अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 3, 10
Select a line for its word-by-word analysis.
प्रमेहा विंशतिस् तत्र श्लेष्मतो दश पित्ततः । (१।३)
pramehā viṃśatis tatra śleṣmato daśa pittataḥ |
षट् चत्वारो ऽनिलात् तेषां मेदोमूत्रकफावहम् ॥ (१।४)
ṣaṭ catvāro 'nilāt teṣāṃ medomūtrakaphāvaham ||
प्रमेह - एन्त्स्तेहुन्गन्नपानक्रियाजातं यत् प्रायस् तत् प्रवर्तकम् । (२।१)
prameha - Entstehungannapānakriyājātaṃ yat prāyas tat pravartakam |
वस्तिम् आश्रित्य कुरुते प्रमेहान् दूषितः कफः । (४।१)
vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ |
पित्तं रक्तम् अपि क्षीणे कफादौ मूत्रसंश्रयम् । (५।१)
pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam |
धातून् वस्तिम् उपानीय तत्क्षये ऽपि च मारुतः ॥ (५।२)
dhātūn vastim upānīya tatkṣaye 'pi ca mārutaḥ ||
साध्ययाप्यपरित्याज्या मेहास् तेनैव तद्भवाः । (६।१)
sādhyayāpyaparityājyā mehās tenaiva tadbhavāḥ |
प्रमेह - गेमेइन्समे स्य्म्प्तोमेसामान्यं लक्षणं तेषां प्रभूताविलमूत्रता । (७।१)
prameha - gemeinsame symptomesāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā |
अच्छं बहु सितं शीतं निर्गन्धम् उदकोपमम् ॥ (८।२)
acchaṃ bahu sitaṃ śītaṃ nirgandham udakopamam ||
इक्षो रसम् इवात्यर्थं मधुरं चेक्षुमेहतः ॥ (९।२)
ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ ||
सान्द्रीभवेत् पर्युषितं सान्द्रमेहेन मेहति । (१०।१)
sāndrībhavet paryuṣitaṃ sāndramehena mehati |
सुरामेही सुरातुल्यम् उपर्यच्छम् अधो घनम् ॥ (१०।२)
surāmehī surātulyam uparyaccham adho ghanam ||
संहृष्टरोमा पिष्टेन पिष्टवद् बहलं सितम् । (११।१)
saṃhṛṣṭaromā piṣṭena piṣṭavad bahalaṃ sitam |
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥ (११।२)
śukrābhaṃ śukramiśraṃ vā śukramehī pramehati ||
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति । (१३।१)
śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati |
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥ (१३।२)
lālātantuyutaṃ mūtraṃ lālāmehena picchilam ||
गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् । (१४।१)
gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat |
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् ॥ (१५।२)
visraṃ māñjiṣṭhamehena mañjiṣṭhāsalilopamam ||
विस्रम् उष्णं सलवणं रक्ताभं रक्तमेहतः । (१६।१)
visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ |
वसामेही वसामिश्रं वसां वा मूत्रयेन् मुहुः ॥ (१६।२)
vasāmehī vasāmiśraṃ vasāṃ vā mūtrayen muhuḥ ||
मज्जानं मज्जमिश्रं वा मज्जमेही मुहुर् मुहुः । (१७।१)
majjānaṃ majjamiśraṃ vā majjamehī muhur muhuḥ |
हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम् ॥ (१७।२)
hastī matta ivājasraṃ mūtraṃ vegavivarjitam ||
मधुमेहक्रुद्धे धातुक्षयाद् वायौ दोषावृतपथे ऽथवा । (१९।१)
madhumehakruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā |
आवृतो दोषलिङ्गानि सो ऽनिमित्तं प्रदर्शयेत् ॥ (१९।२)
āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet ||
क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्रसाध्यताम् । (२०।१)
kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām |
कालेनोपेक्षिताः सर्वे यद् यान्ति मधुमेहताम् ॥ (२०।२)
kālenopekṣitāḥ sarve yad yānti madhumehatām ||
मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति । (२१।१)
madhuraṃ yacca sarveṣu prāyo madhviva mehati |
सर्वे ऽपि मधुमेहाख्या माधुर्याच्च तनोरतः ॥ (२१।२)
sarve 'pi madhumehākhyā mādhuryācca tanorataḥ ||
प्रमेह - उपद्रवसविपाको ऽरुचिश्छर्दिर् निद्रा कासः सपीनसः । (२२।१)
prameha - upadravasavipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ |
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ॥ (२२।२)
upadravāḥ prajāyante mehānāṃ kaphajanmanām ||
दाहस् तृष्णाम्लको मूर्छा विड्भेदः पित्तजन्मनाम् ॥ (२३।२)
dāhas tṛṣṇāmlako mūrchā viḍbhedaḥ pittajanmanām ||
शूलम् उन्निद्रता शोषः कासः श्वासश्च जायते ॥ (२४।२)
śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate ||
अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुजान्विता । (२७।१)
antonnatā madhyanimnā śyāvā kledarujānvitā |
कच्छपीअवगाढार्तिनिस्तोदा महावस्तुपरिग्रहा । (२८।१)
kacchapīavagāḍhārtinistodā mahāvastuparigrahā |
श्लक्ष्णा कच्छपपृष्ठाभा पिटिका कच्छपी मता ॥ (२८।२)
ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā ||
जालिनीस्तब्धा सिराजालवती स्निग्धस्रावा महाशया । (२९।१)
jālinīstabdhā sirājālavatī snigdhasrāvā mahāśayā |
रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी ॥ (२९।२)
rujānistodabahulā sūkṣmacchidrā ca jālinī ||
दहति त्वचम् उत्थाने भृशं कष्टा विसर्पिणी । (३१।१)
dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī |
विद्रधिर् वक्ष्यते ऽन्यत्र तत्राद्यं पिटिकात्रयम् ॥ (३४।२)
vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam ||
सह्याः पित्तोल्बणास् त्वन्याः सम्भवन्त्यल्पमेदसः ॥ (३५।२)
sahyāḥ pittolbaṇās tvanyāḥ sambhavantyalpamedasaḥ ||
तासु मेहवशाच्च स्याद् दोषोद्रेको यथायथम् । (३६।१)
tāsu mehavaśācca syād doṣodreko yathāyatham |
तावच्च नोपलक्ष्यन्ते यावद् वस्तुपरिग्रहः ॥ (३६।३)
tāvacca nopalakṣyante yāvad vastuparigrahaḥ ||
वेर्wएछ्स्लुन्ग् मित् रक्तपित्तहारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम् । (३७।१)
verwechslung mit raktapittahāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam |
यो मूत्रयेन् न तं मेहं रक्तपित्तं तु तद् विदुः ॥ (३७।२)
yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ ||
प्रमेह - प्रोद्रोमेस्वेदो ऽङ्गगन्धः शिथिलत्वम् अङ्गे शय्यासनस्वप्नसुखाभिषङ्गः । (३८।१)
prameha - Prodromesvedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ |
हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः ॥ (३८।२)
hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ ||
शीतप्रियत्वं गलतालुशोषो माधुर्यम् आस्ये करपाददाहः । (३९।१)
śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ |
भविष्यतो मेहगणस्य रूपं मूत्रे ऽभिधावन्ति पिपीलिकाश्च ॥ (३९।२)
bhaviṣyato mehagaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāśca ||
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद् द्विविधो विचारः । (४०।१)
dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syād dvividho vicāraḥ |
संपूरणाद् वा कफसंभवः स्यात् क्षीणेषु दोषेष्वनिलात्मको वा ॥ (४०।२)
saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā ||
प्रोग्नोसेसपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः । (४१।१)
Prognosesapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ |
साध्या न ते पित्तकृतास् तु याप्याः साध्यास् तु मेदो यदि नातिदुष्टम् ॥ (४१।२)
sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam ||
Data courtesy of The Digital Corpus of Sanskrit.