अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 3, 9

45 of 120 · 82 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो मूत्राघातनिदानं व्याख्यास्यामः । (१।१)

athāto mūtrāghātanidānaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

एन्त्स्तेहुन्ग् मूत्राघातवस्तिवस्तिशिरोमेढ्रकटीवृषणपायवः । (१।३)

Entstehung mūtrāghātavastivastiśiromeḍhrakaṭīvṛṣaṇapāyavaḥ |

1.4१.४

एकसंबन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः ॥ (१।४)

ekasaṃbandhanāḥ proktā gudāsthivivarāśrayāḥ ||

2.1२.१

अधोमुखो ऽपि वस्तिर् हि मूत्रवाहिसिरामुखैः । (२।१)

adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ |

2.2२.२

पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैरनारतम् ॥ (२।२)

pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam ||

3.1३.१

यैस् तैरेव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम् । (३।१)

yais taireva praviśyainaṃ doṣāḥ kurvanti viṃśatim |

3.2३.२

मूत्राघातान् प्रमेहांश्च कृच्छ्रान् मर्मसमाश्रयान् ॥ (३।२)

mūtrāghātān pramehāṃśca kṛcchrān marmasamāśrayān ||

4.1४.१

वस्तिवङ्क्षणमेढ्रार्तियुक्तो ऽल्पाल्पं मुहुर् मुहुः । (४।१)

vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhur muhuḥ |

4.2४.२

मूत्रयेद् वातजे कृच्छ्रे पैत्ते पीतं सदाहरुक् ॥ (४।२)

mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk ||

5.1५.१

रक्तं वा कफजे वस्तिमेढ्रगौरवशोफवान् । (५।१)

raktaṃ vā kaphaje vastimeḍhragauravaśophavān |

5.2५.२

सपिच्छं सविबन्धं च सर्वैः सर्वात्मकं मलैः ॥ (५।२)

sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ ||

6.1६.१

अश्मरीयदा वायुर् मुखं वस्तेरावृत्य परिशोषयेत् । (६।१)

aśmarīyadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet |

6.2६.२

मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् ॥ (६।२)

mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt ||

7.1७.१

संजायते ऽश्मरी घोरा पित्ताद् गोरिव रोचना । (७।१)

saṃjāyate 'śmarī ghorā pittād goriva rocanā |

7.2७.२

अश्मरी - प्रोद्रोम्श्लेष्माश्रया च सर्वा स्याद् अथास्याः पूर्वलक्षणम् ॥ (७।२)

aśmarī - Prodromśleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam ||

8.1८.१

वस्त्याध्मानं तदासन्नदेशेषु परितो ऽतिरुक् । (८।१)

vastyādhmānaṃ tadāsannadeśeṣu parito 'tiruk |

8.2८.२

मूत्रे च बस्तगन्धत्वं मूत्रकृच्छ्रं ज्वरो ऽरुचिः ॥ (८।२)

mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ ||

9.1९.१

अश्मरी - स्य्म्प्तोमेसामान्यलिङ्गं रुङ् नाभिसेवनीवस्तिमूर्धसु । (९।१)

aśmarī - symptomesāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu |

9.2९.२

विशीर्णधारं मूत्रं स्यात् तया मार्गनिरोधने ॥ (९।२)

viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane ||

10.1१०.१

तद्व्यपायात् सुखं मेहेद् अच्छं गोमेदकोपमम् । (१०।१)

tadvyapāyāt sukhaṃ mehed acchaṃ gomedakopamam |

10.2१०.२

तत्संक्षोभात् क्षते सास्रम् आयासाच्चातिरुग् भवेत् ॥ (१०।२)

tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet ||

11.1११.१

तत्र वाताद् भृशार्त्यार्तो दन्तान् खादति वेपते । (११।१)

tatra vātād bhṛśārtyārto dantān khādati vepate |

11.2११.२

मृद्नाति मेहनं नाभिं पीडयत्यनिशं क्वणन् ॥ (११।२)

mṛdnāti mehanaṃ nābhiṃ pīḍayatyaniśaṃ kvaṇan ||

12.1१२.१

सानिलं मुञ्चति शकृन् मुहुर् मेहति बिन्दुशः । (१२।१)

sānilaṃ muñcati śakṛn muhur mehati binduśaḥ |

12.2१२.२

श्यावा रूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव ॥ (१२।२)

śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva ||

13.1१३.१

पित्तेन दह्यते वस्तिः पच्यमान इवोष्मवान् । (१३।१)

pittena dahyate vastiḥ pacyamāna ivoṣmavān |

13.2१३.२

भल्लातकास्थिसंस्थाना रक्ता पीतासिताश्मरी ॥ (१३।२)

bhallātakāsthisaṃsthānā raktā pītāsitāśmarī ||

14.1१४.१

वस्तिर् निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः । (१४।१)

vastir nistudyata iva śleṣmaṇā śītalo guruḥ |

14.2१४.२

अश्मरी महती श्लक्ष्णा मधुवर्णाथवा सिता ॥ (१४।२)

aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā ||

15.1१५.१

एता भवन्ति बालानां तेषाम् एव च भूयसा । (१५।१)

etā bhavanti bālānāṃ teṣām eva ca bhūyasā |

15.2१५.२

आश्रयोपचयाल्पत्वाद् ग्रहणाहरणे सुखाः ॥ (१५।२)

āśrayopacayālpatvād grahaṇāharaṇe sukhāḥ ||

16.1१६.१

शुक्राश्मरी तु महतां जायते शुक्रधारणात् । (१६।१)

śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt |

16.2१६.२

स्थानाच्च्युतम् अमुक्तं हि मुष्कयोरन्तरे ऽनिलः ॥ (१६।२)

sthānāccyutam amuktaṃ hi muṣkayorantare 'nilaḥ ||

17.1१७.१

शोषयत्युपसंगृह्य शुक्रं तच्छुष्कम् अश्मरी । (१७।१)

śoṣayatyupasaṃgṛhya śukraṃ tacchuṣkam aśmarī |

17.2१७.२

वस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी ॥ (१७।२)

vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī ||

18.1१८.१

तस्याम् उत्पन्नमात्रायां शुक्रम् एति विलीयते । (१८।१)

tasyām utpannamātrāyāṃ śukram eti vilīyate |

18.2१८.२

शर्करापीडिते त्ववकाशे ऽस्मिन्न् अश्मर्येव च शर्करा ॥ (१८।२)

śarkarāpīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā ||

19.1१९.१

अणुशो वायुना भिन्ना सा त्वस्मिन्न् अनुलोमगे । (१९।१)

aṇuśo vāyunā bhinnā sā tvasminn anulomage |

19.2१९.२

निरेति सह मूत्रेण प्रतिलोमे विबध्यते ॥ (१९।२)

nireti saha mūtreṇa pratilome vibadhyate ||

20.1२०.१

मूत्रसंधारिणः कुर्याद् रुद्ध्वा वस्तेर् मुखं मरुत् । (२०।१)

mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut |

20.2२०.२

मूत्रसङ्गं रुजं कण्डूं कदाचिच्च स्वधामतः ॥ (२०।२)

mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca svadhāmataḥ ||

21.1२१.१

प्रच्याव्य वस्तिम् उद्वृत्तं गर्भाभं स्थूलविप्लुतम् । (२१।१)

pracyāvya vastim udvṛttaṃ garbhābhaṃ sthūlaviplutam |

21.2२१.२

करोति तत्र रुग्दाहस्पन्दनोद्वेष्टनानि च ॥ (२१।२)

karoti tatra rugdāhaspandanodveṣṭanāni ca ||

22.1२२.१

बिन्दुशश्च प्रवर्तेत मूत्रं वस्तौ तु पीडिते । (२२।१)

binduśaśca pravarteta mūtraṃ vastau tu pīḍite |

22.2२२.२

धारया द्विविधो ऽप्येष वातवस्तिरिति स्मृतः ॥ (२२।२)

dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ ||

23.1२३.१

दुस्तरो दुस्तरतरो द्वितीयः प्रबलानिलः । (२३।१)

dustaro dustarataro dvitīyaḥ prabalānilaḥ |

23.2२३.२

वाताष्ट्ःईलाशकृन्मार्गस्य वस्तेश्च वायुरन्तरम् आश्रितः ॥ (२३।२)

vātāṣṭḥīlāśakṛnmārgasya vasteśca vāyurantaram āśritaḥ ||

24.1२४.१

अष्ठीलाभं घनं ग्रन्थिं करोत्यचलम् उन्नतम् । (२४।१)

aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalam unnatam |

24.2२४.२

वाताष्ठीलेति साध्मानविण्मूत्रानिलसङ्गकृत् ॥ (२४।२)

vātāṣṭhīleti sādhmānaviṇmūtrānilasaṅgakṛt ||

25.1२५.१

वातकुण्डलिकाविगुणः कुण्डलीभूतो वस्तौ तीव्रव्यथो ऽनिलः । (२५।१)

vātakuṇḍalikāviguṇaḥ kuṇḍalībhūto vastau tīvravyatho 'nilaḥ |

25.2२५.२

आविध्य मूत्रं भ्रमति सस्तम्भोद्वेष्टगौरवः ॥ (२५।२)

āvidhya mūtraṃ bhramati sastambhodveṣṭagauravaḥ ||

26.1२६.१

मूत्रम् अल्पाल्पम् अथवा विमुञ्चति शकृत् सृजन् । (२६।१)

mūtram alpālpam athavā vimuñcati śakṛt sṛjan |

26.2२६.२

वातकुण्डलिकेत्येषा मूत्रं तु विधृतं चिरम् ॥ (२६।२)

vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram ||

27.1२७.१

मूत्रातीतन निरेति विबद्धं वा मूत्रातीतं तद् अल्परुक् । (२७।१)

mūtrātītana nireti vibaddhaṃ vā mūtrātītaṃ tad alparuk |

27.2२७.२

मूत्रजठरविधारणात् प्रतिहतं वातोदावर्तितं यदा ॥ (२७।२)

mūtrajaṭharavidhāraṇāt pratihataṃ vātodāvartitaṃ yadā ||

28.1२८.१

नाभेरधस्ताद् उदरं मूत्रम् आपूरयेत् तदा । (२८।१)

nābheradhastād udaraṃ mūtram āpūrayet tadā |

28.2२८.२

कुर्यात् तीव्ररुग् आध्मानम् अपक्तिं मलसंग्रहम् ॥ (२८।२)

kuryāt tīvrarug ādhmānam apaktiṃ malasaṃgraham ||

29.1२९.१

तन् मूत्रजठरं छिद्रवैगुण्येनानिलेन वा । (२९।१)

tan mūtrajaṭharaṃ chidravaiguṇyenānilena vā |

29.2२९.२

मूत्रोत्सङ्गआक्षिप्तम् अल्पं मूत्रं तद् वस्तौ नाले ऽथवा मणौ ॥ (२९।२)

mūtrotsaṅgaākṣiptam alpaṃ mūtraṃ tad vastau nāle 'thavā maṇau ||

30.1३०.१

स्थित्वा स्रवेच्छनैः पश्चात् सरुजं वाथ नीरुजम् । (३०।१)

sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam |

30.2३०.२

मूत्रोत्सङ्गः स विच्छिन्नतच्छेषगुरुशेफसः ॥ (३०।२)

mūtrotsaṅgaḥ sa vicchinnataccheṣaguruśephasaḥ ||

31.1३१.१

मूत्रग्रन्थिअन्तर् वस्तिमुखे वृत्तः स्थिरो ऽल्पः सहसा भवेत् । (३१।१)

mūtragranthiantar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet |

31.2३१.२

अश्मरीतुल्यरुग् ग्रन्थिर् मूत्रग्रन्थिः स उच्यते ॥ (३१।२)

aśmarītulyarug granthir mūtragranthiḥ sa ucyate ||

32.1३२.१

मूत्रशुक्रमूत्रितस्य स्त्रियं यातो वायुना शुक्रम् उद्धतम् । (३२।१)

mūtraśukramūtritasya striyaṃ yāto vāyunā śukram uddhatam |

32.2३२.२

स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद् वा प्रवर्तते ॥ (३२।२)

sthānāccyutaṃ mūtrayataḥ prāk paścād vā pravartate ||

33.1३३.१

भस्मोदकप्रतीकाशं मूत्रशुक्रं तद् उच्यते । (३३।१)

bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate |

33.2३३.२

विड्विघातरूक्षदुर्बलयोर् वाताद् उदावर्तं शकृद् यदा ॥ (३३।२)

viḍvighātarūkṣadurbalayor vātād udāvartaṃ śakṛd yadā ||

34.1३४.१

मूत्रस्रोतो ऽनुपर्येति संसृष्टं शकृता तदा । (३४।१)

mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā |

34.2३४.२

मूत्रं विट्तुल्यगन्धं स्याद् विड्विघातं तम् आदिशेत् ॥ (३४।२)

mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet ||

35.1३५.१

उष्णवातपित्तं व्यायामतीक्ष्णोष्णभोजनाध्वातपादिभिः । (३५।१)

uṣṇavātapittaṃ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ |

35.2३५.२

प्रवृद्धं वायुना क्षिप्तं वस्त्युपस्थार्तिदाहवत् ॥ (३५।२)

pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat ||

36.1३६.१

मूत्रं प्रवर्तयेत् पीतं सरक्तं रक्तम् एव वा । (३६।१)

mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā |

36.2३६.२

उष्णं पुनः पुनः कृच्छ्राद् उष्णवातं वदन्ति तम् ॥ (३६।२)

uṣṇaṃ punaḥ punaḥ kṛcchrād uṣṇavātaṃ vadanti tam ||

37.1३७.१

मूत्रक्षयरूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ । (३७।१)

mūtrakṣayarūkṣasya klāntadehasya vastisthau pittamārutau |

37.2३७.२

मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ॥ (३७।२)

mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam ||

38.1३८.१

मूत्रसादपित्तं कफो द्वावपि वा संहन्येते ऽनिलेन चेत् । (३८।१)

mūtrasādapittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet |

38.2३८.२

कृच्छ्रान् मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥ (३८।२)

kṛcchrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet ||

39.1३९.१

सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत् । (३९।१)

sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat |

39.2३९.२

शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् ॥ (३९।२)

śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti tam ||

40.1४०.१

इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः । (४०।१)

iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ |

40.2४०.२

निदानलक्षणैरूर्ध्वं वक्ष्यन्ते ऽतिप्रवृत्तिजाः ॥ (४०।२)

nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 3, 9

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit