अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 2
Select a line for its word-by-word analysis.
औड़्स्तेहेन्ब्राह्मे मुहूर्त उत्तिष्ठेत् स्वस्थो रक्षार्थम् आयुषः । (१।३)
Aufstehenbrāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ |
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस् ततः ॥ (१।४)
śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ ||
ज़्¦ह्नेपुत्ज़ेन्प्रातर् भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम् ॥ (२।२)
Z¦hneputzenprātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam ||
कनीन्यग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम् । (३।१)
kanīnyagrasamasthaulyaṃ praguṇaṃ dvādaśāṅgulam |
भक्षयेद् दन्तपवनं दन्तमांसान्य् अबाधयन् ॥ (३।२)
bhakṣayed dantapavanaṃ dantamāṃsāny abādhayan ||
सल्बेन् देर् औगेन्सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णोस् ततो भजेत् । (५।१)
salben der Augensauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet |
चक्षुस् तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम् ॥ (५।२)
cakṣus tejomayaṃ tasya viśeṣācchleṣmato bhayam ||
योजयेत् सप्तरात्रे ऽस्मात् स्रावणार्थं रसाञ्जनम् । (६।१)
yojayet saptarātre 'smāt srāvaṇārthaṃ rasāñjanam |
बेतेल्ततो नावनगण्डूषधूमताम्बूलभाग् भवेत् ॥ (६।२)
Beteltato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet ||
ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् । (७।१)
tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām |
दृष्टिप्रसादपुष्ट्यायुःस्वप्नसुत्वक्त्वदार्ढ्यकृत् ॥ (८।२)
dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt ||
वर्ज्यो ऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः ॥ (९।२)
varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ ||
लाघवं कर्मसामर्थ्यं दीप्तो ऽग्निर् मेदसः क्षयः । (१०।१)
lāghavaṃ karmasāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ |
वातपित्तामयी बालो वृद्धो ऽजीर्णश् च तं त्यजेत् । (११।१)
vātapittāmayī bālo vṛddho 'jīrṇaś ca taṃ tyajet |
अर्धशक्त्या निषेव्यस् तु बलिभिः स्निग्धभोजिभिः ॥ (११।२)
ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ ||
तं कृत्वानुसुखं देहं मर्दयेच् च समन्ततः ॥ (१२।२)
taṃ kṛtvānusukhaṃ dehaṃ mardayec ca samantataḥ ||
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः । (१३।१)
tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ |
अतिव्यायामतः कासो ज्वरश् छर्दिश् च जायते ॥ (१३।२)
ativyāyāmataḥ kāso jvaraś chardiś ca jāyate ||
व्यायामजागराध्वस्त्रीहास्यभाष्यादिसाहसम् । (१४।१)
vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam |
गजं सिंह इवाकर्षन् भजन्न् अति विनश्यति ॥ (१४।२)
gajaṃ siṃha ivākarṣan bhajann ati vinaśyati ||
स्थिरीकरणम् अङ्गानां त्वक्प्रसादकरं परम् ॥ (१५।२)
sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ param ||
स्नानदीपनं वृष्यम् आयुष्यं स्नानम् ऊर्जाबलप्रदम् । (१६।१)
snānadīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam |
तेनैव तूत्तमाङ्गस्य बलहृत् केशचक्षुषाम् ॥ (१७।२)
tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām ||
जीर्णे हितं मितं चाद्यान् न वेगान् ईरयेद् बलात् । (१९।१)
jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt |
न वेगितो ऽन्यकार्यः स्यान् नाजित्वा साध्यम् आमयम् ॥ (१९।२)
na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam ||
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः । (२०।१)
sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ |
सुखं च न विना धर्मात् तस्माद् धर्मपरो भवेत् ॥ (२०।२)
sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet ||
१० स्छ्लेछ्ते हन्द्लुन्गेन्हिंसास्तेयान् यथाकामं पैशुन्यं परुषानृते ॥ (२१।२)
10 schlechte Handlungenhiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte ||
संभिन्नालापं व्यापादम् अभिध्यां दृग्विपर्ययम् । (२२।१)
saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛgviparyayam |
पापं कर्मेति दशधा कायवाङ्मानसैस् त्यजेत् ॥ (२२।२)
pāpaṃ karmeti daśadhā kāyavāṅmānasais tyajet ||
अवृत्तिव्याधिशोकार्तान् अनुवर्तेत शक्तितः । (२३।१)
avṛttivyādhiśokārtān anuvarteta śaktitaḥ |
विमुखान् नार्थिनः कुर्यान् नावमन्येत नाक्षिपेत् ॥ (२४।२)
vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet ||
संपद्विपत्स्व् एकमना हेतावीर्ष्येत् फले न तु ॥ (२५।२)
saṃpadvipatsv ekamanā hetāvīrṣyet phale na tu ||
काले हितं मितं ब्रूयाद् अविसंवादि पेशलम् । (२६।१)
kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam |
नैकः सुखी न सर्वत्र विश्रब्धो न च शङ्कितः । (२७।१)
naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ |
न कंचिद् आत्मनः शत्रुं नात्मानं कस्यचिद् रिपुम् ॥ (२७।२)
na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum ||
प्रकाशयेन् नापमानं न च निःस्नेहतां प्रभोः । (२८।१)
prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ |
न पीडयेद् इन्द्रियाणि न चैतान्य् अतिलालयेत् ॥ (२९।२)
na pīḍayed indriyāṇi na caitāny atilālayet ||
त्रिवर्गशून्यं नारम्भं भजेत् तं चाविरोधयन् । (३०।१)
trivargaśūnyaṃ nārambhaṃ bhajet taṃ cāvirodhayan |
अनुयायात् प्रतिपदं सर्वधर्मेषु मध्यमाम् ॥ (३०।२)
anuyāyāt pratipadaṃ sarvadharmeṣu madhyamām ||
स्नानशीलः सुसुरभिः सुवेषो ऽनुल्बणोज्ज्वलः ॥ (३१।२)
snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ ||
निशि चात्ययिके कार्ये दण्डी मौली सहायवान् । (३३।१)
niśi cātyayike kārye daṇḍī maulī sahāyavān |
चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन् ॥ (३३।२)
caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn ||
नदीं तरेन् न बाहुभ्यां नाग्निस्कन्धम् अभिव्रजेत् ॥ (३४।२)
nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet ||
संदिग्धनावं वृक्षं च नारोहेद् दुष्टयानवत् । (३५।१)
saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat |
नासंवृतमुखः कुर्यात् क्षुतिहास्यविजृम्भणम् ॥ (३५।२)
nāsaṃvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam ||
नासिकां न विकुष्णीयान् नाकस्माद् विलिखेद् भुवम् । (३६।१)
nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam |
नाङ्गैश् चेष्टेत विगुणं नासीतोत्कटकश् चिरम् ॥ (३६।२)
nāṅgaiś ceṣṭeta viguṇaṃ nāsītotkaṭakaś ciram ||
देहवाक्चेतसां चेष्टाः प्राक् श्रमाद् विनिवर्तयेत् । (३७।१)
dehavākcetasāṃ ceṣṭāḥ prāk śramād vinivartayet |
नोर्ध्वजानुश् चिरं तिष्ठेन् नक्तं सेवेत न द्रुमम् ॥ (३७।२)
nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam ||
सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत् । (३९।१)
sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet |
नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ॥ (३९।२)
nekṣeta pratataṃ sūkṣmaṃ dīptāmedhyāpriyāṇi ca ||
कूलच्छायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः ॥ (४१।२)
kūlacchāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ ||
संध्यास्व् अभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम् ॥ (४२।२)
saṃdhyāsv abhyavahārastrīsvapnādhyayanacintanam ||
गात्रवक्त्रनखैर् वाद्यं हस्तकेशावधूननम् ॥ (४३।२)
gātravaktranakhair vādyaṃ hastakeśāvadhūnanam ||
तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम् । (४४।१)
toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam |
मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥ (४४।२)
madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet ||
अनुकुर्यात् तम् एवातो लौकिके ऽर्थे परीक्षकः ॥ (४५।२)
anukuryāt tam evāto laukike 'rthe parīkṣakaḥ ||
स्वार्थबुद्धिः परार्थेषु पर्याप्तम् इति सद्व्रतम् ॥ (४६।२)
svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam ||
नक्तन्दिनानि मे यान्ति कथंभूतस्य संप्रति । (४७।१)
naktandināni me yānti kathaṃbhūtasya saṃprati |
दुःखभाङ् न भवत्य् एवं नित्यं संनिहितस्मृतिः ॥ (४७।२)
duḥkhabhāṅ na bhavaty evaṃ nityaṃ saṃnihitasmṛtiḥ ||
एवं कृत्स्नदिनं नीत्वा रात्रौ यामे गृहे गते । (४८।१)
evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate |
देवान् ऋषीन् गुरून् स्मृत्वा ततः शयनम् आचरेत् ॥ (४८।२)
devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret ||
इत्य् आचारः समासेन यं प्राप्नोति समाचरन् । (४९।१)
ity ācāraḥ samāsena yaṃ prāpnoti samācaran |
आयुर् आरोग्यम् ऐश्वर्यं यशो लोकांश् च शाश्वतान् ॥ (४९।२)
āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān ||
Data courtesy of The Digital Corpus of Sanskrit.