१६.२

दीपनं पाचनं कण्ठ्यं लघूष्णं वस्तिशोधनम् ॥ (१६।२)

dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam ||

17.1१७.१

हिध्माध्मानानिलश्लेष्मसद्यःशुद्धिनवज्वरे । (१७।१)

hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare |

17.2१७.२

कासामपीनसश्वासपार्श्वरुक्षु च शस्यते ॥ (१७।२)

kāsāmapīnasaśvāsapārśvarukṣu ca śasyate ||

18.1१८.१

अनभिष्यन्दि लघु च तोयं क्वथितशीतलम् । (१८।१)

anabhiṣyandi laghu ca toyaṃ kvathitaśītalam |

18.2१८.२

पित्तयुक्ते हितं दोषे व्युषितं तत् त्रिदोषकृत् ॥ (१८।२)

pittayukte hitaṃ doṣe vyuṣitaṃ tat tridoṣakṛt ||

19.1१९.१

नारिकेलनारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु । (१९।१)

nārikelanārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu |

19.2१९.२

तृष्णापित्तानिलहरं दीपनं वस्तिशोधनम् ॥ (१९।२)

tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam ||

20.1२०.१

वर्षासु दिव्यनादेये परं तोये वरावरे । (२०।१)

varṣāsu divyanādeye paraṃ toye varāvare |

20.2२०.२

स्वादुपाकरसं स्निग्धम् ओजस्यं धातुवर्धनम् ॥ (२०।२)

svādupākarasaṃ snigdham ojasyaṃ dhātuvardhanam ||

21.1२१.१

वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् । (२१।१)

vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalam |

21.2२१.२

प्रायः पयो ऽत्र गव्यं तु जीवनीयं रसायनम् ॥ (२१।२)

prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam ||

22.1२२.१

क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम् । (२२।१)

kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram |

23.1२३.१

जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत् । (२३।१)

jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet |

23.2२३.२

हितम् अत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम् ॥ (२३।२)

hitam atyagnyanidrebhyo garīyo māhiṣaṃ himam ||

24.1२४.१

अल्पाम्बुपानव्यायामकटुतिक्ताशनैर् लघु । (२४।१)

alpāmbupānavyāyāmakaṭutiktāśanair laghu |

24.2२४.२

आजं शोषज्वरश्वासरक्तपित्तातिसारजित् ॥ (२४।२)

ājaṃ śoṣajvaraśvāsaraktapittātisārajit ||

25.1२५.१

ईषद् रूक्षोष्णलवणम् औष्ट्रकं दीपनं लघु । (२५।१)

īṣad rūkṣoṣṇalavaṇam auṣṭrakaṃ dīpanaṃ laghu |

25.2२५.२

शस्तं वातकफानाहकृमिशोफोदरार्शसाम् ॥ (२५।२)

śastaṃ vātakaphānāhakṛmiśophodarārśasām ||

26.1२६.१

मानुषं वातपित्तासृगभिघाताक्षिरोगजित् । (२६।१)

mānuṣaṃ vātapittāsṛgabhighātākṣirogajit |

26.2२६.२

तर्पणाश्च्योतनैर् नस्यैर् अहृद्यं तूष्णम् आविकम् ॥ (२६।२)

tarpaṇāścyotanair nasyair ahṛdyaṃ tūṣṇam āvikam ||

27.1२७.१

वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम् । (२७।१)

vātavyādhiharaṃ hidhmāśvāsapittakaphapradam |

27.2२७.२

हस्तिन्याः स्थैर्यकृद् बाढम् उष्णं त्व् ऐकशफं लघु ॥ (२७।२)

hastinyāḥ sthairyakṛd bāḍham uṣṇaṃ tv aikaśaphaṃ laghu ||

28.1२८.१

शाखावातहरं साम्ललवणं जडताकरम् । (२८।१)

śākhāvātaharaṃ sāmlalavaṇaṃ jaḍatākaram |

28.2२८.२

पयो ऽभिष्यन्दि गुर्व् आमं युक्त्या शृतम् अतो ऽन्यथा ॥ (२८।२)

payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā ||

29.1२९.१

भवेद् गरीयो ऽतिशृतं धारोष्णम् अमृतोपमम् । (२९।१)

bhaved garīyo 'tiśṛtaṃ dhāroṣṇam amṛtopamam |

29.2२९.२

दधिअम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित् ॥ (२९।२)

dadhiamlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit ||

30.1३०.१

मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत् । (३०।१)

medaḥśukrabalaśleṣmapittaraktāgniśophakṛt |

30.2३०.२

रोचिष्णु शस्तम् अरुचौ शीतके विषमज्वरे ॥ (३०।२)

rociṣṇu śastam arucau śītake viṣamajvare ||

31.1३१.१

पीनसे मूत्रकृच्छ्रे च रूक्षं तु ग्रहणीगदे । (३१।१)

pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade |

31.2३१.२

नैवाद्यान् निशि नैवोष्णं वसन्तोष्णशरत्सु न ॥ (३१।२)

naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na ||

32.1३२.१

नामुद्गसूपं नाक्षौद्रं तन् नाघृतसितोपलम् । (३२।१)

nāmudgasūpaṃ nākṣaudraṃ tan nāghṛtasitopalam |

32.2३२.२

न चानामलकं नापि नित्यं नो मन्दम् अन्यथा ॥ (३२।२)

na cānāmalakaṃ nāpi nityaṃ no mandam anyathā ||

33.1३३.१

ज्वरासृक्पित्तवीसर्पकुष्ठपाण्डुभ्रमप्रदम् । (३३।१)

jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam |

33.2३३.२

तक्रं लघु कषायाम्लं दीपनं कफवातजित् ॥ (३३।२)

takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit ||

34.1३४.१

शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः । (३४।१)

śophodarārśograhaṇīdoṣamūtragrahārucīḥ |

34.2३४.२

प्लीहगुल्मघृतव्यापद्गरपाण्ड्वामयाञ् जयेत् ॥ (३४।२)

plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet ||

35.1३५.१

तद्वन् मस्तु सरं स्रोतःशोधि विष्टम्भजिल् लघु । (३५।१)

tadvan mastu saraṃ srotaḥśodhi viṣṭambhajil laghu |

35.2३५.२

नवनीतं नवं वृष्यं शीतं वर्णबलाग्निकृत् ॥ (३५।२)

navanītaṃ navaṃ vṛṣyaṃ śītaṃ varṇabalāgnikṛt ||

36.1३६.१

संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासजित् । (३६।१)

saṃgrāhi vātapittāsṛkkṣayārśo'rditakāsajit |

36.2३६.२

क्षीरोद्भवं तु संग्राहि रक्तपित्ताक्षिरोगजित् ॥ (३६।२)

kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit ||

37.1३७.१

शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम् । (३७।१)

śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām |

37.2३७.२

बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम् ॥ (३७।२)

bālavṛddhaprajākāntisaukumāryasvarārthinām ||

38.1३८.१

क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् । (३८।१)

kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām |

38.2३८.२

वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ॥ (३८।२)

vātapittaviṣonmādaśoṣālakṣmījvarāpaham ||

39.1३९.१

स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् । (३९।१)

snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param |

39.2३९.२

सहस्रवीर्यं विधिभिर् घृतं कर्मसहस्रकृत् ॥ (३९।२)

sahasravīryaṃ vidhibhir ghṛtaṃ karmasahasrakṛt ||

40.1४०.१

मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान् । (४०।१)

madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān |

40.2४०.२

पुराणं जयति व्याधीन् व्रणशोधनरोपणम् ॥ (४०।२)

purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam ||

41.1४१.१

बल्याः किलाटपीयूषकूर्चिकामोरणादयः । (४१।१)

balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ |

41.2४१.२

शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः ॥ (४१।२)

śukranidrākaphakarā viṣṭambhigurudoṣalāḥ ||

42.1४२.१

गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसंभवे । (४२।१)

gavye kṣīraghṛte śreṣṭhe nindite cāvisaṃbhave |

42.2४२.२

इक्षुरसैक्षोः सरो गुरुः स्निग्धो बृंहणः कफमूत्रकृत् ॥ (४२।२)

ikṣurasaikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kaphamūtrakṛt ||

43.1४३.१

वृष्यः शीतो ऽस्रपित्तघ्नः स्वादुपाकरसो रसः । (४३।१)

vṛṣyaḥ śīto 'srapittaghnaḥ svādupākaraso rasaḥ |

43.2४३.२

सो ऽग्रे सलवणो दन्तपीडितः शर्करासमः ॥ (४३।२)

so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ ||

44.1४४.१

मूलाग्रजन्तुजग्धादिपीडनान् मलसंकरात् । (४४।१)

mūlāgrajantujagdhādipīḍanān malasaṃkarāt |

44.2४४.२

किंचित् कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥ (४४।२)

kiṃcit kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ ||

45.1४५.१

विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः । (४५।१)

vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ |

45.2४५.२

शैत्यप्रसादमाधुर्यैर् वरस् तम् अनु वांशिकः ॥ (४५।२)

śaityaprasādamādhuryair varas tam anu vāṃśikaḥ ||

46.1४६.१

शतपर्वककान्तारनैपालाद्यास् ततः क्रमात् । (४६।१)

śataparvakakāntāranaipālādyās tataḥ kramāt |

46.2४६.२

सक्षाराः सकषायाश् च सोष्णाः किंचिद् विदाहिनः ॥ (४६।२)

sakṣārāḥ sakaṣāyāś ca soṣṇāḥ kiṃcid vidāhinaḥ ||

47.1४७.१

फाणितं गुर्व् अभिष्यन्दि चयकृन् मूत्रशोधनम् । (४७।१)

phāṇitaṃ gurv abhiṣyandi cayakṛn mūtraśodhanam |

47.2४७.२

नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृद् गुडः ॥ (४७।२)

nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ ||

48.1४८.१

प्रभूतकृमिमज्जासृङ्मेदोमांसकफो ऽपरः । (४८।१)

prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ |

48.2४८.२

हृद्यः पुराणः पथ्यश् च नवः श्लेष्माग्निसादकृत् ॥ (४८।२)

hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt ||

49.1४९.१

वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः । (४९।१)

vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ |

49.2४९.२

मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः ॥ (४९।२)

matsyaṇḍikākhaṇḍasitāḥ krameṇa guṇavattamāḥ ||

50.1५०.१

तद्गुणा तिक्तमधुरा कषाया यासशर्करा । (५०।१)

tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā |

50.2५०.२

दाहतृट्छर्दिमूर्छासृक्पित्तघ्न्यः सर्वशर्कराः ॥ (५०।२)

dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ ||

51.1५१.१

शर्करेक्षुविकाराणां फाणितं च वरावरे । (५१।१)

śarkarekṣuvikārāṇāṃ phāṇitaṃ ca varāvare |

51.2५१.२

चक्षुष्यं छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत् ॥ (५१।२)

cakṣuṣyaṃ chedi tṛṭśleṣmaviṣahidhmāsrapittanut ||

52.1५२.१

मेहकुष्ठकृमिच्छर्दिश्वासकासातिसारजित् । (५२।१)

mehakuṣṭhakṛmicchardiśvāsakāsātisārajit |

52.2५२.२

व्रणशोधनसंधानरोपणं वातलं मधु ॥ (५२।२)

vraṇaśodhanasaṃdhānaropaṇaṃ vātalaṃ madhu ||

53.1५३.१

रूक्षं कषायमधुरं तत्तुल्या मधुशर्करा । (५३।१)

rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā |

53.2५३.२

उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णैर् निहन्ति तत् ॥ (५३।२)

uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat ||

54.1५४.१

प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते । (५४।१)

pracchardane nirūhe ca madhūṣṇaṃ na nivāryate |

54.2५४.२

अलब्धपाकम् आश्वेव तयोर् यस्मान् निवर्तते ॥ (५४।२)

alabdhapākam āśveva tayor yasmān nivartate ||

55.1५५.१

तैलं स्वयोनिवत् तत्र मुख्यं तीक्ष्णं व्यवायि च । (५५।१)

tailaṃ svayonivat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca |

55.2५५.२

त्वग्दोषकृद् अचक्षुष्यं सूक्ष्मोष्णं कफकृन् न च ॥ (५५।२)

tvagdoṣakṛd acakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛn na ca ||

56.1५६.१

कृशानां बृंहणायालं स्थूलानां कर्शनाय च । (५६।१)

kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca |

56.2५६.२

बद्धविट्कं कृमिघ्नं च संस्कारात् सर्वरोगजित् ॥ (५६।२)

baddhaviṭkaṃ kṛmighnaṃ ca saṃskārāt sarvarogajit ||

57.1५७.१

सतिक्तोषणम् ऐरण्डं तैलं स्वादु सरं गुरु । (५७।१)

satiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru |

57.2५७.२

वर्ध्मगुल्मानिलकफान् उदरं विषमज्वरम् ॥ (५७।२)

vardhmagulmānilakaphān udaraṃ viṣamajvaram ||

58.1५८.१

रुक्शोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत् । (५८।१)

rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet |

58.2५८.२

तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्व् अति ॥ (५८।२)

tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati ||

59.1५९.१

कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम् । (५९।१)

kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kaphaśukrānilāpaham |

59.2५९.२

लघु पित्तास्रकृत् कोठकुष्ठार्शोव्रणजन्तुजित् ॥ (५९।२)

laghu pittāsrakṛt koṭhakuṣṭhārśovraṇajantujit ||

60.1६०.१

आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । (६०।१)

ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham |

60.2६०.२

नात्युष्णं निम्बजं तिक्तं कृमिकुष्ठकफप्रणुत् ॥ (६०।२)

nātyuṣṇaṃ nimbajaṃ tiktaṃ kṛmikuṣṭhakaphapraṇut ||

61.1६१.१

उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत् । (६१।१)

umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt |

61.2६१.२

वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ ॥ (६१।२)

vasā majjā ca vātaghnau balapittakaphapradau ||

62.1६२.१

मांसानुगस्वरूपौ च विद्यान् मेदो ऽपि ताव् इव । (६२।१)

māṃsānugasvarūpau ca vidyān medo 'pi tāv iva |

62.2६२.२

दीपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम् ॥ (६२।२)

dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam ||

63.1६३.१

सस्वादुतिक्तकटुकम् अम्लपाकरसं सरम् । (६३।१)

sasvādutiktakaṭukam amlapākarasaṃ saram |

63.2६३.२

सकषायं स्वरारोग्यप्रतिभावर्णकृल् लघु ॥ (६३।२)

sakaṣāyaṃ svarārogyapratibhāvarṇakṛl laghu ||

64.1६४.१

नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम् । (६४।१)

naṣṭanidrātinidrebhyo hitaṃ pittāsradūṣaṇam |

64.2६४.२

कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम् ॥ (६४।२)

kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam ||

65.1६५.१

वातश्लेष्महरं युक्त्या पीतं विषवद् अन्यथा । (६५।१)

vātaśleṣmaharaṃ yuktyā pītaṃ viṣavad anyathā |

65.2६५.२

गुरु तद् दोषजननं नवं जीर्णम् अतो ऽन्यथा ॥ (६५।२)

guru tad doṣajananaṃ navaṃ jīrṇam ato 'nyathā ||

66.1६६.१

पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः । (६६।१)

peyaṃ noṣṇopacāreṇa na viriktakṣudhāturaiḥ |

66.2६६.२

नात्यर्थतीक्ष्णमृद्वल्पसंभारं कलुषं न च ॥ (६६।२)

nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca ||

67.1६७.१

गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः । (६७।१)

gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ |

67.2६७.२

सुरानिलघ्नी मेदोऽसृक्स्तन्यमूत्रकफावहा ॥ (६७।२)

surānilaghnī medo'sṛkstanyamūtrakaphāvahā ||

68.1६८.१

तद्गुणा वारुणी हृद्या लघुस् तीक्ष्णा निहन्ति च । (६८।१)

tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca |

68.2६८.२

शूलकासवमिश्वासविबन्धाध्मानपीनसान् ॥ (६८।२)

śūlakāsavamiśvāsavibandhādhmānapīnasān ||

69.1६९.१

नातितीव्रमदा लघ्वी पथ्या वैभीतकी सुरा । (६९।१)

nātitīvramadā laghvī pathyā vaibhītakī surā |

69.2६९.२

व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते ॥ (६९।२)

vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate ||

70.1७०.१

विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला । (७०।१)

viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā |

70.2७०.२

यथाद्रव्यगुणो ऽरिष्टः सर्वमद्यगुणाधिकः ॥ (७०।२)

yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ ||

71.1७१.१

ग्रहणीपाण्डुकुष्ठार्शःशोफशोषोदरज्वरान् । (७१।१)

grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān |

71.2७१.२

हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः ॥ (७१।२)

hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ ||

72.1७२.१

मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम् । (७२।१)

mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram |

72.2७२.२

अल्पपित्तानिलं पाण्डुमेहार्शःकृमिनाशनम् ॥ (७२।२)

alpapittānilaṃ pāṇḍumehārśaḥkṛmināśanam ||

73.1७३.१

अस्माद् अल्पान्तरगुणं खार्जूरं वातलं गुरु । (७३।१)

asmād alpāntaraguṇaṃ khārjūraṃ vātalaṃ guru |

73.2७३.२

शार्करः सुरभिः स्वादुहृद्यो नातिमदो लघुः ॥ (७३।२)

śārkaraḥ surabhiḥ svāduhṛdyo nātimado laghuḥ ||

74.1७४.१

सृष्टमूत्रशकृद्वातो गौडस् तर्पणदीपनः । (७४।१)

sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ |

74.2७४.२

वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा ॥ (७४।२)

vātapittakaraḥ sīdhuḥ snehaśleṣmavikārahā ||

75.1७५.१

मेदःशोफोदरार्शोघ्नस् तत्र पक्वरसो वरः । (७५।१)

medaḥśophodarārśoghnas tatra pakvaraso varaḥ |

75.2७५.२

छेदी मध्वासवस् तीक्ष्णो मेहपीनसकासजित् ॥ (७५।२)

chedī madhvāsavas tīkṣṇo mehapīnasakāsajit ||

76.1७६.१

रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम् । (७६।१)

raktapittakaphotkledi śuktaṃ vātānulomanam |

76.2७६.२

भृशोष्णतीक्ष्णरूक्षाम्लं हृद्यं रुचिकरं सरम् ॥ (७६।२)

bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram ||

77.1७७.१

दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम् । (७७।१)

dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam |

77.2७७.२

गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम् ॥ (७७।२)

guḍekṣumadyamārdvīkaśuktaṃ laghu yathottaram ||

78.1७८.१

कन्दमूलफलाद्यं च तद्वद् विद्यात् तदासुतम् । (७८।१)

kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam |

78.2७८.२

शाण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु ॥ (७८।२)

śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu ||

79.1७९.१

धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् । (७९।१)

dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam |

79.2७९.२

श्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ॥ (७९।२)

śramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut ||

80.1८०.१

शस्तम् आस्थापने हृद्यं लघु वातकफापहम् । (८०।१)

śastam āsthāpane hṛdyaṃ laghu vātakaphāpaham |

80.2८०.२

एभिर् एव गुणैर् युक्ते सौवीरकतुषोदके ॥ (८०।२)

ebhir eva guṇair yukte sauvīrakatuṣodake ||

81.1८१.१

कृमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे । (८१।१)

kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe |

81.2८१.२

ते क्रमाद् वितुषैर् विद्यात् सतुषैश् च यवैः कृते ॥ (८१।२)

te kramād vituṣair vidyāt satuṣaiś ca yavaiḥ kṛte ||

82.1८२.१

मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् । (८२।१)

mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam |

82.2८२.२

पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ॥ (८२।२)

pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu ||

83.1८३.१

कृमिशोफोदरानाहशूलपाण्डुकफानिलान् । (८३।१)

kṛmiśophodarānāhaśūlapāṇḍukaphānilān |

83.2८३.२

गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल् लघु ॥ (८३।२)

gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayel laghu ||

84.1८४.१

तोयक्षीरेक्षुतैलानां वर्गैर् मद्यस्य च क्रमात् । (८४।१)

toyakṣīrekṣutailānāṃ vargair madyasya ca kramāt |

84.2८४.२

इति द्रवैकदेशो ऽयं यथास्थूलम् उदाहृतः ॥ (८४।२)

iti dravaikadeśo 'yaṃ yathāsthūlam udāhṛtaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit