अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 4, 11
Select a line for its word-by-word analysis.
कृच्छ्रे वातघ्नतैलाक्तम् अधो नाभेः समीरजे । (१।३)
kṛcchre vātaghnatailāktam adho nābheḥ samīraje |
सुस्निग्धैः स्वेदयेद् अङ्गं पिण्डसेकावगाहनैः ॥ (१।४)
susnigdhaiḥ svedayed aṅgaṃ piṇḍasekāvagāhanaiḥ ||
सह तैलफलैर् युञ्ज्यात् साम्लानि स्नेहवन्ति च ॥ (४।२)
saha tailaphalair yuñjyāt sāmlāni snehavanti ca ||
सौवर्चलाढ्यां मदिरां पिबेन् मूत्ररुजापहाम् । (५।१)
sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām |
तृणाख्यं पञ्चमूलं च पाक्यं समधुशर्करम् ॥ (६।२)
tṛṇākhyaṃ pañcamūlaṃ ca pākyaṃ samadhuśarkaram ||
द्राक्षाम्भोभिः पिबन् सर्वान् मूत्राघातान् अपोहति ॥ (७।२)
drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati ||
एर्वारुबीजयष्ट्याह्वदार्वीर् वा तण्डुलाम्बुना । (८।१)
ervārubījayaṣṭyāhvadārvīr vā taṇḍulāmbunā |
तोयेन कल्कं द्राक्षायाः पिबेत् पर्युषितेन वा ॥ (८।२)
toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā ||
पिबेन् मद्येन सूक्ष्मैलां धात्रीफलरसेन वा । (१०।१)
piben madyena sūkṣmailāṃ dhātrīphalarasena vā |
सारसास्थिश्वदंष्ट्रैलाव्योषं वा मधुमूत्रवत् ॥ (१०।२)
sārasāsthiśvadaṃṣṭrailāvyoṣaṃ vā madhumūtravat ||
स्वरसं कण्टकार्या वा पाययेन् माक्षिकान्वितम् । (११।१)
svarasaṃ kaṇṭakāryā vā pāyayen mākṣikānvitam |
शितिवारकबीजं वा तक्रेण श्लक्ष्णचूर्णितम् ॥ (११।२)
śitivārakabījaṃ vā takreṇa ślakṣṇacūrṇitam ||
केम्बुकैलाकरञ्जं च पाक्यं समधु साधितम् ॥ (१२।२)
kembukailākarañjaṃ ca pākyaṃ samadhu sādhitam ||
तैर् वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना । (१३।१)
tair vā peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā |
सतैलं पाटलाक्षारं सप्तकृत्वो ऽथवा स्रुतम् ॥ (१३।२)
satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam ||
पाटलीयावशूकाभ्यां पारिभद्रात् तिलाद् अपि । (१४।१)
pāṭalīyāvaśūkābhyāṃ pāribhadrāt tilād api |
पिबेद् गुडोपदंशान् वा लिह्याद् एतान् पृथक् पृथक् । (१५।१)
pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak |
संनिपातात्मके सर्वं यथावस्थम् इदं हितम् ॥ (१५।२)
saṃnipātātmake sarvaṃ yathāvastham idaṃ hitam ||
तरुणो भेषजैः साध्यः प्रवृद्धश्छेदम् अर्हति । (१७।१)
taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaśchedam arhati |
तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ॥ (१७।२)
tasya pūrveṣu rūpeṣu snehādikrama iṣyate ||
वृक्षादनी शाकफलं व्याघ्र्यौ गुण्ठस् त्रिकण्टकः । (१९।१)
vṛkṣādanī śākaphalaṃ vyāghryau guṇṭhas trikaṇṭakaḥ |
यवाः कुलत्थाः कोलानि वरुणः कतकात् फलम् ॥ (१९।२)
yavāḥ kulatthāḥ kolāni varuṇaḥ katakāt phalam ||
ऊषकादिप्रतीवापम् एषां क्वाथे शृतं घृतम् । (२०।१)
ūṣakādipratīvāpam eṣāṃ kvāthe śṛtaṃ ghṛtam |
भिनत्ति वातसम्भूतां तत् पीतं शीघ्रम् अश्मरीम् ॥ (२०।२)
bhinatti vātasambhūtāṃ tat pītaṃ śīghram aśmarīm ||
गन्धर्वहस्तबृहतीव्याघ्रीगोक्षुरकेक्षुरात् । (२१।१)
gandharvahastabṛhatīvyāghrīgokṣurakekṣurāt |
मूलकल्कं पिबेद् दध्ना मधुरेणाश्मभेदनम् ॥ (२१।२)
mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam ||
कुशः काशः शरो गुण्ठ इत्कटो मोरटो ऽश्मभित् । (२२।१)
kuśaḥ kāśaḥ śaro guṇṭha itkaṭo moraṭo 'śmabhit |
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः ॥ (२२।२)
darbho vidārī vārāhī śālimūlaṃ trikaṇṭakaḥ ||
पुनर्नवे शिरीषश्च तेषां क्वाथे पचेद् घृतम् ॥ (२३।२)
punarnave śirīṣaśca teṣāṃ kvāthe paced ghṛtam ||
गुग्गुलुर् मरिचं कुष्ठं चित्रकः ससुराह्वयः ॥ (२५।२)
guggulur maricaṃ kuṣṭhaṃ citrakaḥ sasurāhvayaḥ ||
भिनत्ति कफजाम् आशु साधितं घृतम् अश्मरीम् ॥ (२६।२)
bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm ||
क्षारक्षीरयवाग्वादिद्रव्यैः स्वैः स्वैश्च कल्पयेत् । (२७।१)
kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet |
क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालपत्त्रिका ॥ (२८।२)
krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālapattrikā ||
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा ॥ (२९।२)
pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā ||
नृत्यकुण्डकबीजानां चूर्णं माक्षिकसंयुतम् । (३०।१)
nṛtyakuṇḍakabījānāṃ cūrṇaṃ mākṣikasaṃyutam |
क्वाथश्च शिग्रुमूलोत्थः कदुष्णो ऽश्मरीपातनः । (३१।१)
kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ |
क्षारः पेयो ऽविमूत्रेण शर्करास्वश्मरीषु च । (३२।१)
kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca |
तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः । (३३।१)
tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ |
हरीतक्यस्थिसिद्धं वा साधितं वा पुनर्नवैः ॥ (३३।२)
harītakyasthisiddhaṃ vā sādhitaṃ vā punarnavaiḥ ||
क्षीरान्नभुग् बर्हिशिखामूलं वा तण्डुलाम्बुना । (३४।१)
kṣīrānnabhug barhiśikhāmūlaṃ vā taṇḍulāmbunā |
मूत्राघातेषु विभजेद् अतः शेषेष्वपि क्रियाम् ॥ (३४।२)
mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām ||
तोयं पयो वा सर्पिर् वा सर्वमूत्रविकारजित् ॥ (३५।२)
toyaṃ payo vā sarpir vā sarvamūtravikārajit ||
देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम् । (३६।१)
devadāruṃ ghanaṃ mūrvāṃ yaṣṭīmadhu harītakīm |
मूत्राघातेषु सर्वेषु सुराक्षीरजलैः पिबेत् ॥ (३६।२)
mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet ||
सुखाम्भसा वा त्रिफलां पिष्टां सैन्धवसंयुताम् ॥ (३७।२)
sukhāmbhasā vā triphalāṃ piṣṭāṃ saindhavasaṃyutām ||
व्याघ्रीगोक्षुरकक्वाथे यवागूं वा सफाणिताम् । (३८।१)
vyāghrīgokṣurakakvāthe yavāgūṃ vā saphāṇitām |
क्वाथे वीरतरादेर् वा ताम्रचूडरसे ऽपि वा ॥ (३८।२)
kvāthe vīratarāder vā tāmracūḍarase 'pi vā ||
मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत् ॥ (३९।२)
madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet ||
शीघ्रवेगेन संक्षोभात् तथास्य च्यवते ऽश्मरी । (४०।१)
śīghravegena saṃkṣobhāt tathāsya cyavate 'śmarī |
रेकार्थं तैल्वकं सर्पिर् वस्तिकर्म च शीलयेत् । (४१।१)
rekārthaṃ tailvakaṃ sarpir vastikarma ca śīlayet |
विशेषाद् उत्तरान् वस्तीञ्छुक्राश्मर्यां तु शोधिते ॥ (४१।२)
viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite ||
तैर् मूत्रमार्गे बलवान् शुक्राशयविशुद्धये । (४२।१)
tair mūtramārge balavān śukrāśayaviśuddhaye |
पुमान् सुतृप्तो वृष्याणां मांसानां कुक्कुटस्य च ॥ (४२।२)
pumān sutṛpto vṛṣyāṇāṃ māṃsānāṃ kukkuṭasya ca ||
सिद्धैरुपक्रमैरेभिर् न चेच्छान्तिस् तदा भिषक् ॥ (४३।२)
siddhairupakramairebhir na cecchāntis tadā bhiṣak ||
इति राजानम् आपृच्छ्य शस्त्रं साध्ववचारयेत् । (४४।१)
iti rājānam āpṛcchya śastraṃ sādhvavacārayet |
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥ (४४।२)
akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet ||
निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः । (४५।१)
niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ |
अथातुरम् उपस्निग्धशुद्धम् ईषच्च कर्शितम् ॥ (४५।२)
athāturam upasnigdhaśuddham īṣacca karśitam ||
अभ्यक्तस्विन्नवपुषम् अभुक्तं कृतमङ्गलम् । (४६।१)
abhyaktasvinnavapuṣam abhuktaṃ kṛtamaṅgalam |
आजानुफलकस्थस्य नरस्याङ्के व्यपाश्रितम् ॥ (४६।२)
ājānuphalakasthasya narasyāṅke vyapāśritam ||
पूर्वेण कायेनोत्तानं निषण्णं वस्त्रचुम्भले । (४७।१)
pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastracumbhale |
ततो ऽस्याकुञ्चिते जानुकूर्परे वाससा दृढम् ॥ (४७।२)
tato 'syākuñcite jānukūrpare vāsasā dṛḍham ||
नाभेः समन्ताद् अभ्यज्याद् अधस् तस्याश्च वामतः ॥ (४८।२)
nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ ||
मृदित्वा मुष्टिनाक्रामेद् यावद् अश्मर्यधोगता । (४९।१)
mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā |
अदक्षिणे गुदे ऽङ्गुल्यौ प्रणिधायानुसेवनि । (५०।१)
adakṣiṇe gude 'ṅgulyau praṇidhāyānusevani |
आसाद्य बलयत्नाभ्याम् अश्मरीं गुदमेढ्रयोः ॥ (५०।२)
āsādya balayatnābhyām aśmarīṃ gudameḍhrayoḥ ||
कृत्वान्तरे तथा वस्तिं निर्वलीकम् अनायतम् । (५१।१)
kṛtvāntare tathā vastiṃ nirvalīkam anāyatam |
उत्पीडयेद् अङ्गुलीभ्यां यावद् ग्रन्थिरिवोन्नतम् ॥ (५१।२)
utpīḍayed aṅgulībhyāṃ yāvad granthirivonnatam ||
शल्यं स्यात् सेवनीं मुक्त्वा यवमात्रेण पाटयेत् । (५२।१)
śalyaṃ syāt sevanīṃ muktvā yavamātreṇa pāṭayet |
समग्रं सर्पवक्त्रेण स्त्रीणां वस्तिस् तु पार्श्वगः । (५३।१)
samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ |
गर्भाशयाश्रयस् तासां शस्त्रम् उत्सङ्गवत् ततः ॥ (५३।२)
garbhāśayāśrayas tāsāṃ śastram utsaṅgavat tataḥ ||
न्यसेद् अतो ऽन्यथा ह्यासां मूत्रस्रावी व्रणो भवेत् । (५४।१)
nyased ato 'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet |
वस्तिभेदो ऽश्मरीहेतुः सिद्धिं याति न तु द्विधा । (५५।१)
vastibhedo 'śmarīhetuḥ siddhiṃ yāti na tu dvidhā |
विशल्यम् उष्णपानीयद्रोण्यां तम् अवगाहयेत् ॥ (५५।२)
viśalyam uṣṇapānīyadroṇyāṃ tam avagāhayet ||
तथा न पूर्यते ऽस्रेण वस्तिः पूर्णे तु पीडयेत् । (५६।१)
tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet |
मेढ्रान्तः क्षीरिवृक्षाम्बु मूत्रसंशुद्धये ततः ॥ (५६।२)
meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṃśuddhaye tataḥ ||
कुर्याद् गुडस्य सौहित्यं मध्वाज्याक्तव्रणः पिबेत् । (५७।१)
kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet |
द्वौ कालौ सघृतां कोष्णां यवागूं मूत्रशोधनैः ॥ (५७।२)
dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ ||
त्र्यहं दशाहं पयसा गुडाढ्येनाल्पम् ओदनम् । (५८।१)
tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam |
भुञ्जीतोर्ध्वं फलाम्लैश्च रसैर् जाङ्गलचारिणाम् ॥ (५८।२)
bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām ||
क्षीरिवृक्षकषायेण व्रणं प्रक्षाल्य लेपयेत् । (५९।१)
kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet |
प्रपौण्डरीकमञ्जिष्ठायष्ट्याह्वनयनौषधैः ॥ (५९।२)
prapauṇḍarīkamañjiṣṭhāyaṣṭyāhvanayanauṣadhaiḥ ||
व्रणाभ्यङ्गे पचेत् तैलम् एभिरेव निशान्वितैः । (६०।१)
vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ |
दशाहं स्वेदयेच्चैनं स्वमार्गं सप्तरात्रतः ॥ (६०।२)
daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ ||
मूत्रे त्वगच्छति दहेद् अश्मरीव्रणम् अग्निना । (६१।१)
mūtre tvagacchati dahed aśmarīvraṇam agninā |
स्वमार्गप्रतिपत्तौ तु स्वादुप्रायैरुपाचरेत् ॥ (६१।२)
svamārgapratipattau tu svāduprāyairupācaret ||
तं वस्तिभिर् न चारोहेद् वर्षं रूढव्रणो ऽपि सः । (६२।१)
taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ |
नगनागाश्ववृक्षस्त्रीरथान् नाप्सु प्लवेत च ॥ (६२।२)
naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca ||
मूत्रप्रसेकं योनिं च शस्त्रेणाष्टौ विवर्जयेत् ॥ (६३।२)
mūtraprasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet ||
Data courtesy of The Digital Corpus of Sanskrit.