अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 4, 7

59 of 120 · 234 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो मदात्ययादिचिकित्सितं व्याख्यास्यामः । (१।१)

athāto madātyayādicikitsitaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

यं दोषम् अधिकं पश्येत् तस्यादौ प्रतिकारयेत् । (१।३)

yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet |

1.4१.४

कफस्थानानुपूर्व्या च तुल्यदोषे मदात्यये ॥ (१।४)

kaphasthānānupūrvyā ca tulyadoṣe madātyaye ||

2.1२.१

पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः । (२।१)

pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ |

2.2२.२

हीनमिथ्यातिपीतेन यो व्याधिरुपजायते ॥ (२।२)

hīnamithyātipītena yo vyādhirupajāyate ||

3.1३.१

समपीतेन तेनैव स मद्येनोपशाम्यति । (३।१)

samapītena tenaiva sa madyenopaśāmyati |

3.2३.२

मद्यस्य विषसादृश्याद् विषं तूत्कर्षवृत्तिभिः ॥ (३।२)

madyasya viṣasādṛśyād viṣaṃ tūtkarṣavṛttibhiḥ ||

4.1४.१

तीक्ष्णादिभिर् गुणैर् योगाद् विषान्तरम् अपेक्षते । (४।१)

tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate |

4.2४.२

तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना ॥ (४।२)

tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā ||

5.1५.१

मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः । (५।१)

madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ |

5.2५.२

यान् कुर्यान् मदतृण्मोहज्वरान्तर्दाहविभ्रमान् ॥ (५।२)

yān kuryān madatṛṇmohajvarāntardāhavibhramān ||

6.1६.१

मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः । (६।१)

madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ |

6.2६.२

सुतीव्रा वेदना याश्च शिरस्यस्थिषु संधिषु ॥ (६।२)

sutīvrā vedanā yāśca śirasyasthiṣu saṃdhiṣu ||

7.1७.१

जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति । (७।१)

jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati |

7.2७.२

यौगिकं विधिवद् युक्तं मद्यम् एव निहन्ति तान् ॥ (७।२)

yaugikaṃ vidhivad yuktaṃ madyam eva nihanti tān ||

8.1८.१

क्षारो हि याति माधुर्यं शीघ्रम् अम्लोपसंहितः । (८।१)

kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ |

8.2८.२

मद्यम् अम्लेषु च श्रेष्ठं दोषविष्यन्दनाद् अलम् ॥ (८।२)

madyam amleṣu ca śreṣṭhaṃ doṣaviṣyandanād alam ||

9.1९.१

तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर् दीपनाद्यैस् तथा गुणैः । (९।१)

tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ |

9.2९.२

सात्म्यत्वाच्च तद् एवास्य धातुसाम्यकरं परम् ॥ (९।२)

sātmyatvācca tad evāsya dhātusāmyakaraṃ param ||

10.1१०.१

सप्ताहम् अष्टरात्रं वा कुर्यात् पानात्ययौषधम् । (१०।१)

saptāham aṣṭarātraṃ vā kuryāt pānātyayauṣadham |

10.2१०.२

जीर्यत्येतावता पानं कालेन विपथाश्रितम् ॥ (१०।२)

jīryatyetāvatā pānaṃ kālena vipathāśritam ||

11.1११.१

परं ततो ऽनुबध्नाति यो रोगस् तस्य भेषजम् । (११।१)

paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam |

11.2११.२

यथायथं प्रयुञ्जीत कृतपानात्ययौषधः ॥ (११।२)

yathāyathaṃ prayuñjīta kṛtapānātyayauṣadhaḥ ||

12.1१२.१

तत्र वातोल्बणे मद्यं दद्यात् पिष्टकृतं युतम् । (१२।१)

tatra vātolbaṇe madyaṃ dadyāt piṣṭakṛtaṃ yutam |

12.2१२.२

बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः ॥ (१२।२)

bījapūrakavṛkṣāmlakoladāḍimadīpyakaiḥ ||

13.1१३.१

यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः । (१३।१)

yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ |

13.2१३.२

शूल्यमांसैर् हरीतकैः स्नेहवद्भिश्च सक्तुभिः ॥ (१३।२)

śūlyamāṃsair harītakaiḥ snehavadbhiśca saktubhiḥ ||

14.1१४.१

उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः । (१४।१)

uṣṇasnigdhāmlalavaṇā medyamāṃsarasā hitāḥ |

14.2१४.२

आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः ॥ (१४।२)

āmrāmrātakapeśībhiḥ saṃskṛtā rāgaṣāḍavāḥ ||

15.1१५.१

गोधूममाषविकृतिर् मृदुश्चित्रा मुखप्रिया । (१५।१)

godhūmamāṣavikṛtir mṛduścitrā mukhapriyā |

15.2१५.२

आर्द्रिकार्द्रककुल्माषशुक्तमांसादिगर्भिणी ॥ (१५।२)

ārdrikārdrakakulmāṣaśuktamāṃsādigarbhiṇī ||

16.1१६.१

सुरभिर् लवणा शीता निर्गदा वाच्छवारुणी । (१६।१)

surabhir lavaṇā śītā nirgadā vācchavāruṇī |

16.2१६.२

स्वरसो दाडिमात् क्वाथः पञ्चमूलात् कनीयसः ॥ (१६।२)

svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ ||

17.1१७.१

शुण्ठीधान्यात् तथा मस्तु शुक्ताम्भोऽच्छाम्लकाञ्जिकम् । (१७।१)

śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam |

17.2१७.२

अभ्यङ्गोद्वर्तनस्नानम् उष्णं प्रावरणं घनम् ॥ (१७।२)

abhyaṅgodvartanasnānam uṣṇaṃ prāvaraṇaṃ ghanam ||

18.1१८.१

घनश्चागुरुजो धूपः पङ्कश्चागुरुकुङ्कुमः । (१८।१)

ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ |

18.2१८.२

कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः ॥ (१८।२)

kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ ||

19.1१९.१

हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च । (१९।१)

harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca |

19.2१९.२

पित्तोल्बणे बहुजलं शार्करं मधु वा युतम् ॥ (१९।२)

pittolbaṇe bahujalaṃ śārkaraṃ madhu vā yutam ||

20.1२०.१

रसैर् दाडिमखर्जूरभव्यद्राक्षापरूषजैः । (२०।१)

rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ |

20.2२०.२

सुशीतं ससितासक्तु योज्यं तादृक् च पानकम् ॥ (२०।२)

suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam ||

21.1२१.१

स्वादुवर्गकषायैर् वा युक्तं मद्यं समाक्षिकम् । (२१।१)

svāduvargakaṣāyair vā yuktaṃ madyaṃ samākṣikam |

21.2२१.२

शालिषष्टिकम् अश्नीयाच्छशाजैणकपिञ्जलैः ॥ (२१।२)

śāliṣaṣṭikam aśnīyācchaśājaiṇakapiñjalaiḥ ||

22.1२२.१

सतीनमुद्गामलकपटोलीदाडिमै रसैः । (२२।१)

satīnamudgāmalakapaṭolīdāḍimai rasaiḥ |

22.2२२.२

कफपित्तं समुत्क्लिष्टम् उल्लिखेत् तृड्विदाहवान् ॥ (२२।२)

kaphapittaṃ samutkliṣṭam ullikhet tṛḍvidāhavān ||

23.1२३.१

पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम् । (२३।१)

pītvāmbu śītaṃ madyaṃ vā bhūrīkṣurasasaṃyutam |

23.2२३.२

द्राक्षारसं वा संसर्गी तर्पणादिः परं हितः ॥ (२३।२)

drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ ||

24.1२४.१

तथाग्निर् दीप्यते तस्य दोषशेषान्नपाचनः । (२४।१)

tathāgnir dīpyate tasya doṣaśeṣānnapācanaḥ |

24.2२४.२

कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च ॥ (२४।२)

kāse saraktaniṣṭhīve pārśvastanarujāsu ca ||

25.1२५.१

तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि । (२५।१)

tṛṣṇāyāṃ savidāhāyāṃ sotkleśe hṛdayorasi |

25.2२५.२

गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम् ॥ (२५।२)

guḍūcībhadramustānāṃ paṭolasyāthavā rasam ||

26.1२६.१

सशृङ्गवेरं युञ्जीत तित्तिरिप्रतिभोजनम् । (२६।१)

saśṛṅgaveraṃ yuñjīta tittiripratibhojanam |

26.2२६.२

तृष्यते चाति बलवद् वातपित्ते समुद्धते ॥ (२६।२)

tṛṣyate cāti balavad vātapitte samuddhate ||

27.1२७.१

दद्याद् द्राक्षारसं पानं शीतं दोषानुलोमनम् । (२७।१)

dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam |

27.2२७.२

जीर्णे ऽद्यान्मधुराम्लेन छागमांसरसेन च ॥ (२७।२)

jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca ||

28.1२८.१

तृष्यल्पशः पिबेन् मद्यं मदं रक्षन् बहूदकम् । (२८।१)

tṛṣyalpaśaḥ piben madyaṃ madaṃ rakṣan bahūdakam |

28.2२८.२

मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम् ॥ (२८।२)

mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam ||

29.1२९.१

पाटल्युत्पलकन्दैर् वा स्वभावाद् एव वा हिमम् । (२९।१)

pāṭalyutpalakandair vā svabhāvād eva vā himam |

29.2२९.२

मद्यातिपानाद् अब्धातौ क्षीणे तेजसि चोद्धते ॥ (२९।२)

madyātipānād abdhātau kṣīṇe tejasi coddhate ||

30.1३०.१

यः शुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते । (३०।१)

yaḥ śuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate |

30.2३०.२

पाययेत् कामतो ऽम्भस् तं निशीथपवनाहतम् ॥ (३०।२)

pāyayet kāmato 'mbhas taṃ niśīthapavanāhatam ||

31.1३१.१

कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः । (३१।१)

koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ |

31.2३१.२

पञ्चाम्लको मुखालेपः सद्यस् तृष्णां नियच्छति ॥ (३१।२)

pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati ||

32.1३२.१

त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्छितः । (३२।१)

tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ |

32.2३२.२

दाहं प्रकुरुते घोरं तत्रातिशिशिरो विधिः ॥ (३२।२)

dāhaṃ prakurute ghoraṃ tatrātiśiśiro vidhiḥ ||

33.1३३.१

अशाम्यति रसैस् तृप्ते रोहिणीं व्यधयेत् सिराम् । (३३।१)

aśāmyati rasais tṛpte rohiṇīṃ vyadhayet sirām |

33.2३३.२

उल्लेखनोपवासाभ्यां जयेच्छ्लेष्मोल्बणं पिबेत् ॥ (३३।२)

ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ pibet ||

34.1३४.१

शीतं शुण्ठीस्थिरोदीच्यदुःस्पर्शान्यतमोदकम् । (३४।१)

śītaṃ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam |

34.2३४.२

निरामं क्षुधितं काले पाययेद् बहुमाक्षिकम् ॥ (३४।२)

nirāmaṃ kṣudhitaṃ kāle pāyayed bahumākṣikam ||

35.1३५.१

शार्करं मधु वा जीर्णम् अरिष्टं सीधुम् एव वा । (३५।१)

śārkaraṃ madhu vā jīrṇam ariṣṭaṃ sīdhum eva vā |

35.2३५.२

रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम् ॥ (३५।२)

rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam ||

36.1३६.१

यूषेण यवगोधूमं तनुनाल्पेन भोजयेत् । (३६।१)

yūṣeṇa yavagodhūmaṃ tanunālpena bhojayet |

36.2३६.२

उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा ॥ (३६।२)

uṣṇāmlakaṭutiktena kaulatthenālpasarpiṣā ||

37.1३७.१

शुष्कमूलकजैश्छागै रसैर् वा धन्वचारिणाम् । (३७।१)

śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām |

37.2३७.२

साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः ॥ (३७।२)

sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ ||

38.1३८.१

प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम् । (३८।१)

prabhūtaśuṇṭhīmaricaharitārdrakapeśikam |

38.2३८.२

बीजपूररसाद्यम्लभृष्टनीरसवर्तितम् ॥ (३८।२)

bījapūrarasādyamlabhṛṣṭanīrasavartitam ||

39.1३९.१

करीरकरमर्दादि रोचिष्णु बहुशालनम् । (३९।१)

karīrakaramardādi rociṣṇu bahuśālanam |

39.2३९.२

प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम् ॥ (३९।२)

pravyaktāṣṭāṅgalavaṇaṃ vikalpitanimardakam ||

40.1४०.१

यथाग्नि भक्षयन् मांसं माधवं निगदं पिबेत् । (४०।१)

yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet |

40.2४०.२

सितासौवर्चलाजाजीतिन्तिडीकाम्लवेतसम् ॥ (४०।२)

sitāsauvarcalājājītintiḍīkāmlavetasam ||

41.1४१.१

त्वगेलामरिचार्धांशम् अष्टाङ्गलवणं हितम् । (४१।१)

tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam |

41.2४१.२

स्रोतोविशुद्ध्यग्निकरं कफप्राये मदात्यये ॥ (४१।२)

srotoviśuddhyagnikaraṃ kaphaprāye madātyaye ||

42.1४२.१

रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्घनैः । (४२।१)

rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ |

42.2४२.२

सकामाभिः सह स्त्रीभिर् युक्त्या जागरणेन च ॥ (४२।२)

sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca ||

43.1४३.१

मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति । (४३।१)

madātyayaḥ kaphaprāyaḥ śīghraṃ samupaśāmyati |

43.2४३.२

यद् इदं कर्म निर्दिष्टं पृथग् दोषबलं प्रति ॥ (४३।२)

yad idaṃ karma nirdiṣṭaṃ pṛthag doṣabalaṃ prati ||

44.1४४.१

संनिपाते दशविधे तच्छेषे ऽपि विकल्पयेत् । (४४।१)

saṃnipāte daśavidhe taccheṣe 'pi vikalpayet |

44.2४४.२

त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः ॥ (४४।२)

tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ ||

45.1४५.१

परूषकमधूकैलासुराह्वैश्च सितान्वितैः । (४५।१)

parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ |

45.2४५.२

सकपित्थरसं हृद्यं पानकं शशिबोधितम् ॥ (४५।२)

sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam ||

46.1४६.१

मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम् । (४६।१)

madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam |

46.2४६.२

नाविक्षोभ्य मनो मद्यं शरीरम् अविहन्य वा ॥ (४६।२)

nāvikṣobhya mano madyaṃ śarīram avihanya vā ||

47.1४७.१

कुर्यान् मदात्ययं तस्माद् इष्यते हर्षणी क्रिया । (४७।१)

kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā |

47.2४७.२

संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि ॥ (४७।२)

saṃśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi ||

48.1४८.१

न चेच्छाम्येत् कफे क्षीणे जाते दौर्बल्यलाघवे । (४८।१)

na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave |

48.2४८.२

तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च ॥ (४८।२)

tasya madyavidagdhasya vātapittādhikasya ca ||

49.1४९.१

ग्रीष्मोपतप्तस्य तरोर् यथा वर्षं तथा पयः । (४९।१)

grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ |

49.2४९.२

मद्यक्षीणस्य हि क्षीणं क्षीरम् आश्वेव पुष्यति ॥ (४९।२)

madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati ||

50.1५०.१

ओजस् तुल्यं गुणैः सर्वैर् विपरीतं च मद्यतः । (५०।१)

ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ |

50.2५०.२

पयसा विहते रोगे बले जाते निवर्तयेत् ॥ (५०।२)

payasā vihate roge bale jāte nivartayet ||

51.1५१.१

क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पम् आचरेत् । (५१।१)

kṣīraprayogaṃ madyaṃ ca krameṇālpālpam ācaret |

51.2५१.२

न विक्षयध्वंसकोत्थैः स्पृशेतोपद्रवैर् यथा ॥ (५१।२)

na vikṣayadhvaṃsakotthaiḥ spṛśetopadravair yathā ||

52.1५२.१

तयोस् तु स्याद् घृतं क्षीरं वस्तयो बृंहणाः शिवाः । (५२।१)

tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ |

52.2५२.२

अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित् ॥ (५२।२)

abhyaṅgodvartanasnānānyannapānaṃ ca vātajit ||

53.1५३.१

युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते । (५३।१)

yuktamadyasya madyottho na vyādhirupajāyate |

53.2५३.२

अतो ऽस्य वक्ष्यते योगो यः सुखायैव केवलम् ॥ (५३।२)

ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam ||

54.1५४.१

आश्विनं या महत् तेजो बलं सारस्वतं च या । (५४।१)

āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca yā |

54.2५४.२

दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या ॥ (५४।२)

dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā ||

55.1५५.१

अस्त्रं मकरकेतोर् या पुरुषार्थो बलस्य या । (५५।१)

astraṃ makaraketor yā puruṣārtho balasya yā |

55.2५५.२

सौत्रामण्यां द्विजमुखे या हुताशे च ह्वयते ॥ (५५।२)

sautrāmaṇyāṃ dvijamukhe yā hutāśe ca hvayate ||

56.1५६.१

या सर्वौषधिसम्पूर्णान् मथ्यमानात् सुरासुरैः । (५६।१)

yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ |

56.2५६.२

महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह ॥ (५६।२)

mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha ||

57.1५७.१

मधुमाधवमैरेयसीधुगौडासवादिभिः । (५७।१)

madhumādhavamaireyasīdhugauḍāsavādibhiḥ |

57.2५७.२

मदशक्तिम् अनुज्झन्ती या रूपैर् बहुभिः स्थिता ॥ (५७।२)

madaśaktim anujjhantī yā rūpair bahubhiḥ sthitā ||

58.1५८.१

याम् आस्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति । (५८।१)

yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati |

58.2५८.२

कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा ॥ (५८।२)

kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā ||

59.1५९.१

अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि । (५९।१)

anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi |

59.2५९.२

तरङ्गभङ्गभ्रूकुटीतर्जनैर् मानिनीमनः ॥ (५९।२)

taraṅgabhaṅgabhrūkuṭītarjanair māninīmanaḥ ||

60.1६०.१

एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम् । (६०।१)

ekaṃ prasādya kurute yā dvayorapi nirvṛtim |

60.2६०.२

यथाकामं भटावाप्तिपरिहृष्टाप्सरोगणे ॥ (६०।२)

yathākāmaṃ bhaṭāvāptiparihṛṣṭāpsarogaṇe ||

61.1६१.१

तृणवत् पुरुषा युद्धे याम् आस्वाद्य त्यजन्त्यसून् । (६१।१)

tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn |

61.2६१.२

यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम् ॥ (६१।२)

yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām ||

62.1६२.१

नित्यं हर्षातिवेगेन तत्पूर्वम् इव सेवते । (६२।१)

nityaṃ harṣātivegena tatpūrvam iva sevate |

62.2६२.२

शोकोद्वेगारतिभयैर् यां दृष्ट्वा नाभिभूयते ॥ (६२।२)

śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate ||

63.1६३.१

गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना । (६३।१)

goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā |

63.2६३.२

स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया ॥ (६३।२)

smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā ||

64.1६४.१

अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या । (६४।१)

aprasannāpi yā prītyai prasannā svarga eva yā |

64.2६४.२

अपीन्द्रं मन्यते दुःस्थं हृदयस्थितया यया ॥ (६४।२)

apīndraṃ manyate duḥsthaṃ hṛdayasthitayā yayā ||

65.1६५.१

अनिर्देश्यसुखास्वादा स्वयंवेद्यैव या परम् । (६५।१)

anirdeśyasukhāsvādā svayaṃvedyaiva yā param |

65.2६५.२

इति चित्रास्ववस्थासु प्रियाम् अनुकरोति या ॥ (६५।२)

iti citrāsvavasthāsu priyām anukaroti yā ||

66.1६६.१

प्रियातिप्रियतां याति यत् प्रियस्य विशेषतः । (६६।१)

priyātipriyatāṃ yāti yat priyasya viśeṣataḥ |

66.2६६.२

या प्रीतिर् या रतिर् वा वाग् या पुष्टिरिति च स्तुता ॥ (६६।२)

yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā ||

67.1६७.१

देवदानवगन्धर्वयक्षराक्षसमानुषैः । (६७।१)

devadānavagandharvayakṣarākṣasamānuṣaiḥ |

67.2६७.२

पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत् ॥ (६७।२)

pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet ||

68.1६८.१

सम्भवन्ति न ते रोगा मेदोऽनिलकफोद्भवाः । (६८।१)

sambhavanti na te rogā medo'nilakaphodbhavāḥ |

68.2६८.२

विधियुक्ताद् ऋते मद्याद् ये न सिध्यन्ति दारुणाः ॥ (६८।२)

vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ ||

69.1६९.१

अस्ति देहस्य सावस्था यस्यां पानं निवार्यते । (६९।१)

asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate |

69.2६९.२

अन्यत्र मद्यान् निगदाद् विविधौषधसंस्कृतात् ॥ (६९।२)

anyatra madyān nigadād vividhauṣadhasaṃskṛtāt ||

70.1७०.१

आनूपं जाङ्गलं मांसं विधिनाप्युपकल्पितम् । (७०।१)

ānūpaṃ jāṅgalaṃ māṃsaṃ vidhināpyupakalpitam |

70.2७०.२

मद्यं सहायम् अप्राप्य सम्यक् परिणमेत् कथम् ॥ (७०।२)

madyaṃ sahāyam aprāpya samyak pariṇamet katham ||

71.1७१.१

सुतीव्रमारुतव्याधिघातिनो लशुनस्य च । (७१।१)

sutīvramārutavyādhighātino laśunasya ca |

71.2७१.२

मद्यमांसवियुक्तस्य प्रयोगे स्यात् कियान् गुणः ॥ (७१।२)

madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ ||

72.1७२.१

निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि । (७२।१)

nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi |

72.2७२.२

पीतमद्यो विषहते सुखं वैद्यविकत्थनाम् ॥ (७२।२)

pītamadyo viṣahate sukhaṃ vaidyavikatthanām ||

73.1७३.१

अनलोत्तेजनं रुच्यं शोकश्रमविनोदकम् । (७३।१)

analottejanaṃ rucyaṃ śokaśramavinodakam |

73.2७३.२

न चातः परम् अस्त्यन्यद् आरोग्यबलपुष्टिकृत् ॥ (७३।२)

na cātaḥ param astyanyad ārogyabalapuṣṭikṛt ||

74.1७४.१

रक्षता जीवितं तस्मात् पेयम् आत्मवता सदा । (७४।१)

rakṣatā jīvitaṃ tasmāt peyam ātmavatā sadā |

74.2७४.२

आश्रितोपाश्रितहितं परमं धर्मसाधनम् ॥ (७४।२)

āśritopāśritahitaṃ paramaṃ dharmasādhanam ||

75.1७५.१

स्नातः प्रणम्य सुरविप्रगुरून् यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य । (७५।१)

snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya |

75.2७५.२

आपानभूमिम् अथ गन्धजलाभिषिक्ताम् आहारमण्डपसमीपगतां श्रयेत् ॥ (७५।२)

āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet ||

76.1७६.१

स्वास्तृते ऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः । (७६।१)

svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ |

76.2७६.२

स्वं यशः कथकचारणसंघैरुद्धतं निशमयन्न् अतिलोकम् ॥ (७६।२)

svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam ||

77.1७७.१

विलासिनीनां च विलासशोभि गीतं सनृत्यं कलतूर्यघोषैः । (७७।१)

vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ |

77.2७७.२

काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम् ॥ (७७।२)

kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam ||

78.1७८.१

मणिकनकसमुत्थैरावनेयैर् विचित्रैः सजलविविधलेखक्षौमवस्त्रावृताङ्गैः । (७८।१)

maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ |

78.2७८.२

अपि मुनिजनचित्तक्षोभसंपादिनीभिश् चकितहरिणलोलप्रेक्षणीभिः प्रियाभिः ॥ (७८।२)

api munijanacittakṣobhasaṃpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ ||

79.1७९.१

स्तननितम्बकृताद् अतिगौरवाद् अलसम् आकुलम् ईश्वरसंभ्रमात् । (७९।१)

stananitambakṛtād atigauravād alasam ākulam īśvarasaṃbhramāt |

79.2७९.२

इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम् ॥ (७९।२)

iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam ||

80.1८०.१

यौवनासवमत्ताभिर् विलासाधिष्ठितात्मभिः । (८०।१)

yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ |

80.2८०.२

संचार्यमाणं युगपत् तन्वङ्गीभिरितस्ततः ॥ (८०।२)

saṃcāryamāṇaṃ yugapat tanvaṅgībhiritastataḥ ||

81.1८१.१

तालवृन्तनलिनीदलानिलैः शीतलीकृतम् अतीव शीतलैः । (८१।१)

tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ |

81.2८१.२

दर्शने ऽपि विदधद् वशानुगम् स्वादितं किम् उत चित्तजन्मनः ॥ (८१।२)

darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ ||

82.1८२.१

चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम् । (८२।१)

cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham |

82.2८२.२

स्फाटिकशुक्तिगतं सतरङ्गं कान्तम् अनङ्गम् इवोद्वहद् अङ्गम् ॥ (८२।२)

sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam ||

83.1८३.१

तालीशाद्यं चूर्णम् एलादिकं वा हृद्यं प्राश्य प्राग् वयःस्थापनं वा । (८३।१)

tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā |

83.2८३.२

तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च ॥ (८३।२)

tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca ||

84.1८४.१

धृतिमान् स्मृतिमान् नित्यम् अनूनाधिकम् आचरन् । (८४।१)

dhṛtimān smṛtimān nityam anūnādhikam ācaran |

84.2८४.२

उचितेनोपचारेण सर्वम् एवोपपादयन् ॥ (८४।२)

ucitenopacāreṇa sarvam evopapādayan ||

85.1८५.१

जितविकसितासितसरोजनयनसंक्रान्तिवर्धितश्रीकम् । (८५।१)

jitavikasitāsitasarojanayanasaṃkrāntivardhitaśrīkam |

85.2८५.२

कान्तामुखम् इव सौरभहृतमधुपगणं पिबेन् मद्यम् ॥ (८५।२)

kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam ||

86.1८६.१

पीत्वैवं चषकद्वयं परिजनं संमान्य सर्वं ततो गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयो ऽत्र च । (८६।१)

pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca |

86.2८६.२

मांसापूपघृतार्द्रकादिहरितैर् युक्तं ससौवर्चलैर् द्विस् त्रिर् वा निशि चाल्पम् एव वनितासंवल्गनार्थं पिबेत् ॥ (८६।२)

māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet ||

87.1८७.१

रहसि दयिताम् अङ्के कृत्वा भुजान्तरपीडनात् पुलकिततनुं जातस्वेदां सकम्पपयोधराम् । (८७।१)

rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām |

87.2८७.२

यदि सरभसं सीधोर् वारं न पाययते कृती किम् अनुभवति क्लेशप्रायं ततो गृहतन्त्रताम् ॥ (८७।२)

yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām ||

88.1८८.१

वरतनुवक्त्रसंगतिसुगन्धितरं सरकम् । (८८।१)

varatanuvaktrasaṃgatisugandhitaraṃ sarakam |

88.2८८.२

द्रुतम् इव पद्मरागमणिम् आसवरूपधरम् । (८८।२)

drutam iva padmarāgamaṇim āsavarūpadharam |

88.3८८.३

भवति रतिश्रमेण च मदः पिबतो ऽल्पम् अपि । (८८।३)

bhavati ratiśrameṇa ca madaḥ pibato 'lpam api |

88.4८८.४

क्षयम् अत ओजसः परिहरन् स शयीत परम् ॥ (८८।४)

kṣayam ata ojasaḥ pariharan sa śayīta param ||

89.1८९.१

इत्थं युक्त्या पिबन् मद्यं न त्रिवर्गाद् विहीयते । (८९।१)

itthaṃ yuktyā piban madyaṃ na trivargād vihīyate |

89.2८९.२

असारसंसारसुखं परमं चाधिगच्छति ॥ (८९।२)

asārasaṃsārasukhaṃ paramaṃ cādhigacchati ||

90.1९०.१

ऐश्वर्यस्योपभोगो ऽयं स्पृहणीयः सुरैरपि । (९०।१)

aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi |

90.2९०.२

अन्यथा हि विपत्सु स्यात् पश्चात् तापेन्धनं धनम् ॥ (९०।२)

anyathā hi vipatsu syāt paścāt tāpendhanaṃ dhanam ||

91.1९१.१

उपभोगेन रहितो भोगवान् इति निन्द्यते । (९१।१)

upabhogena rahito bhogavān iti nindyate |

91.2९१.२

निर्मितो ऽतिकदर्यो ऽयं विधिना निधिपालकः ॥ (९१।२)

nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ ||

92.1९२.१

तस्माद् व्यवस्थया पानं पानस्य सततं हितम् । (९२।१)

tasmād vyavasthayā pānaṃ pānasya satataṃ hitam |

92.2९२.२

जित्वा विषयलुब्धानाम् इन्द्रियाणां स्वतन्त्रताम् ॥ (९२।२)

jitvā viṣayalubdhānām indriyāṇāṃ svatantratām ||

93.1९३.१

विधिर् वसुमताम् एष भविष्यद्वसवस् तु ये । (९३।१)

vidhir vasumatām eṣa bhaviṣyadvasavas tu ye |

93.2९३.२

यथोपपत्ति तैर् मद्यं पातव्यं मात्रया हितम् ॥ (९३।२)

yathopapatti tair madyaṃ pātavyaṃ mātrayā hitam ||

94.1९४.१

यावद् दृष्टेर् न संभ्रान्तिर् यावन् न क्षोभते मनः । (९४।१)

yāvad dṛṣṭer na saṃbhrāntir yāvan na kṣobhate manaḥ |

94.2९४.२

तावद् एव विरन्तव्यं मद्याद् आत्मवता सदा ॥ (९४।२)

tāvad eva virantavyaṃ madyād ātmavatā sadā ||

95.1९५.१

अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः । (९५।१)

abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ |

95.2९५.२

स्निग्धोष्णैर् भावितश्चान्नैः पानं वातोत्तरः पिबेत् ॥ (९५।२)

snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet ||

96.1९६.१

शीतोपचारैर् विविधैर् मधुरस्निग्धशीतलैः । (९६।१)

śītopacārair vividhair madhurasnigdhaśītalaiḥ |

96.2९६.२

पैत्तिको भावितश्चान्नैः पिबन् मद्यं न सीदति ॥ (९६।२)

paittiko bhāvitaścānnaiḥ piban madyaṃ na sīdati ||

97.1९७.१

उपचारैरशिशिरैर् यवगोधूमभुक् पिबेत् । (९७।१)

upacārairaśiśirair yavagodhūmabhuk pibet |

97.2९७.२

श्लैष्मिको धन्वजैर् मांसैर् मद्यं मारिचिकैः सह ॥ (९७।२)

ślaiṣmiko dhanvajair māṃsair madyaṃ māricikaiḥ saha ||

98.1९८.१

तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिकम् । (९८।१)

tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭikagauḍikam |

98.2९८.२

पित्ते साम्भो मधु कफे मार्द्वीकारिष्टमाधवम् ॥ (९८।२)

pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam ||

99.1९९.१

प्राक् पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः । (९९।१)

prāk pibecchlaiṣmiko madyaṃ bhuktasyopari paittikaḥ |

99.2९९.२

वातिकस् तु पिबेन् मध्ये समदोषो यथेच्छया ॥ (९९।२)

vātikas tu piben madhye samadoṣo yathecchayā ||

100.1१००.१

मदेषु वातपित्तघ्नं प्रायो मूर्छासु चेष्यते । (१००।१)

madeṣu vātapittaghnaṃ prāyo mūrchāsu ceṣyate |

100.2१००.२

सर्वत्रापि विशेषेण पित्तम् एवोपलक्षयेत् ॥ (१००।२)

sarvatrāpi viśeṣeṇa pittam evopalakṣayet ||

101.1१०१.१

शीताः प्रदेहा मणयः सेका व्यजनमारुताः । (१०१।१)

śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ |

101.2१०१.२

सिता द्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः ॥ (१०१।२)

sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ ||

102.1१०२.१

सिद्धं मधुरवर्गेण रसा यूषाः सदाडिमाः । (१०२।१)

siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ |

102.2१०२.२

षष्टिकाः शालयो रक्ता यवाः सर्पिश्च जीवनम् ॥ (१०२।२)

ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam ||

103.1१०३.१

कल्याणकं महातिक्तं षट्पलं पयसाग्निकः । (१०३।१)

kalyāṇakaṃ mahātiktaṃ ṣaṭpalaṃ payasāgnikaḥ |

103.2१०३.२

पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः ॥ (१०३।२)

pippalyo vā śilāhvaṃ vā rasāyanavidhānataḥ ||

104.1१०४.१

त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा । (१०४।१)

triphalā vā prayoktavyā saghṛtakṣaudraśarkarā |

104.2१०४.२

प्रसक्तवेगेषु हितं मुखनासावरोधनम् ॥ (१०४।२)

prasaktavegeṣu hitaṃ mukhanāsāvarodhanam ||

105.1१०५.१

पिबेद् वा मानुषीक्षीरं तेन दद्याच्च नावनम् । (१०५।१)

pibed vā mānuṣīkṣīraṃ tena dadyācca nāvanam |

105.2१०५.२

मृणालबिसकृष्णा वा लिह्यात् क्षौद्रेण साभयाः ॥ (१०५।२)

mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ ||

106.1१०६.१

दुरालभां वा मुस्तं वा शीतेन सलिलेन वा । (१०६।१)

durālabhāṃ vā mustaṃ vā śītena salilena vā |

106.2१०६.२

पिबेन् मरिचकोलास्थिमज्जोशीराहिकेसरम् ॥ (१०६।२)

piben maricakolāsthimajjośīrāhikesaram ||

107.1१०७.१

धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम् । (१०७।१)

dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam |

107.2१०७.२

कुर्यात् क्रियां यथोक्तां च यथादोषबलोदयम् ॥ (१०७।२)

kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam ||

108.1१०८.१

पञ्च कर्माणि चेष्टानि सेचनं शोणितस्य च । (१०८।१)

pañca karmāṇi ceṣṭāni secanaṃ śoṇitasya ca |

108.2१०८.२

सत्त्वस्यालम्बनं ज्ञानम् अगृद्धिर् विषयेषु च ॥ (१०८।२)

sattvasyālambanaṃ jñānam agṛddhir viṣayeṣu ca ||

109.1१०९.१

मदेष्वतिप्रवृद्धेषु मूर्छायेषु च योजयेत् । (१०९।१)

madeṣvatipravṛddheṣu mūrchāyeṣu ca yojayet |

109.2१०९.२

तीक्ष्णं संन्यासविहितं विषघ्नं विषजेषु च ॥ (१०९।२)

tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca ||

110.1११०.१

आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यम् अञ्जनम् । (११०।१)

āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam |

110.2११०.२

धूमः प्रधमनं तोदः सूचीभिश्च नखान्तरे ॥ (११०।२)

dhūmaḥ pradhamanaṃ todaḥ sūcībhiśca nakhāntare ||

111.1१११.१

केशानां लुञ्चनं दाहो दंशो दशनवृश्चिकैः । (१११।१)

keśānāṃ luñcanaṃ dāho daṃśo daśanavṛścikaiḥ |

111.2१११.२

कट्वम्लगालनं वक्त्रे कपिकच्छ्ववघर्षणम् ॥ (१११।२)

kaṭvamlagālanaṃ vaktre kapikacchvavagharṣaṇam ||

112.1११२.१

उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत् । (११२।१)

utthito labdhasaṃjñaśca laśunasvarasaṃ pibet |

112.2११२.२

खादेत् सव्योषलवणं बीजपूरककेसरम् ॥ (११२।२)

khādet savyoṣalavaṇaṃ bījapūrakakesaram ||

113.1११३.१

लघ्वन्नप्रति तीक्ष्णोष्णम् अद्यात् स्रोतोविशुद्धये । (११३।१)

laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye |

113.2११३.२

विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः ॥ (११३।२)

vismāpanaiḥ saṃsmaraṇaiḥ priyaśravaṇadarśanaiḥ ||

114.1११४.१

पटुभिर् गीतवादित्रशब्दैर् व्यायामशीलनैः । (११४।१)

paṭubhir gītavāditraśabdair vyāyāmaśīlanaiḥ |

114.2११४.२

स्रंसनोल्लेखनैर् धूमैः शोणितस्यावसेचनैः ॥ (११४।२)

sraṃsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ ||

115.1११५.१

उपाचरेत् तं प्रततम् अनुबन्धभयात् पुनः । (११५।१)

upācaret taṃ pratatam anubandhabhayāt punaḥ |

115.2११५.२

तस्य संरक्षितव्यं च मनः प्रलयहेतुतः ॥ (११५।२)

tasya saṃrakṣitavyaṃ ca manaḥ pralayahetutaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 4, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit