अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 3, 13

49 of 120 · 137 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः पाण्डुरोगशोफविसर्पनिदानं व्याख्यास्यामः । (१।१)

athātaḥ pāṇḍurogaśophavisarpanidānaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर् मलाः । (१।३)

pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ |

1.4१.४

तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम् ॥ (१।४)

tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam ||

2.1२.१

धमनीर् दश सम्प्राप्य व्याप्नुवत् सकलां तनुम् । (२।१)

dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum |

2.2२.२

श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरम् आश्रितम् ॥ (२।२)

śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam ||

3.1३.१

त्वङ्मांसयोस् तत् कुरुते त्वचि वर्णान् पृथग्विधान् । (३।१)

tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān |

3.2३.२

पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम् ॥ (३।२)

pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam ||

4.1४.१

यतो ऽतः पाण्डुरित्युक्तः स रोगस् तेन गौरवम् । (४।१)

yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam |

4.2४.२

धातूनां स्याच्च शैथिल्यम् ओजसश्च गुणक्षयः ॥ (४।२)

dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ ||

5.1५.१

ततो ऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः । (५।१)

tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ |

5.2५.२

मृद्यमानैरिवाङ्गैर् ना द्रवता हृदयेन च ॥ (५।२)

mṛdyamānairivāṅgair nā dravatā hṛdayena ca ||

6.1६.१

शूनाक्षिकूटः सदनः कोपनः ष्ठीवनो ऽल्पवाक् । (६।१)

śūnākṣikūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpavāk |

6.2६.२

अन्नद्विट् शिशिरद्वेषी शीर्णरोमा हतानलः ॥ (६।२)

annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ ||

7.1७.१

सन्नसक्थो ज्वरी श्वासी कर्णक्ष्वेडी भ्रमी श्रमी । (७।१)

sannasaktho jvarī śvāsī karṇakṣveḍī bhramī śramī |

7.2७.२

स पञ्चधा पृथग् दोषैः समस्तैर् मृत्तिकादनात् ॥ (७।२)

sa pañcadhā pṛthag doṣaiḥ samastair mṛttikādanāt ||

8.1८.१

प्राग्रूपप्राग्रूपम् अस्य हृदयस्पन्दनं रूक्षता त्वचि । (८।१)

prāgrūpaprāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci |

8.2८.२

अरुचिः पीतमूत्रत्वं स्वेदाभावो ऽल्पवह्निता ॥ (८।२)

aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā ||

9.1९.१

सादः श्रमो ऽनिलात् तत्र गात्ररुक्तोदकम्पनम् । (९।१)

sādaḥ śramo 'nilāt tatra gātraruktodakampanam |

9.2९.२

कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता ॥ (९।२)

kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā ||

10.1१०.१

शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक् । (१०।१)

śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk |

10.2१०.२

पित्ताद्धरितपीताभसिरादित्वं ज्वरस् तमः ॥ (१०।२)

pittāddharitapītābhasirāditvaṃ jvaras tamaḥ ||

11.1११.१

तृट्स्वेदमूर्छाशीतेच्छा दौर्गन्ध्यं कटुवक्त्रता । (११।१)

tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā |

11.2११.२

वर्चोभेदो ऽम्लको दाहः कफाच्छुक्लसिरादिता ॥ (११।२)

varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā ||

12.1१२.१

तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः । (१२।१)

tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ |

12.2१२.२

कासश्छर्दिश्च निचयान् मिश्रलिङ्गो ऽतिदुःसहः ॥ (१२।२)

kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ ||

13.1१३.१

मृत् कषायानिलं पित्तम् ऊषरा मधुरा कफम् । (१३।१)

mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham |

13.2१३.२

दूषयित्वा रसादींश्च रौक्ष्याद् भुक्तं विरूक्ष्य च ॥ (१३।२)

dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca ||

14.1१४.१

स्रोतांस्यपक्वैवापूर्य कुर्याद् रुद्ध्वा च पूर्ववत् । (१४।१)

srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat |

14.2१४.२

पाण्डुरोगं ततः शूननाभिपादास्यमेहनः ॥ (१४।२)

pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ ||

15.1१५.१

पुरीषं कृमिमन् मुञ्चेद् भिन्नं सासृक् कफं नरः । (१५।१)

purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ |

15.2१५.२

यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम् ॥ (१५।२)

yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām ||

16.1१६.१

कोष्ठशाखाश्रयां पित्तं दग्ध्वासृङ्मांसम् आवहेत् । (१६।१)

koṣṭhaśākhāśrayāṃ pittaṃ dagdhvāsṛṅmāṃsam āvahet |

16.2१६.२

हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया ॥ (१६।२)

hāridranetramūtratvaṅnakhavaktraśakṛttayā ||

17.1१७.१

दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः । (१७।१)

dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ |

17.2१७.२

भवेत् पित्तोल्बणस्यासौ पाण्डुरोगाद् ऋते ऽपि च ॥ (१७।२)

bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca ||

18.1१८.१

उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भकामला । (१८।१)

upekṣayā ca śophāḍhyā sā kṛcchrā kumbhakāmalā |

18.2१८.२

हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत् ॥ (१८।२)

haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet ||

19.1१९.१

वातपित्ताद् भ्रमस् तृष्णा स्त्रीष्वहर्षो मृदुर् ज्वरः । (१९।१)

vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ |

19.2१९.२

तन्द्रा बलानलभ्रंशो लोढरं तं हलीमकम् ॥ (१९।२)

tandrā balānalabhraṃśo loḍharaṃ taṃ halīmakam ||

20.1२०.१

अलसं चेति शंसन्ति तेषां पूर्वम् उपद्रवाः । (२०।१)

alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ |

20.2२०.२

शोफप्रधानाः कथिताः स एवातो निगद्यते ॥ (२०।२)

śophapradhānāḥ kathitāḥ sa evāto nigadyate ||

21.1२१.१

शोफपित्तरक्तकफान् वायुर् दुष्टो दुष्टान् बहिःसिराः । (२१।१)

śophapittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ |

21.2२१.२

नीत्वा रुद्धगतिस् तैर् हि कुर्यात् त्वङ्मांससंश्रयम् ॥ (२१।२)

nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam ||

22.1२२.१

उत्सेधं संहतं शोफं तम् आहुर् निचयाद् अतः । (२२।१)

utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ |

22.2२२.२

सर्वं हेतुविशेषैस् तु रूपभेदान् नवात्मकम् ॥ (२२।२)

sarvaṃ hetuviśeṣais tu rūpabhedān navātmakam ||

23.1२३.१

दोषैः पृथग् द्वयैः सर्वैरभिघाताद् विषाद् अपि । (२३।१)

doṣaiḥ pṛthag dvayaiḥ sarvairabhighātād viṣād api |

23.2२३.२

द्विधा वा निजम् आगन्तुं सर्वाङ्गैकाङ्गजं च तम् ॥ (२३।२)

dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam ||

24.1२४.१

पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः । (२४।१)

pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ |

24.2२४.२

सामान्यहेतुः शोफानां दोषजानां विशेषतः ॥ (२४।२)

sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ ||

25.1२५.१

व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम् । (२५।१)

vyādhikarmopavāsādikṣīṇasya bhajato drutam |

25.2२५.२

अतिमात्रम् अथान्यस्य गुर्वम्लस्निग्धशीतलम् ॥ (२५।२)

atimātram athānyasya gurvamlasnigdhaśītalam ||

26.1२६.१

लवणक्षारतीक्ष्णोष्णशाकाम्बु स्वप्नजागरम् । (२६।१)

lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram |

26.2२६.२

मृद्ग्राम्यमांसवल्लूरम् अजीर्णश्रममैथुनम् ॥ (२६।२)

mṛdgrāmyamāṃsavallūram ajīrṇaśramamaithunam ||

27.1२७.१

पदातेर् मार्गगमनं यानेन क्षोभिणापि वा । (२७।१)

padāter mārgagamanaṃ yānena kṣobhiṇāpi vā |

27.2२७.२

श्वासकासातिसारार्शोजठरप्रदरज्वराः ॥ (२७।२)

śvāsakāsātisārārśojaṭharapradarajvarāḥ ||

28.1२८.१

विषूच्यलसकच्छर्दिगर्भविसर्पपाण्डवः । (२८।१)

viṣūcyalasakacchardigarbhavisarpapāṇḍavaḥ |

28.2२८.२

अन्ये च मिथ्योपक्रान्तास् तैर् दोषा वक्षसि स्थिताः ॥ (२८।२)

anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ ||

29.1२९.१

ऊर्ध्वं शोफम् अधो वस्तौ मध्ये कुर्वन्ति मध्यगाः । (२९।१)

ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ |

29.2२९.२

सर्वाङ्गगाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः ॥ (२९।२)

sarvāṅgagāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ ||

30.1३०.१

तत्पूर्वरूपं दवथुः सिरायामो ऽङ्गगौरवम् । (३०।१)

tatpūrvarūpaṃ davathuḥ sirāyāmo 'ṅgagauravam |

30.2३०.२

वाताच्छोफश्चलो रूक्षः खररोमारुणासितः ॥ (३०।२)

vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ ||

31.1३१.१

संकोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान् । (३१।१)

saṃkocaspandaharṣārtitodabhedaprasuptimān |

31.2३१.२

क्षिप्रोत्थानशमः शीघ्रम् उन्नमेत् पीडितस् तनुः ॥ (३१।२)

kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ ||

32.1३२.१

स्निग्धोष्णमर्दनैः शाम्येद् रात्रावल्पो दिवा महान् । (३२।१)

snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān |

32.2३२.२

त्वक् च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते ॥ (३२।२)

tvak ca sarṣapalipteva tasmiṃścimicimāyate ||

33.1३३.१

पीतरक्तासिताभासः पित्ताद् आताम्ररोमकृत् । (३३।१)

pītaraktāsitābhāsaḥ pittād ātāmraromakṛt |

33.2३३.२

शीघ्रानुसारप्रशमो मध्ये प्राग् जायते तनुः ॥ (३३।२)

śīghrānusārapraśamo madhye prāg jāyate tanuḥ ||

34.1३४.१

सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः । (३४।१)

satṛḍdāhajvarasvedadavakledamadabhramaḥ |

34.2३४.२

शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः ॥ (३४।२)

śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ ||

35.1३५.१

कण्डूमान् पाण्डुरोमत्वक् कठिनः शीतलो गुरुः । (३५।१)

kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ |

35.2३५.२

स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्राछर्द्यग्निसादकृत् ॥ (३५।२)

snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt ||

36.1३६.१

आक्रान्तो नोन्नमेत् कृच्छ्रशमजन्मा निशाबलः । (३६।१)

ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ |

36.2३६.२

स्रवेन् नासृक् चिरात् पिच्छां कुशशस्त्रादिविक्षतः ॥ (३६।२)

sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ ||

37.1३७.१

स्पर्शोष्णकाङ्क्षी च कफाद् यथास्वं द्वन्द्वजास् त्रयः । (३७।१)

sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ |

37.2३७.२

संकराद्धेतुलिङ्गानां निचयान् निचयात्मकः ॥ (३७।२)

saṃkarāddhetuliṅgānāṃ nicayān nicayātmakaḥ ||

38.1३८.१

अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः । (३८।१)

abhighātena śastrādicchedabhedakṣatādibhiḥ |

38.2३८.२

हिमानिलोदध्यनिलैर् भल्लातकपिकच्छुजैः ॥ (३८।२)

himānilodadhyanilair bhallātakapikacchujaiḥ ||

39.1३९.१

रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद् विसर्पवान् । (३९।१)

rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān |

39.2३९.२

भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥ (३९।२)

bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ ||

40.1४०.१

विषजः सविषप्राणिपरिसर्पणमूत्रणात् । (४०।१)

viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt |

40.2४०.२

दंष्ट्रादन्तनखापाताद् अविषप्राणिनाम् अपि ॥ (४०।२)

daṃṣṭrādantanakhāpātād aviṣaprāṇinām api ||

41.1४१.१

विण्मूत्रशुक्रोपहतमलवद्वस्त्रसंकरात् । (४१।१)

viṇmūtraśukropahatamalavadvastrasaṃkarāt |

41.2४१.२

विषवृक्षानिलस्पर्शाद् गरयोगावचूर्णनात् ॥ (४१।२)

viṣavṛkṣānilasparśād garayogāvacūrṇanāt ||

42.1४२.१

मृदुश्चलो ऽवलम्बी च शीघ्रो दाहरुजाकरः । (४२।१)

mṛduścalo 'valambī ca śīghro dāharujākaraḥ |

42.2४२.२

नवो ऽनुपद्रवः शोफः साध्यो ऽसाध्यः पुरेरितः ॥ (४२।२)

navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ ||

43.1४३.१

स्याद् विसर्पो ऽभिघातान्तैर् दोषैर् दूष्यैश्च शोफवत् । (४३।१)

syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat |

43.2४३.२

त्र्यधिष्ठानं च तं प्राहुर् बाह्यान्तरुभयाश्रयात् ॥ (४३।२)

tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt ||

44.1४४.१

यथोत्तरं च दुःसाध्यास् तत्र दोषा यथायथम् । (४४।१)

yathottaraṃ ca duḥsādhyās tatra doṣā yathāyatham |

44.2४४.२

प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः ॥ (४४।२)

prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ ||

45.1४५.१

देहे शीघ्रं विसर्पन्ति ते ऽन्तरन्तःस्थिता बहिः । (४५।१)

dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ |

45.2४५.२

बहिःस्था द्वितये द्विस्था विद्यात् तत्रान्तराश्रयम् ॥ (४५।२)

bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam ||

46.1४६.१

मर्मोपतापात् संमोहाद् अयनानां विघट्टनात् । (४६।१)

marmopatāpāt saṃmohād ayanānāṃ vighaṭṭanāt |

46.2४६.२

तृष्णातियोगाद् वेगानां विषमं च प्रवर्तनात् ॥ (४६।२)

tṛṣṇātiyogād vegānāṃ viṣamaṃ ca pravartanāt ||

47.1४७.१

आशु चाग्निबलभ्रंशाद् अतो बाह्यं विपर्ययात् । (४७।१)

āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt |

47.2४७.२

तत्र वातात् परीसर्पो वातज्वरसमव्यथः ॥ (४७।२)

tatra vātāt parīsarpo vātajvarasamavyathaḥ ||

48.1४८.१

शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान् । (४८।१)

śophasphuraṇanistodabhedāyāmārtiharṣavān |

48.2४८.२

पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गो ऽतिलोहितः ॥ (४८।२)

pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ ||

49.1४९.१

कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक् । (४९।१)

kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk |

49.2४९.२

स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः ॥ (४९।२)

svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ ||

50.1५०.१

ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम् । (५०।१)

te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam |

50.2५०.२

वातपित्ताज् ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः ॥ (५०।२)

vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ ||

51.1५१.१

अस्थिभेदाग्निसदनतमकारोचकैर् युतः । (५१।१)

asthibhedāgnisadanatamakārocakair yutaḥ |

51.2५१.२

करोति सर्वम् अङ्गं च दीप्ताङ्गारावकीर्णवत् ॥ (५१।२)

karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat ||

52.1५२.१

यं यं देशं विसर्पश्च विसर्पति भवेत् स सः । (५२।१)

yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ |

52.2५२.२

शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते ॥ (५२।२)

śāntāṅgārāsito nīlo rakto vāśu ca cīyate ||

53.1५३.१

अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद् द्रुतं च सः । (५३।१)

agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ |

53.2५३.२

मर्मानुसारी वीसर्पः स्याद् वातो ऽतिबलस् ततः ॥ (५३।२)

marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ ||

54.1५४.१

व्यथेताङ्गं हरेत् संज्ञां निद्रां च श्वासम् ईरयेत् । (५४।१)

vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet |

54.2५४.२

हिध्मां च स गतो ऽवस्थाम् ईदृशीं लभते न ना ॥ (५४।२)

hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā ||

55.1५५.१

क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु । (५५।१)

kvaciccharmāratigrasto bhūmiśayyāsanādiṣu |

55.2५५.२

चेष्टमानस् ततः क्लिष्टो मनोदेहश्रमोद्भवाम् ॥ (५५।२)

ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām ||

56.1५६.१

दुष्प्रबोधो ऽश्नुते निद्रां सो ऽग्निविसर्प उच्यते । (५६।१)

duṣprabodho 'śnute nidrāṃ so 'gnivisarpa ucyate |

56.2५६.२

कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् ॥ (५६।२)

kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham ||

57.1५७.१

रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम् । (५७।१)

raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam |

57.2५७.२

दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम् ॥ (५७।२)

dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām ||

58.1५८.१

ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् । (५८।१)

granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām |

58.2५८.२

श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः ॥ (५८।२)

śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ ||

59.1५९.१

मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर् युताम् । (५९।१)

mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām |

59.2५९.२

इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥ (५९।२)

ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ ||

60.1६०.१

कफपित्ताज् ज्वरः स्तम्भो निद्रातन्द्राशिरोरुजः । (६०।१)

kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ |

60.2६०.२

अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः ॥ (६०।२)

aṅgāvasādavikṣepapralāpārocakabhramāḥ ||

61.1६१.१

मूर्छाग्निहानिर् भेदो ऽस्थ्नां पिपासेन्द्रियगौरवम् । (६१।१)

mūrchāgnihānir bhedo 'sthnāṃ pipāsendriyagauravam |

61.2६१.२

आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥ (६१।२)

āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati ||

62.1६२.१

प्रायेणामाशये गृह्णन्न् एकदेशं न चातिरुक् । (६२।१)

prāyeṇāmāśaye gṛhṇann ekadeśaṃ na cātiruk |

62.2६२.२

पिटकैर् अवकीर्णो ऽतिपीतलोहितपाण्डुरैः ॥ (६२।२)

piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ ||

63.1६३.१

मेचकाभो ऽसितः स्निग्धो मलिनः शोफवान् गुरुः । (६३।१)

mecakābho 'sitaḥ snigdho malinaḥ śophavān guruḥ |

63.2६३.२

गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नो ऽवदीर्यते ॥ (६३।२)

gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate ||

64.1६४.१

पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः । (६४।१)

paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ |

64.2६४.२

शवगन्धिश्च वीसर्पं कर्दमाख्यम् उशन्ति तम् ॥ (६४।२)

śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam ||

65.1६५.१

सर्वजो लक्षणैः सर्वैः सर्वधात्वतिसर्पणः । (६५।१)

sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ |

65.2६५.२

बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तम् ईरयन् ॥ (६५।२)

bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan ||

66.1६६.१

विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम् । (६६।१)

visarpaṃ mārutaḥ kuryāt kulatthasadṛśaiścitam |

66.2६६.२

स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम् ॥ (६६।२)

sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam ||

67.1६७.१

पृथग् दोषैस् त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः । (६७।१)

pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ |

67.2६७.२

असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः ॥ (६७।२)

asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ ||

68.1६८.१

शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः ॥ (६८।१)

śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 3, 13

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit