अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 4, 6

58 of 120 · 171 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातश्छर्दिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः । (१।१)

athātaśchardihṛdrogatṛṣṇācikitsitaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं ततः । (१।३)

āmāśayotkleśabhavāḥ prāyaśchardyo hitaṃ tataḥ |

1.4१.४

लङ्घनं प्राग् ऋते वायोर् वमनं तत्र योजयेत् ॥ (१।४)

laṅghanaṃ prāg ṛte vāyor vamanaṃ tatra yojayet ||

2.1२.१

बलिनो बहुदोषस्य वमतः प्रततं बहु । (२।१)

balino bahudoṣasya vamataḥ pratataṃ bahu |

2.2२.२

ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः ॥ (२।२)

tato virekaṃ kramaśo hṛdyaṃ madyaiḥ phalāmbubhiḥ ||

3.1३.१

क्षीरैर् वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः । (३।१)

kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ |

3.2३.२

शमनं चौषधं रूक्षदुर्बलस्य तद् एव तु ॥ (३।२)

śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu ||

4.1४.१

परिशुष्कं प्रियं सात्म्यम् अन्नं लघु च शस्यते । (४।१)

pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate |

4.2४.२

उपवासस् तथा यूषा रसाः काम्बलिकाः खलाः ॥ (४।२)

upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ ||

5.1५.१

शाकानि लेहा भोज्यानि रागषाडवपानकाः । (५।१)

śākāni lehā bhojyāni rāgaṣāḍavapānakāḥ |

5.2५.२

भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम् ॥ (५।२)

bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam ||

6.1६.१

गन्धाः सुगन्धयो गन्धफलपुष्पान्नपानजाः । (६।१)

gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ |

6.2६.२

भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम् ॥ (६।२)

bhuktamātrasya sahasā mukhe śītāmbusecanam ||

7.1७.१

हन्ति मारुतजां छर्दिं सर्पिः पीतं ससैन्धवम् । (७।१)

hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam |

7.2७.२

किंचिदुष्णं विशेषेण सकासहृदयद्रवाम् ॥ (७।२)

kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām ||

8.1८.१

व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना । (८।१)

vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā |

8.2८.२

सशुण्ठीदधिधान्येन शृतं तुल्याम्बु वा पयः ॥ (८।२)

saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ ||

9.1९.१

व्यक्तसैन्धवसर्पिर् वा फलाम्लो वैष्किरो रसः । (९।१)

vyaktasaindhavasarpir vā phalāmlo vaiṣkiro rasaḥ |

9.2९.२

स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम् ॥ (९।२)

snigdhaṃ ca bhojanaṃ śuṇṭhīdadhidāḍimasādhitam ||

10.1१०.१

कोष्णं सलवणं चात्र हितं स्नेहविरेचनम् । (१०।१)

koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam |

10.2१०.२

पित्तजायां विरेकार्थं द्राक्षेक्षुस्वरसैस् त्रिवृत् ॥ (१०।२)

pittajāyāṃ virekārthaṃ drākṣekṣusvarasais trivṛt ||

11.1११.१

सर्पिर् वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम् । (११।१)

sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam |

11.2११.२

ऊर्ध्वम् एव हरेत् पित्तं स्वादुतिक्तैर् विशुद्धिमान् ॥ (११।२)

ūrdhvam eva haret pittaṃ svādutiktair viśuddhimān ||

12.1१२.१

पिबेन् मन्थं यवागूं वा लाजैः समधुशर्कराम् । (१२।१)

piben manthaṃ yavāgūṃ vā lājaiḥ samadhuśarkarām |

12.2१२.२

मुद्गजाङ्गलजैरद्याद् व्यञ्जनैः शालिषष्टिकम् ॥ (१२।२)

mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam ||

13.1१३.१

मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत् । (१३।१)

mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet |

13.2१३.२

मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम् ॥ (१३।२)

mudgośīrakaṇādhānyaiḥ saha vā saṃsthitaṃ niśām ||

14.1१४.१

द्राक्षारसं रसं वेक्षोर् गुडूच्यम्बु पयो ऽपि वा । (१४।१)

drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā |

14.2१४.२

जम्ब्वाम्रपल्लवोशीरवटशुङ्गावरोहजः ॥ (१४।२)

jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ ||

15.1१५.१

क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति । (१५।१)

kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati |

15.2१५.२

छर्दिं ज्वरम् अतीसारं मूर्छां तृष्णां च दुर्जयाम् ॥ (१५।२)

chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām ||

16.1१६.१

धात्रीरसेन वा शीतं पिबेन् मुद्गदलाम्बु वा । (१६।१)

dhātrīrasena vā śītaṃ piben mudgadalāmbu vā |

16.2१६.२

कोलमज्जसितालाजामक्षिकाविट्कणाञ्जनम् ॥ (१६।२)

kolamajjasitālājāmakṣikāviṭkaṇāñjanam ||

17.1१७.१

लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा । (१७।१)

lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā |

17.2१७.२

कफजायां वमेन् निम्बकृष्णापिण्डीतसर्षपैः ॥ (१७।२)

kaphajāyāṃ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ ||

18.1१८.१

युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत् । (१८।१)

yuktena koṣṇatoyena durbalaṃ copavāsayet |

18.2१८.२

आरग्वधादिनिर्यूहं शीतं क्षौद्रयुतं पिबेत् ॥ (१८।२)

āragvadhādiniryūhaṃ śītaṃ kṣaudrayutaṃ pibet ||

19.1१९.१

मन्थान् यवैर् वा बहुशश्छर्दिघ्नौषधभावितैः । (१९।१)

manthān yavair vā bahuśaśchardighnauṣadhabhāvitaiḥ |

19.2१९.२

कफघ्नम् अन्नं हृद्यं च रागाः सार्जकभूस्तृणाः ॥ (१९।२)

kaphaghnam annaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ ||

20.1२०.१

लीढं मनःशिलाकृष्णामरिचं बीजपूरकात् । (२०।१)

līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt |

20.2२०.२

स्वरसेन कपित्थस्य सक्षौद्रेण वमिं जयेत् ॥ (२०।२)

svarasena kapitthasya sakṣaudreṇa vamiṃ jayet ||

21.1२१.१

खादेत् कपित्थं सव्योषं मधुना वा दुरालभाम् । (२१।१)

khādet kapitthaṃ savyoṣaṃ madhunā vā durālabhām |

21.2२१.२

लिह्यान् मरिचचोचैलागोशकृद्रसमाक्षिकम् ॥ (२१।२)

lihyān maricacocailāgośakṛdrasamākṣikam ||

22.1२२.१

अनुकूलोपचारेण याति द्विष्टार्थजा शमम् । (२२।१)

anukūlopacāreṇa yāti dviṣṭārthajā śamam |

22.2२२.२

कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः ॥ (२२।२)

kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ ||

23.1२३.१

यथास्वं परिशेषाश्च तत्कृताश्च तथामयाः । (२३।१)

yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ |

23.2२३.२

छर्दिप्रसङ्गेन हि मातरिश्वा धातुक्षयात् कोपम् उपैत्यवश्यम् । (२३।२)

chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam |

23.3२३.३

कुर्याद् अतो ऽस्मिन् वमनातियोगप्रोक्तं विधिं स्तम्भनबृंहणीयम् ॥ (२३।३)

kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam ||

24.1२४.१

सर्पिर्गुडा मांसरसा घृतानि कल्याणकत्र्यूषणजीवनानि । (२४।१)

sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni |

24.2२४.२

पयांसि पथ्योपहितानि लेहाश्छर्दिं प्रसक्तां प्रशमं नयन्ति ॥ (२४।२)

payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti ||

25.1२५.१

हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत् ॥ (२५।१)

hṛdroge vātaje tailaṃ mastusauvīratakravat ||

26.1२६.१

पिबेत् सुखोष्णं सविडं गुल्मानाहार्तिजिच्च तत् । (२६।१)

pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat |

26.2२६.२

तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम् ॥ (२६।२)

tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam ||

27.1२७.१

बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम् । (२७।१)

bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām |

27.2२७.२

कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन् पचेज्जले ॥ (२७।२)

kulatthān pañcamūlaṃ ca paktvā tasmin pacejjale ||

28.1२८.१

तैलं तन् नावने पाने वस्तौ च विनियोजयेत् । (२८।१)

tailaṃ tan nāvane pāne vastau ca viniyojayet |

28.2२८.२

शुण्ठीवयःस्थालवणकायस्थाहिङ्गुपौष्करैः ॥ (२८।२)

śuṇṭhīvayaḥsthālavaṇakāyasthāhiṅgupauṣkaraiḥ ||

29.1२९.१

पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद् घृतम् । (२९।१)

pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam |

29.2२९.२

सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते ॥ (२९।२)

sauvarcalasya dvipale pathyāpañcāśadanvite ||

30.1३०.१

घृतस्य साधितः प्रस्थो हृद्रोगश्वासगुल्मजित् । (३०।१)

ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit |

30.2३०.२

दाडिमं कृष्णलवणं शुण्ठीहिङ्ग्वम्लवेतसम् ॥ (३०।२)

dāḍimaṃ kṛṣṇalavaṇaṃ śuṇṭhīhiṅgvamlavetasam ||

31.1३१.१

अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णम् उत्तमम् । (३१।१)

apatantrakahṛdrogaśvāsaghnaṃ cūrṇam uttamam |

31.2३१.२

पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः ॥ (३१।२)

puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ ||

32.1३२.१

पीताः कल्कीकृताः क्षारघृताम्ललवणैर् युताः । (३२।१)

pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ |

32.2३२.२

विकर्तिकाशूलहराः क्वाथः कोष्णश्च तद्गुणः ॥ (३२।२)

vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ ||

33.1३३.१

यवानीलवणक्षारवचाजाज्यौषधैः कृतः । (३३।१)

yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ |

33.2३३.२

सपूतिदारुबीजाह्वपलाशशठिपौष्करैः ॥ (३३।२)

sapūtidārubījāhvapalāśaśaṭhipauṣkaraiḥ ||

34.1३४.१

पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम् । (३४।१)

pañcakolaśaṭhīpathyāguḍabījāhvapauṣkaram |

34.2३४.२

वारुणीकल्कितं भृष्टं यमके लवणान्वितम् ॥ (३४।२)

vāruṇīkalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam ||

35.1३५.१

हृत्पार्श्वयोनिशूलेषु खादेद् गुल्मोदरेषु च । (३५।१)

hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca |

35.2३५.२

स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च ॥ (३५।२)

snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca ||

36.1३६.१

लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम् । (३६।१)

laghunā pañcamūlena śuṇṭhyā vā sādhitaṃ jalam |

36.2३६.२

वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत् तृषि ॥ (३६।२)

vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi ||

37.1३७.१

सायामस्तम्भशूलामे हृदि मारुतदूषिते । (३७।१)

sāyāmastambhaśūlāme hṛdi mārutadūṣite |

37.2३७.२

क्रियैषा सद्रवायामप्रमोहे तु हिता रसाः ॥ (३७।२)

kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ ||

38.1३८.१

स्नेहाढ्यास् तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः । (३८।१)

snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ |

38.2३८.२

बलातैलं सहृद्रोगः पिबेद् वा सुकुमारकम् ॥ (३८।२)

balātailaṃ sahṛdrogaḥ pibed vā sukumārakam ||

39.1३९.१

यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम् । (३९।१)

yaṣṭyāhvaśatapākaṃ vā mahāsnehaṃ tathottamam |

39.2३९.२

रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः ॥ (३९।२)

rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ ||

40.1४०.१

भार्गीस्थिरावचाव्योषैर् महास्नेहं विपाचयेत् । (४०।१)

bhārgīsthirāvacāvyoṣair mahāsnehaṃ vipācayet |

40.2४०.२

दधिपादं तथाम्लैश्च लाभतः स निषेवितः ॥ (४०।२)

dadhipādaṃ tathāmlaiśca lābhataḥ sa niṣevitaḥ ||

41.1४१.१

तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः । (४१।१)

tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ |

41.2४१.२

दीप्ते ऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम् ॥ (४१।२)

dīpte 'gnau sadravāyāme hṛdroge vātike hitam ||

42.1४२.१

क्षीरं दधि गुडः सर्पिरौदकानूपम् आमिषम् । (४२।१)

kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam |

42.2४२.२

एतान्येव च वर्ज्यानि हृद्रोगेषु चतुर्ष्वपि ॥ (४२।२)

etānyeva ca varjyāni hṛdrogeṣu caturṣvapi ||

43.1४३.१

शेषेषु स्तम्भजाड्यामसंयुक्ते ऽपि च वातिके । (४३।१)

śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike |

43.2४३.२

कफानुबन्धे तस्मिंस्तु रूक्षोष्णाम् आचरेत् क्रियाम् ॥ (४३।२)

kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām ||

44.1४४.१

पैत्ते द्राक्षेक्षुनिर्याससिताक्षौद्रपरूषकैः । (४४।१)

paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ |

44.2४४.२

युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्तहा ॥ (४४।२)

yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā ||

45.1४५.१

क्षतपित्तज्वरोक्तं च बाह्यान्तः परिमार्जनम् । (४५।१)

kṣatapittajvaroktaṃ ca bāhyāntaḥ parimārjanam |

45.2४५.२

कट्वीमधुककल्कं च पिबेत् ससितम् अम्भसा ॥ (४५।२)

kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā ||

46.1४६.१

श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः । (४६।१)

śreyasīśarkarādrākṣājīvakarṣabhakotpalaiḥ |

46.2४६.२

बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम् ॥ (४६।२)

balākharjūrakākolīmedāyugmaiśca sādhitam ||

47.1४७.१

सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम् । (४७।१)

sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam |

47.2४७.२

प्रपौण्डरीकमधुकबिसग्रन्थिकसेरुकाः ॥ (४७।२)

prapauṇḍarīkamadhukabisagranthikaserukāḥ ||

48.1४८.१

सशुण्ठीशैवलास् ताभिः सक्षीरं विपचेद् घृतम् । (४८।१)

saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam |

48.2४८.२

शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत् ॥ (४८।२)

śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat ||

49.1४९.१

वस्तिं च दद्यात् सक्षौद्रं तैलं मधुकसाधितम् । (४९।१)

vastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam |

49.2४९.२

कफोद्भवे वमेत् स्विन्नः पिचुमन्दवचाम्भसा ॥ (४९।२)

kaphodbhave vamet svinnaḥ picumandavacāmbhasā ||

50.1५०.१

कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः । (५०।१)

kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ |

50.2५०.२

पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात् ॥ (५०।२)

pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt ||

51.1५१.१

सैलायवानककणायवक्षारात् सुखाम्बुना । (५१।१)

sailāyavānakakaṇāyavakṣārāt sukhāmbunā |

51.2५१.२

फलधान्याम्लकौलत्थयूषमूत्रासवैस् तथा ॥ (५१।२)

phaladhānyāmlakaulatthayūṣamūtrāsavais tathā ||

52.1५२.१

पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात् । (५२।१)

puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt |

52.2५२.२

क्वाथं तथाभयाशुण्ठीमाद्रीपीतद्रुकट्फलात् ॥ (५२।२)

kvāthaṃ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt ||

53.1५३.१

क्वाथे रोहीतकाश्वत्थखदिरोदुम्बरार्जुने । (५३।१)

kvāthe rohītakāśvatthakhadirodumbarārjune |

53.2५३.२

सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः ॥ (५३।२)

sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ ||

54.1५४.१

सुखोदकानुपानश्च लेहः कफविकारहा । (५४।१)

sukhodakānupānaśca lehaḥ kaphavikārahā |

54.2५४.२

श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत् ॥ (५४।२)

śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet ||

55.1५५.१

प्रयोजयेच्छिलाह्वं वा ब्राह्मं वात्र रसायनम् । (५५।१)

prayojayecchilāhvaṃ vā brāhmaṃ vātra rasāyanam |

55.2५५.२

तथामलकलेहं वा प्राशं वागस्त्यनिर्मितम् ॥ (५५।२)

tathāmalakalehaṃ vā prāśaṃ vāgastyanirmitam ||

56.1५६.१

स्याच्छूलं यस्य भुक्ते ऽति जीर्यत्यल्पं जरां गते । (५६।१)

syācchūlaṃ yasya bhukte 'ti jīryatyalpaṃ jarāṃ gate |

56.2५६.२

शाम्येत् स कुष्ठकृमिजिल्लवणद्वयतिल्वकैः ॥ (५६।२)

śāmyet sa kuṣṭhakṛmijillavaṇadvayatilvakaiḥ ||

57.1५७.१

सदेवदार्वतिविषैश्चूर्णम् उष्णाम्बुना पिबेत् । (५७।१)

sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet |

57.2५७.२

यस्य जीर्णे ऽधिकं स्नेहैः स विरेच्यः फलैः पुनः ॥ (५७।२)

yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ ||

58.1५८.१

जीर्यत्यन्ने तथा मूलैस् तीक्ष्णैः शूले सदाधिके । (५८।१)

jīryatyanne tathā mūlais tīkṣṇaiḥ śūle sadādhike |

58.2५८.२

प्रायो ऽनिलो रुद्धगतिः कुप्यत्यामाशये गतः ॥ (५८।२)

prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ ||

59.1५९.१

तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः । (५९।१)

tasyānulomanaṃ kāryaṃ śuddhilaṅghanapācanaiḥ |

59.2५९.२

कृमिघ्नम् औषधं सर्वं कृमिजे हृदयामये ॥ (५९।२)

kṛmighnam auṣadhaṃ sarvaṃ kṛmije hṛdayāmaye ||

60.1६०.१

तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते । (६०।१)

tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate |

60.2६०.२

सर्वासु शीतो बाह्यान्तस् तथा शमनशोधनः ॥ (६०।२)

sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ ||

61.1६१.१

दिव्याम्बु शीतं सक्षौद्रं तद्वद् भौमं च तद्गुणम् । (६१।१)

divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam |

61.2६१.२

निर्वापितं तप्तलोष्टकपालसिकतादिभिः ॥ (६१।२)

nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ ||

62.1६२.१

सशर्करं वा क्वथितं पञ्चमूलेन वा जलम् । (६२।१)

saśarkaraṃ vā kvathitaṃ pañcamūlena vā jalam |

62.2६२.२

दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः ॥ (६२।२)

darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ ||

63.1६३.१

वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः । (६३।१)

vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ |

63.2६३.२

यवागूः शालिभिस् तद्वत् कोद्रवैश्च चिरन्तनैः ॥ (६३।२)

yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ ||

64.1६४.१

शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम् । (६४।१)

śītena śītavīryaiśca dravyaiḥ siddhena bhojanam |

64.2६४.२

हिमाम्बुपरिषिक्तस्य पयसा ससितामधु ॥ (६४।२)

himāmbupariṣiktasya payasā sasitāmadhu ||

65.1६५.१

रसैश्चानम्ललवणैर् जाङ्गलैर् घृतभर्जितैः । (६५।१)

rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ |

65.2६५.२

मुद्गादीनां तथा यूषैर् जीवनीयरसान्वितैः ॥ (६५।२)

mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ ||

66.1६६.१

नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस् तथा रसः । (६६।१)

nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ |

66.2६६.२

निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः ॥ (६६।२)

nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ ||

67.1६७.१

दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः । (६७।१)

dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ |

67.2६७.२

महासरिद्ध्रदादीनां दर्शनस्मरणानि च ॥ (६७।२)

mahāsariddhradādīnāṃ darśanasmaraṇāni ca ||

68.1६८.१

तृष्णायां पवनोत्थायां सगुडं दधि शस्यते । (६८।१)

tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate |

68.2६८.२

रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च ॥ (६८।२)

rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca ||

69.1६९.१

पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः । (६९।१)

pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ |

69.2६९.२

तत्क्वाथो वा हिमस् तद्वच्छारिवादिगणाम्बु वा ॥ (६९।२)

tatkvātho vā himas tadvacchārivādigaṇāmbu vā ||

70.1७०.१

तद्विधैश्च गणैः शीतकषायान् ससितामधून् । (७०।१)

tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn |

70.2७०.२

मधुरैरौषधैस् तद्वत् क्षीरिवृक्षैश्च कल्पितान् ॥ (७०।२)

madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān ||

71.1७१.१

बीजपूरकमृद्वीकावटवेतसपल्लवान् । (७१।१)

bījapūrakamṛdvīkāvaṭavetasapallavān |

71.2७१.२

मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम् ॥ (७१।२)

mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam ||

72.1७२.१

ज्वरोदितं वा द्राक्षादि पञ्चसाराम्बु वा पिबेत् । (७२।१)

jvaroditaṃ vā drākṣādi pañcasārāmbu vā pibet |

72.2७२.२

कफोद्भवायां वमनं निम्बप्रसववारिणा ॥ (७२।२)

kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā ||

73.1७३.१

बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम् । (७३।१)

bilvāḍhakīpañcakoladarbhapañcakasādhitam |

73.2७३.२

जलं पिबेद् रजन्या वा सिद्धं सक्षौद्रशर्करम् ॥ (७३।२)

jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram ||

74.1७४.१

मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम् । (७४।१)

mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam |

74.2७४.२

यवान्नं तीक्ष्णकवडनस्यलेहांश्च शीलयेत् ॥ (७४।२)

yavānnaṃ tīkṣṇakavaḍanasyalehāṃśca śīlayet ||

75.1७५.१

सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा । (७५।१)

sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā |

75.2७५.२

त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः ॥ (७५।२)

tryūṣaṇāruṣkaravacāphalāmloṣṇāmbumastubhiḥ ||

76.1७६.१

अन्नात्ययान् मण्डम् उष्णं हिमं मन्थं च कालवित् । (७६।१)

annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit |

76.2७६.२

तृषि श्रमान् मांसरसं मन्थं वा ससितं पिबेत् ॥ (७६।२)

tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet ||

77.1७७.१

आतपात् ससितं मन्थं यवकोलजसक्तुभिः । (७७।१)

ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ |

77.2७७.२

सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः ॥ (७७।२)

sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ ||

78.1७८.१

शीतस्नानाच्च मद्याम्बु पिबेत् तृण्मान् गुडाम्बु वा । (७८।१)

śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā |

78.2७८.२

मद्याद् अर्धजलं मद्यं स्नातो ऽम्ललवणैर् युतम् ॥ (७८।२)

madyād ardhajalaṃ madyaṃ snāto 'mlalavaṇair yutam ||

79.1७९.१

स्नेहतीक्ष्णतराग्निस् तु स्वभावशिशिरं जलम् । (७९।१)

snehatīkṣṇatarāgnis tu svabhāvaśiśiraṃ jalam |

79.2७९.२

स्नेहाद् उष्णाम्ब्वजीर्णात् तु जीर्णान् मण्डं पिपासितः ॥ (७९।२)

snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ ||

80.1८०.१

पिबेत् स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम् । (८०।१)

pibet snigdhānnatṛṣito himaspardhi guḍodakam |

80.2८०.२

गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तद् उल्लिखेत् ॥ (८०।२)

gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet ||

81.1८१.१

क्षयजायां क्षयहितं सर्वं बृंहणम् औषधम् । (८१।१)

kṣayajāyāṃ kṣayahitaṃ sarvaṃ bṛṃhaṇam auṣadham |

81.2८१.२

कृशदुर्बलरूक्षाणां क्षीरं छागो रसो ऽथवा ॥ (८१।२)

kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā ||

82.1८२.१

क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम् । (८२।१)

kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam |

82.2८२.२

रोगोपसर्गाज्जातायां धान्याम्बु ससितामधु ॥ (८२।२)

rogopasargājjātāyāṃ dhānyāmbu sasitāmadhu ||

83.1८३.१

पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया । (८३।१)

pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā |

83.2८३.२

तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि ॥ (८३।२)

tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi ||

84.1८४.१

मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं ततः । (८४।१)

maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ tataḥ |

84.2८४.२

सात्म्यान्नपानभैषज्यैस् तृष्णां तस्य जयेत् पुरा । (८४।२)

sātmyānnapānabhaiṣajyais tṛṣṇāṃ tasya jayet purā |

84.3८४.३

तस्यां जितायाम् अन्यो ऽपि व्याधिः शक्यश्चिकित्सितुम् ॥ (८४।३)

tasyāṃ jitāyām anyo 'pi vyādhiḥ śakyaścikitsitum ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 4, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit