अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 34

114 of 120 · 136 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो गुह्यरोगप्रतिषेधं व्याख्यास्यामः । (१।१)

athāto guhyarogapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

मेढ्रमध्ये सिरां विध्येद् उपदंशे नवोत्थिते । (१।३)

meḍhramadhye sirāṃ vidhyed upadaṃśe navotthite |

1.4१.४

शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः ॥ (१।४)

śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ ||

2.1२.१

तिलकल्कघृतक्षौद्रैर् लेपः पक्वे तु पाटिते । (२।१)

tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite |

2.2२.२

जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् ॥ (२।२)

jambvāmrasumanonīpaśvetakāmbojikāṅkurān ||

3.1३.१

शल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः । (३।१)

śallakībadarībilvapalāśatiniśodbhavāḥ |

3.2३.२

त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज् जले ॥ (३।२)

tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale ||

4.1४.१

स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम् । (४।१)

sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam |

4.2४.२

तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः ॥ (४।२)

tutthagairikalodhrailāmanohvālarasāñjanaiḥ ||

5.1५.१

हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः । (५।१)

hareṇupuṣpakāsīsasaurāṣṭrīlavaṇottamaiḥ |

5.2५.२

लेपः क्षौद्रयुतैः सूक्ष्मैरुपदंशव्रणापहः ॥ (५।२)

lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ ||

6.1६.१

कपाले त्रिफला दग्धा सघृता रोपणं परम् । (६।१)

kapāle triphalā dagdhā saghṛtā ropaṇaṃ param |

6.2६.२

सामान्यं साधनम् इदं प्रतिदोषं तु शोफवत् ॥ (६।२)

sāmānyaṃ sādhanam idaṃ pratidoṣaṃ tu śophavat ||

7.1७.१

न च याति यथा पाकं प्रयतेत तथा भृशम् । (७।१)

na ca yāti yathā pākaṃ prayateta tathā bhṛśam |

7.2७.२

पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः ॥ (७।२)

pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ ||

8.1८.१

अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत् । (८।१)

arśasāṃ chinnadagdhānāṃ kriyā kāryopadaṃśavat |

8.2८.२

सर्षपा लिखिताः सूक्ष्मैः कषायैरवचूर्णयेत् ॥ (८।२)

sarṣapā likhitāḥ sūkṣmaiḥ kaṣāyairavacūrṇayet ||

9.1९.१

तैरेवाभ्यञ्जनं तैलं साधयेद् व्रणरोपणम् । (९।१)

tairevābhyañjanaṃ tailaṃ sādhayed vraṇaropaṇam |

9.2९.२

क्रियेयम् अवमन्थे ऽपि रक्तं स्राव्यं तथोभयोः ॥ (९।२)

kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ ||

10.1१०.१

कुम्भीकायां हरेद् रक्तं पक्वायां शोधिते व्रणे । (१०।१)

kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe |

10.2१०.२

तिन्दुकत्रिफलालोध्रैर् लेपस्तैलं च रोपणम् ॥ (१०।२)

tindukatriphalālodhrair lepastailaṃ ca ropaṇam ||

11.1११.१

अलज्यां स्रुतरक्तायाम् अयम् एव क्रियाक्रमः । (११।१)

alajyāṃ srutaraktāyām ayam eva kriyākramaḥ |

11.2११.२

उत्तमाख्यां तु पिटिकां संछिद्य बडिशोद्धृताम् ॥ (११।२)

uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām ||

12.1१२.१

कल्कैश्चूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत् । (१२।१)

kalkaiścūrṇaiḥ kaṣāyāṇāṃ kṣaudrayuktairupācaret |

12.2१२.२

क्रमः पित्तविसर्पोक्तः पुष्करव्यूढयोर् हितः ॥ (१२।२)

kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ ||

13.1१३.१

त्वक्पाके स्पर्शहान्यां च सेचयेन्मृदितं पुनः । (१३।१)

tvakpāke sparśahānyāṃ ca secayenmṛditaṃ punaḥ |

13.2१३.२

बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत् ॥ (१३।२)

balātailena koṣṇena madhuraiścopanāhayet ||

14.1१४.१

अष्ठीलिकां हृते रक्ते श्लेष्मग्रन्थिवद् आचरेत् । (१४।१)

aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret |

14.2१४.२

निवृत्तं सर्पिषाभ्यज्य स्वेदयित्वोपनाहयेत् ॥ (१४।२)

nivṛttaṃ sarpiṣābhyajya svedayitvopanāhayet ||

15.1१५.१

त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वणादिभिः । (१५।१)

trirātraṃ pañcarātraṃ vā susnigdhaiḥ śālvaṇādibhiḥ |

15.2१५.२

स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत् ॥ (१५।२)

svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet ||

16.1१६.१

मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम् । (१६।१)

maṇiṃ prapīḍya śanakaiḥ praviṣṭe copanāhanam |

16.2१६.२

मणौ पुनः पुनः स्निग्धं भोजनं चात्र शस्यते ॥ (१६।२)

maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate ||

17.1१७.१

अयम् एव प्रयोज्यः स्याद् अवपाट्याम् अपि क्रमः । (१७।१)

ayam eva prayojyaḥ syād avapāṭyām api kramaḥ |

17.2१७.२

नाडीम् उभयतोद्वारां निरुद्धे जतुना सृताम् ॥ (१७।२)

nāḍīm ubhayatodvārāṃ niruddhe jatunā sṛtām ||

18.1१८.१

स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत् स्नेहैश्चलापहैः । (१८।१)

snehāktāṃ srotasi nyasya siñcet snehaiścalāpahaiḥ |

18.2१८.२

त्र्यहात् त्र्यहात् स्थूलतरां न्यस्य नाडीं विवर्धयेत् ॥ (१८।२)

tryahāt tryahāt sthūlatarāṃ nyasya nāḍīṃ vivardhayet ||

19.1१९.१

स्रोतोद्वारम् असिद्धौ तु विद्वान् शस्त्रेण पाटयेत् । (१९।१)

srotodvāram asiddhau tu vidvān śastreṇa pāṭayet |

19.2१९.२

सेवनीं वर्जयन् युञ्ज्यात् सद्यःक्षतविधिं ततः ॥ (१९।२)

sevanīṃ varjayan yuñjyāt sadyaḥkṣatavidhiṃ tataḥ ||

20.1२०.१

ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैरुपनाहयेत् । (२०।१)

granthitaṃ sveditaṃ nāḍyā snigdhoṣṇairupanāhayet |

20.2२०.२

लिम्पेत् कषायैः सक्षौद्रैर् लिखित्वा शतपोनकम् ॥ (२०।२)

limpet kaṣāyaiḥ sakṣaudrair likhitvā śataponakam ||

21.1२१.१

रक्तविद्रधिवत् कार्या चिकित्सा शोणितार्बुदे । (२१।१)

raktavidradhivat kāryā cikitsā śoṇitārbude |

21.2२१.२

व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत् ॥ (२१।२)

vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet ||

22.1२२.१

योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित् । (२२।१)

yonivyāpatsu bhūyiṣṭhaṃ śasyate karma vātajit |

22.2२२.२

स्नेहनस्वेदवस्त्यादि वातजासु विशेषतः ॥ (२२।२)

snehanasvedavastyādi vātajāsu viśeṣataḥ ||

23.1२३.१

न हि वाताद् ऋते योनिर् वनितानां प्रदुष्यति । (२३।१)

na hi vātād ṛte yonir vanitānāṃ praduṣyati |

23.2२३.२

अतो जित्वा तम् अन्यस्य कुर्याद् दोषस्य भेषजम् ॥ (२३।२)

ato jitvā tam anyasya kuryād doṣasya bheṣajam ||

24.1२४.१

पाययेत बलातैलं मिश्रकं सुकुमारकम् । (२४।१)

pāyayeta balātailaṃ miśrakaṃ sukumārakam |

24.2२४.२

स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत् समाम् ॥ (२४।२)

snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām ||

25.1२५.१

पाणिना नमयेज्जिह्मां संवृतां व्यधयेत् पुनः । (२५।१)

pāṇinā namayejjihmāṃ saṃvṛtāṃ vyadhayet punaḥ |

25.2२५.२

प्रवेशयेन् निःसृतां च विवृतां परिवर्तयेत् ॥ (२५।२)

praveśayen niḥsṛtāṃ ca vivṛtāṃ parivartayet ||

26.1२६.१

स्थानापवृत्ता योनिर् हि शल्यभूता स्त्रियो मता । (२६।१)

sthānāpavṛttā yonir hi śalyabhūtā striyo matā |

26.2२६.२

कर्मभिर् वमनाद्यैश्च मृदुभिर् योजयेत् स्त्रियम् ॥ (२६।२)

karmabhir vamanādyaiśca mṛdubhir yojayet striyam ||

27.1२७.१

सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते । (२७।१)

sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate |

27.2२७.२

वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥ (२७।२)

vastyabhyaṅgaparīṣekapralepapicudhāraṇam ||

28.1२८.१

काश्मर्यत्रिफलाद्राक्षाकासमर्दनिशाद्वयैः । (२८।१)

kāśmaryatriphalādrākṣākāsamardaniśādvayaiḥ |

28.2२८.२

गुडूचीसैर्यकाभीरुशुकनासापुनर्नवैः ॥ (२८।२)

guḍūcīsairyakābhīruśukanāsāpunarnavaiḥ ||

29.1२९.१

परूषकैश्च विपचेत् प्रस्थम् अक्षसमैर् घृतात् । (२९।१)

parūṣakaiśca vipacet prastham akṣasamair ghṛtāt |

29.2२९.२

योनिवातविकारघ्नं तत् पीतं गर्भदं परम् ॥ (२९।२)

yonivātavikāraghnaṃ tat pītaṃ garbhadaṃ param ||

30.1३०.१

वचोपकुञ्चिकाजाजीकृष्णावृषकसैन्धवम् । (३०।१)

vacopakuñcikājājīkṛṣṇāvṛṣakasaindhavam |

30.2३०.२

अजमोदायवक्षारशर्कराचित्रकान्वितम् ॥ (३०।२)

ajamodāyavakṣāraśarkarācitrakānvitam ||

31.1३१.१

पिष्ट्वा प्रसन्नयालोड्य खादेत् तद् घृतभर्जितम् । (३१।१)

piṣṭvā prasannayāloḍya khādet tad ghṛtabharjitam |

31.2३१.२

योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये ॥ (३१।२)

yonipārśvārtihṛdrogagulmārśovinivṛttaye ||

32.1३२.१

वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् । (३२।१)

vṛṣakaṃ mātuluṅgasya mūlāni madayantikām |

32.2३२.२

पिबेन् मद्यैः सलवणैस्तथा कृष्णोपकुञ्चिके ॥ (३२।२)

piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike ||

33.1३३.१

रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः । (३३।१)

rāsnāśvadaṃṣṭrāvṛṣakaiḥ śṛtaṃ śūlaharaṃ payaḥ |

33.2३३.२

गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ॥ (३३।२)

guḍūcītriphalādantīkvāthaiśca pariṣecanam ||

34.1३४.१

नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः । (३४।१)

natavārtākinīkuṣṭhasaindhavāmaradārubhiḥ |

34.2३४.२

तैलात् प्रसाधिताद्धार्यः पिचुर् योनौ रुजापहः ॥ (३४।२)

tailāt prasādhitāddhāryaḥ picur yonau rujāpahaḥ ||

35.1३५.१

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः । (३५।१)

pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ |

35.2३५.२

शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च ॥ (३५।२)

śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca ||

36.1३६.१

शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात् । (३६।१)

śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt |

36.2३६.२

रसेन क्षीरतुल्येन पाचयेत घृताढकम् ॥ (३६।२)

rasena kṣīratulyena pācayeta ghṛtāḍhakam ||

37.1३७.१

जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः । (३७।१)

jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ |

37.2३७.२

पिष्टैः प्रियालैश्चाक्षांशैर् द्विबलामधुकान्वितैः ॥ (३७।२)

piṣṭaiḥ priyālaiścākṣāṃśair dvibalāmadhukānvitaiḥ ||

38.1३८.१

सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम् । (३८।१)

siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam |

38.2३८.२

शर्कराया दशपलं क्षिपेल्लिह्यात् पिचुं ततः ॥ (३८।२)

śarkarāyā daśapalaṃ kṣipellihyāt picuṃ tataḥ ||

39.1३९.१

योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम् । (३९।१)

yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ param |

39.2३९.२

क्षतं क्षयम् असृक्पित्तं कासं श्वासं हलीमकम् ॥ (३९।२)

kṣataṃ kṣayam asṛkpittaṃ kāsaṃ śvāsaṃ halīmakam ||

40.1४०.१

कामलां वातरुधिरं विसर्पं हृच्छिरोग्रहम् । (४०।१)

kāmalāṃ vātarudhiraṃ visarpaṃ hṛcchirograham |

40.2४०.२

अपस्मारार्दितायाममदोन्मादांश्च नाशयेत् ॥ (४०।२)

apasmārārditāyāmamadonmādāṃśca nāśayet ||

41.1४१.१

एवम् एव पयःसर्पिर् जीवनीयोपसाधितम् । (४१।१)

evam eva payaḥsarpir jīvanīyopasādhitam |

41.2४१.२

गर्भदं पित्तजानां च रोगाणां परमं हितम् ॥ (४१।२)

garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam ||

42.1४२.१

बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत् । (४२।१)

balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet |

42.2४२.२

क्षीरे चतुर्गुणे कृष्णाकाकनासासितान्वितैः ॥ (४२।२)

kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ ||

43.1४३.१

जीवन्तीक्षीरकाकोलीस्थिरावीरर्द्धिजीवकैः । (४३।१)

jīvantīkṣīrakākolīsthirāvīrarddhijīvakaiḥ |

43.2४३.२

पयस्याश्रावणीमुद्गपीलुमाषाख्यपर्णिभिः ॥ (४३।२)

payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ ||

44.1४४.१

वातपित्तामयान् हत्वा पानाद् गर्भं दधाति तत् । (४४।१)

vātapittāmayān hatvā pānād garbhaṃ dadhāti tat |

44.2४४.२

रक्तयोन्याम् असृग्वर्णैरनुबन्धम् अवेक्ष्य च ॥ (४४।२)

raktayonyām asṛgvarṇairanubandham avekṣya ca ||

45.1४५.१

यथादोषोदयं युञ्ज्याद् रक्तस्थापनम् औषधम् । (४५।१)

yathādoṣodayaṃ yuñjyād raktasthāpanam auṣadham |

45.2४५.२

पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम् ॥ (४५।२)

pāṭhāṃ jambvāmrayorasthi śilodbhedaṃ rasāñjanam ||

46.1४६.१

अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम् । (४६।१)

ambaṣṭhāṃ śālmalīpicchāṃ samaṅgāṃ vatsakatvacam |

46.2४६.२

बाह्लीकबिल्वातिविषालोध्रतोयदगैरिकम् ॥ (४६।२)

bāhlīkabilvātiviṣālodhratoyadagairikam ||

47.1४७.१

शुण्ठीमधूकमाचीकरक्तचन्दनकट्फलम् । (४७।१)

śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam |

47.2४७.२

कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ॥ (४७।२)

kaṭvaṅgavatsakānantādhātakīmadhukārjunam ||

48.1४८.१

पुष्ये गृहीत्वा संचूर्ण्य सक्षौद्रं तण्डुलाम्भसा । (४८।१)

puṣye gṛhītvā saṃcūrṇya sakṣaudraṃ taṇḍulāmbhasā |

48.2४८.२

पिबेद् अर्शःस्वतीसारे रक्तं यश्चोपवेश्यते ॥ (४८।२)

pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate ||

49.1४९.१

दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत् । (४९।१)

doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet |

49.2४९.२

योनिदोषं रजोदोषं श्यावश्वेतारुणासितम् ॥ (४९।२)

yonidoṣaṃ rajodoṣaṃ śyāvaśvetāruṇāsitam ||

50.1५०.१

चूर्णं पुष्यानुगं नाम हितम् आत्रेयपूजितम् । (५०।१)

cūrṇaṃ puṣyānugaṃ nāma hitam ātreyapūjitam |

50.2५०.२

योन्यां बलासदुष्टायां सर्वं रूक्षोष्णम् औषधम् ॥ (५०।२)

yonyāṃ balāsaduṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham ||

51.1५१.१

धातक्यामलकीपत्त्रस्रोतोजमधुकोत्पलैः । (५१।१)

dhātakyāmalakīpattrasrotojamadhukotpalaiḥ |

51.2५१.२

जम्ब्वाम्रसारकासीसलोध्रकट्फलतिन्दुकैः ॥ (५१।२)

jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ ||

52.1५२.१

सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः । (५२।१)

saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ |

52.2५२.२

अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् ॥ (५२।२)

akṣamātrairajāmūtre kṣīre ca dviguṇe pacet ||

53.1५३.१

तैलप्रस्थं तद् अभ्यङ्गपिचुवस्तिषु योजयेत् । (५३।१)

tailaprasthaṃ tad abhyaṅgapicuvastiṣu yojayet |

53.2५३.२

तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा ॥ (५३।२)

tena śūnonnatā stabdhā picchilā srāviṇī tathā ||

54.1५४.१

विप्लुतोपप्लुता योनिः सिध्येत् सस्फोटशूलिनी । (५४।१)

viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī |

54.2५४.२

यवान्नम् अभयारिष्टं सीधु तैलं च शीलयेत् ॥ (५४।२)

yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet ||

55.1५५.१

पिप्पल्ययोरजःपथ्याप्रयोगांश्च समाक्षिकान् । (५५।१)

pippalyayorajaḥpathyāprayogāṃśca samākṣikān |

55.2५५.२

कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि धातकी ॥ (५५।२)

kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī ||

56.1५६.१

पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः । (५६।१)

paicchilye kṣaudrasaṃyuktaścūrṇo vaiśadyakārakaḥ |

56.2५६.२

पलाशधातकीजम्बूसमङ्गामोचसर्जजः ॥ (५६।२)

palāśadhātakījambūsamaṅgāmocasarjajaḥ ||

57.1५७.१

दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते । (५७।१)

durgandhe picchile klede stambhanaścūrṇa iṣyate |

57.2५७.२

आरग्वधादिवर्गस्य कषायः परिषेचनम् ॥ (५७।२)

āragvadhādivargasya kaṣāyaḥ pariṣecanam ||

58.1५८.१

स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम् । (५८।१)

stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdavakārakam |

58.2५८.२

धारणं वेसवारस्य कृशरापायसस्य च ॥ (५८।२)

dhāraṇaṃ vesavārasya kṛśarāpāyasasya ca ||

59.1५९.१

दुर्गन्धानां कषायः स्यात् तैलं वा कल्क एव वा । (५९।१)

durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā |

59.2५९.२

चूर्णो वा सर्वगन्धानां पूतिगन्धापकर्षणः ॥ (५९।२)

cūrṇo vā sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ ||

60.1६०.१

श्लेष्मलानां कटुप्रायाः समूत्रा वस्तयो हिताः । (६०।१)

śleṣmalānāṃ kaṭuprāyāḥ samūtrā vastayo hitāḥ |

60.2६०.२

पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः ॥ (६०।२)

pitte samadhukakṣīrā vāte tailāmlasaṃyutāḥ ||

61.1६१.१

संनिपातसमुत्थायाः कर्म साधारणं हितम् । (६१।१)

saṃnipātasamutthāyāḥ karma sādhāraṇaṃ hitam |

61.2६१.२

एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ॥ (६१।२)

evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ ||

62.1६२.१

अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति । (६२।१)

aduṣṭe prākṛte bīje jīvopakramaṇe sati |

62.2६२.२

पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम् ॥ (६२।२)

pañcakarmaviśuddhasya puruṣasyāpi cendriyam ||

63.1६३.१

परीक्ष्य वर्णैर् दोषाणां दुष्टं तद्घ्नैरुपाचरेत् । (६३।१)

parīkṣya varṇair doṣāṇāṃ duṣṭaṃ tadghnairupācaret |

63.2६३.२

मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः ॥ (६३।२)

mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ ||

64.1६४.१

द्वे निशे मधुकं मेदां दीप्यकं कटुरोहिणीम् । (६४।१)

dve niśe madhukaṃ medāṃ dīpyakaṃ kaṭurohiṇīm |

64.2६४.२

पयस्याहिङ्गुकाकोलीवाजिगन्धाशतावरीः ॥ (६४।२)

payasyāhiṅgukākolīvājigandhāśatāvarīḥ ||

65.1६५.१

पिष्ट्वाक्षांशा घृतप्रस्थं पचेत् क्षीरचतुर्गुणम् । (६५।१)

piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam |

65.2६५.२

योनिशुक्रप्रदोषेषु तत् सर्वेषु प्रशस्यते ॥ (६५।२)

yoniśukrapradoṣeṣu tat sarveṣu praśasyate ||

66.1६६.१

आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम् । (६६।१)

āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param |

66.2६६.२

फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत् ॥ (६६।२)

phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat ||

67.1६७.१

म्रियमाणप्रजानां च गर्भिणीनां च पूजितम् । (६७।१)

mriyamāṇaprajānāṃ ca garbhiṇīnāṃ ca pūjitam |

67.2६७.२

एतत् परं च बालानां ग्रहघ्नं देहवर्धनम् ॥ (६७।२)

etat paraṃ ca bālānāṃ grahaghnaṃ dehavardhanam ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 34

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit